0८ अद्वयधर्ममुखप्रवेशः

८ अद्वयधर्ममुखप्रवेशः अथ लिच्छविर्विमलकीर्तिस्तान्‌ बोधिसत्त्वानेतदवोचत्‌-“सत्पुरुषाः, किमस्ति बोधिसत्त्वानामद्वयधर्ममुखप्रवेशः ? अस्तु स्वभिधानम्‌”।
धर्मविकुर्वणो नाम बोधिसत्त्वस्तत्र तस्मिन्‌ संनिपात एतदवोचत्‌- “कुलपुत्र, उत्पादभङ्गौ हि द्वयम्‌ ; यदनुत्पन्नमजातम्‌ तस्मिन्‌ कश्चिद्भङ्गो नास्ति। अनुत्पत्तिकधर्मक्षान्ति प्राप्तिरस्यद्वयप्रवेशः”।
बोधिसत्त्वः श्रीगुप्तोऽभाषत-" ‘अहञ्च ममे’ -ति तधि द्वयम्‌। आत्मसमारोपाभावे मम ( भावो ) नास्ति। यः समारोपाभावः, स ह्यद्वयप्रवेशः"।
बोधिसत्त्वः श्रीकूटोऽब्रवीत्‌-“संक्लिष्टञ्च व्यवदानन्नाम ते द्वयम्‌। संक्लिष्टपरिज्ञाने व्यवदानमन्यना नास्ति। सर्वमन्यनासून्मूलनानुगतिमार्गः सोऽद्वयप्रवेशः”।
बोधिसत्त्वो भद्रज्योतिराह- “चलश्च मन्यना तौ हि द्वयम्‌। योऽचलः, ( तत्‌- ) मन्यनाऽकरणम्‌ , अमनसिकारोऽनधिकारः। अधिकारविप्रयोगः सोऽद्वयप्रवेशः”।
बोधिसत्त्वः सुबाहुरवोचत्‌-“बोधिचित्तं च श्रावकचित्तन्नाम-ते हि द्वयम्‌। यन्मायाचित्तसमदर्शनं तन्न च बोधिचित्तन्न च श्रावकचित्तम्‌। या चित्तस्य समलक्षणता, सा ह्यद्वयप्रवेशः”।
बोधिसत्त्वोऽनिभिष आह-“आदानञ्चानादानं, ते द्वयम्‌। यदनुपादानं, तन्नोपलभ्यते। यन्नोपलभ्यते, तस्मिन्‌ कल्पनाऽपकर्षणाकरणम्‌। सर्वधर्माकरणमनाचारः, स ह्यद्वयप्रवेशः”।
बोधिसत्त्वः सुनेत्रो ऽवोचत्‌-“एकलक्षणत्वञ्चालक्षणत्वन्नाम, ते द्वयम्‌। यत्‌ कल्पनाऽकरणं सङ्कल्पाकरणम्‌ , ( तद्‌ ) एकलक्षणत्वालक्षणत्वाकरणम्‌। यो लक्षणाविलक्षणे समलक्षणताप्रवेशः, सोऽद्वयप्रवेशः”।
बोधिसत्त्वस्तिष्योऽब्रवीत्‌-“कुशलाकुधलम्‌ इति, ते द्वयम्‌। यत्‌ कुशलाकुशलानुत्थापनम्‌ , निमित्तानिमित्तयोरद्वयावबोधः, ( तद्‌- ) अद्वयप्रवेशः”।
बोधिसत्त्वः सिहोऽभाषत-“सावद्यञ्चानवद्यमिति, ते द्वयम्‌। यत्‌ प्रभेदज्ञानबज्रेणाबन्धनानिःसरणं, तदद्वयप्रवेशः”।
बोधिसत्त्वः सिहमतिरवोचत्‌-“इदं सास्रवम्‌, इदमनास्रवमिति-ते हि द्वयम्‌। यत्‌ समताधर्मप्राप्त्याऽऽस्रवानास्त्रवसंज्ञाऽकरणञ्चसंज्ञाऽभावः, ( यः ) समतायां न च समताप्राप्तिर्‌ न च संज्ञाग्रन्थिः, य एवमवतारः, तदद्वयप्रवेशः”।
बोधिसत्त्वः सुखाधिमुक्तोऽभाषत-“इदं हि सुखम्‌ इदं सुखन्नास्तीति-ते द्वयम्‌। सुविशुद्धज्ञानतः सर्वसंख्याविगता चाकाशसमालिप्ता बुद्धिः, साऽद्वयप्रवेशः”।
