षण्मुखी-धारणी ओं नमो बुद्धाय॥
एवं मया श्रुतम् एकस्मिन् समये भगवान् शुद्धावासोपरि-गगनतल-प्रतिष्ठिते सप्त-रत्न प्रविभ क्त-विचित्र-रत्न-व्यूहे महा-मण्डलमाडे विहरति स्म॥
असं-ख्येयेन बोधि स[त्]त्व-गणेन सार्(द्)धं॥
तत्र खलु भगवान् बोधिस[त्]त्वान् आमन्त्रयते स्म॥
उद्गृह्णीधवं यूयं कुलपुत्रा इमां षण्मुखी-नाम-धारणीं सर्व-जगद्-धितार्थं॥
तद्-यथेयं॥
[१] संसारे संसरतो यो मे कश्चिद् दुःखा नुभवः स मा भूत् स र्व-समताऽप्रतिसंविदित-लक्ष णः। [२] यश् च मे कश्चिल् लौकिक-सम्पत्ति-सुखानुभवः स भवतु सर्व-स[त्]त्व-साधारण-प रिभोगः। [३] यच् च मे किञ्चित् पाप-कर्म्[आ]कुशल-मूलं कर्मावरणं तन् मा भूद् अप्रतिदेशना नुत्त रया प्रतिदेशनया। [४] यानि च मे मार-कर्माणि तानि मा भूवन्न् अपरिज्ञातान्य् अनुत्तरया परिज्ञया। [५] यच् च मे किञ्चित् पारमितोपसंहि तं कुशल-मूलं लौकिक-लोकोत्तरं वा तद् भवतु सर्व-स[त्]त्वानाम् अनुत्तर-ज्ञानं[६] या च मे विमुक्तिः सा भवतु सर्व-स[त्]त्व-विमोक्षाय। मा च मे भूत् संसारे निर्वाणे प्रति-ष्ठितता॥
तद्-यथा॥
ओं क्षमे क्षमे। क्षान्ते क्षान्ते। दमे दमे। दान्ते दान्ते। भद्रे भद्रे। सुभद्रे सुभद्रे। चन्द्रे चन्द्रे। सुचन्द्रे सुचन्द्रे। चन्द्र-किरणे। चन्द्र-व ति। तेजो-वति। धन-वति। धर्म-वति॥
ब्रह्म-वति। सर्व-क्लेश-विशोधनि। सर्वा-र्थ-साधनि। सर्वानर्थ-प्रशमनि। परमार्थ-साधनि। काय-विशोधनि। वा ग्-विशोधनि। मनः-संशोधनि स्वाहा॥
यः कश्चित् कुलपु त्रो वा कुलदुहिता वा इमां षण्मुखी- नाम-धारणीं त्रिष्-कृत्वा रात्रेस् त्रिष्-कृत्वा दिवस्य चानुवर् (त्) तयिष्यति स सर्व-कर्माणि क्षेपयित्वा क्षीप्रम् अनु त्तरां सम्यक्-सम्बोधिम् अभिसम्भोत्स्यते॥
॥
इदम् अवोच् द् भ गवान् आत्त-मनास् ते च बोधिस[त्]त्वा महास[त्]त्वा भगवतो भाषितम् अभ्यनन्दन्न् इति॥
॥
आर्य-षण्मुखी-नाम-धारणि