बोधिसत्त्वो नारायणोऽब्रवीत्‌-“इदं हि लौकिकम्‌, इदं लोकोत्तरमिति ते द्वयम्‌। या लोकस्य स्वभावशून्यता, तस्यां किञ्चिदप्युत्तरणन्नास्ति, अवतारो नास्ति, न चाधिगति र्न चानधिगतिः। यस्यानुत्तरणम्‌ अनवतारोऽनधिगतिश्चानधिगत्यभावः, तध्यद्वयप्रवेशः”।
बोधिसत्त्वो विनयमतिराह “संसारश्च निर्वाणमिति-ते द्वयम्‌। संसारस्वभावदर्शनेन संसारश्च परिनिर्वाणन्न स्तः। यदेवं ज्ञातं, तदद्वयप्रवेशः”।
बोधिसत्त्त्वः प्रत्यक्षदर्शनोऽवोचत्‌-“क्षयाक्षयौ नाम-तौ द्वयम्‌। क्षयोहि सुक्षीणः। यः सुक्षीणस्तस्मिन्न ( किञ्चित्‌ ) क्षपयितव्यम्‌ ; अतोऽक्षय उच्यते। योऽक्षयः स क्षणिकश्च, क्षणिके क्षयो नास्ति। तदेवनमुप्रविष्टम्‌ अद्वयधर्मद्वारावगाहो नाम”।
बोधिसत्त्वः समन्तगुप्तोऽब्रबीत्‌-“आत्मनैरात्भ्यमिति-ते द्वयम्‌। आत्मभावेऽनुपलभ्यमाने, किं नैरात्म्यं कुर्यात्‌ ? ( तत्‌- ) तयोः स्वभावदर्शनेनाद्वयम्‌ अद्वयप्रवेशः”।
बोधिसत्त्वो विद्युद्देवोऽभाषत-“विद्याऽविद्ये ‘ति-ते द्वयम्‌। अविद्यायाः स्वभाव इव, तथैव विद्याऽपि। याऽविद्या भवति, साऽव्याकृता, असंख्येया, संज्ञापथातिक्रान्ता। अस्यां योऽभिसमयः, सोऽद्वयप्रवेशः”।
बोधिसत्त्वः प्रियदर्शन आह-“रूपं खलु शून्यम्‌। रुपन्नाशनेन न शून्यम्‌, अपि खो पन रूपस्वभावः शून्यः। एवमेव वेदनासंज्ञासंस्कारविज्ञानं ( -च ) शून्यते ‘ति-ते द्वयम्‌। विज्ञानं खलु शून्यता। विज्ञानन्नाशनेन न शून्यम्‌, अपि खो पन विज्ञानस्वभावः शून्यः। योऽस्मिन्‌ पञ्चोपादानस्कन्धे ( ष्व्‌ ) एवमेव जानाति , एवं ज्ञानेन विज्ञः, सोऽद्वये प्रविशति”।
बोधिसत्त्वः प्रभाकेतुरवोचत्‌-“चतुर्धातुनोऽन्यत्राकाशधातुरन्य इति-ते द्वयम्‌। चतुर्धातु पुनराकाशस्वभावम्‌। पूर्वान्तोऽप्याकाशस्वभावः। अपरान्तश्चाकाशस्वभावः। एवमेव प्रत्युत्पन्नम्‌। यत्‌ तथा धात्ववतारज्ञानम्‌, तदद्वयप्रवेशः”।
बोधिसत्त्वोऽग्रमतिरभाषत-“चक्षुश्च रूपन्नाम-ते द्वयम्‌। ये चक्षुःपरिज्ञानेन रूपेऽलोभो ऽद्वेषोऽमोहः तधि शान्तिर्नाम। एवमेव श्रोत्रशब्दो, घ्राणगन्धौ, जिह्वारसौ, कायस्प्रष्टव्ये, मनोधर्मौ-ते द्वयम्‌। ये च मनः परिज्ञानाद्धर्मे ( -ष्व्‌ ) अलोभोऽद्वेषोऽमोहः-तधि शान्तिर्नाम। एवं शान्तिविहारोऽद्वयप्रवेशः”।
बोधिसत्त्वोऽक्षयमतिराह-“दानसर्वज्ञतापरिणामने-ते द्वयम्‌। दानस्वभावः सर्वज्ञता। सर्वज्ञतास्वभावः परिणामना। एवमेव शीलक्षान्तिवीर्यध्यानप्रज्ञासर्वज्ञतापरिणामने-ते द्वयम्‌। सर्वज्ञता हि ( शीलक्षान्तिवीर्यध्यान-) प्रज्ञास्वभावः; परिणामना च सर्वज्ञतास्वभावः। तस्मिन्‌ एकनयेऽवतारः, सोऽद्वयप्रवेशः”।
बोधिसत्त्वो गम्भीरमतिरभाषत-“शून्यताया अन्यत्रानिमित्ताप्रणिहितमप्यन्यमिति-ते द्वयम्‌। यच्छून्यम, तस्मिन्न किञ्चिन्निमित्तम्‌। अनिमित्तेऽप्रणिहितम्‌। अप्रणिहिते चित्तमानोविज्ञानासञ्चारः। यत्‌ सर्वविमोक्षमुखेषु द्रष्टव्यमेक विमोक्षमुखं, तदद्वयमुखप्रवेशः”।
बोधिसत्त्वः शान्तेन्द्रियोऽब्रवीत्‌-“बुद्धधर्मसङ्घा इति-ते द्वयम्‌। बुद्धस्य स्वभावो हि धर्मः, धर्मस्य च स्वभावः सङ्घ। सर्वे ते पुनरसंस्कृताः। असंस्कृतं ह्याकाश ( समम्‌ ) सर्वधर्मनय आकाशतुल्यः। यदेवमनुगमनं, तध्यद्वयप्रवेशः”।
बोधिसत्त्वोऽप्रतिहतेक्षणोऽभाषत-“सत्कायश्च सत्कायनिरोध इति-तौ द्वयम्‌। सत्काय एव निरोधः। तत्‌ कस्य हेतोः ? सत्कायदृष्ट्यनुत्पादेऽसति यत्‌ तथा दृष्टया ‘सत्काय’ इति वा ‘सत्कायनिरोध’ इति तद्कल्प्यम्‌ ; अकल्प्यं निर्विकल्पम्‌। अत्यन्ताकल्पनया निरोधस्वभावो भवति। असम्भवोऽविनाशस्‌-सोऽद्वयप्रवेशः”।
बोधिसत्त्वः सुबिनीतोऽवोचत्‌-“कायवाक्चित्तसंवरो नाम तदद्वयम्‌। तत्‌ कस्य हेतोः ? इमे धर्मा अनभिसंस्कारलक्षणाः। तत्‌ कायानभिसंस्कारं, तल्लक्षणेऽपि वागनबिसंस्कारञ्च चित्तानभिसंस्कारम्‌। तत्‌ सर्वधर्मानभिसंस्कारं, तदिति ज्ञातव्यमनुवेदितव्यम्‌। तत्‌ तदनभिसंस्कारज्ञानम्‌, तध्यद्वयप्रवेशः”।
बोधिसत्त्वः पुण्यक्षेत्र आह-“पुण्यापुण्यानिज्याभुसंस्काराभिसंस्कारणते ‘ति - ते द्वयम्‌। यत्‌ पुण्यापुण्यानिज़्यानभिसंस्कारम्‌ , तदद्वयम्‌। पुण्यापुण्यानिज्याभिसंस्काराणां स्वलक्षणं शून्यता। तस्या पुण्यं वापुण्यं वाऽनिज्यं वा न भवन्ति। अभिसंस्करणताऽपि च न भवति य एवमनभिनिर्हारः, स ह्यद्वयप्रवेशः”।
बोधिसत्त्वः पद्मव्यूहोऽब्रबीत्‌–“आत्मपर्युत्थानादुत्पादः, तधि द्वयम्‌। आत्मपरिज्ञा द्वयानुत्थापनम्‌। तथाऽद्वयस्थानेऽविज्ञप्तिकेनाविज्ञाप्तिकम्‌-तध्यद्वयप्रवेशः”।
बोधिसत्त्वः श्रीगर्भोऽभाषत “उपलम्भेन प्रभेदः-तद्‌द्वयम्‌। योऽनुपलम्भस्‌-तद्द्वयम्‌। ततो यावनुपादाननोत्सर्गौ, तध्यद्वयप्रवेशः”।
बोधिसत्त्वश्चन्द्रोत्तरोऽब्रवीत्‌–“अन्धकाराऽलोकाविति-तौ द्वयम्‌। अन्धकाराऽलोकाभावः-तदद्वयम्‌। तत्‌ कस्य होतोः ? एवं निरोधसमापन्ने न चान्धकारो न चाऽलोकः। सर्वधर्मलक्षणत्वं तथैवापि। योऽस्यां समतायामवतारः, सोऽद्वयप्रवेशः”।
बोधिसत्त्वो रत्नमुद्राहस्तोऽवोचत्‌–“निर्वाणभिरतिश्च संसारारतिस्‌-ते द्वयम्‌। ये निर्वाणानभिरतिश्च संसारनरतिस्‌-तेऽद्वयम्‌। तत्‌ कस्य हेतोः ? यद्‌ बन्धनान्निःसरणमाख्यायते, कि तु यदत्यन्ततोऽबन्धनम्‌, तन्मोक्षं कुतो गवेषी ? ( यद्‌ ) अबन्धनानिःसरणयोर्भिक्षुणा रत्यरती न लभ्येते, न तध्यद्वयप्रवेशः”।
बोधिसत्त्वो रत्नकूटराज आह–“मार्गकुमार्गाविति-तौ द्वयम्‌। मार्गावगाहे कुमार्गानाचारः। अनाचारस्थानम्‌ मार्गसंज्ञा वाऽभूतमार्गसंज्ञा ( वा ) न भवति। संज्ञापरिज्ञा हि मतिद्वयानवतारः। सोऽद्वयप्रवेशः”।
बोधिसत्त्वः सत्यरतोऽभाषत –“सत्यमृषे नाम ते द्वयम्‌। यदि सत्यदर्शनेन सत्यताऽ(पि) न समनुदृश्यते,मिथ्यादृष्टिः कुतो दृश्यते ? तत्‌ कस्य हेतोः? मांसचक्षुषा न दृश्यते, दृश्यते प्रज्ञाचक्षुषा अदर्शनेन यथाऽविदर्शना, तथा ( हि) दृश्यते। यत्र न च दर्शनन्न च विदर्शना तद्द्वयप्रवेशः”।
तथैव ते बोधिसत्त्वाः स्वकस्वकनिर्देशं देशयित्वाः, मंजुश्रीकुमारभूतदमेतवोचन्‌–“मंजुश्रीः, बोधिसत्त्वोस्याद्वयप्रवेशः किम्‌ ?” मंजुश्रीरब्रवीत्‌–“सत्पुरुषाः, यद्यपि सर्वैर्युष्माभिः सुभाषितम्‌ , सर्व तद्‌ युष्माभिरुक्तं हि द्वयम्‌। स्थापयित्वैकोपदेशम्‌ ( अपि ), ( यद्‌ ) अनभिलाप्यम्‌, अभाष्यम्‌ , अनुक्तम्‌, अनवघोष्यम्‌ , अव्यपदेश्यम्‌, प्रज्ञप्तिरहितम्‌ तध्यद्वयप्रवेशः”।
ततो मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिमेतद्‌ अवोचत्‌–“अस्माभिः स्वकस्वकनिर्देशे व्याख्याते, कुलपुत्र, त्वमप्यद्वयधर्ममुखनिर्देशाय स्वभिधानं कुरु”।
अथ लिच्छविर्विमलकीर्तिस्तूष्णीभूतोऽभूत।
ततो मंजुश्रीकुमारभूतो लिच्छविविमलकीर्तये साधुकारम्‌ अदात्‌-“साधु, साधु, कुलपुत्र। अयं हि बोधिसत्त्वानाम्‌ अद्वयप्रवेशः। तस्मिन्‌ अक्षरवचनविज्ञप्तिप्रचारो नास्ति”।
अस्मिन्‌ निर्देशे देशिते, बोधिसत्त्वानाम्‌ पञ्चसहस्रेणाद्वयधर्ममुखप्रवेशेनानुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा।
अद्वयधर्ममुखप्रवेशस्य परिवर्तोऽस्तमः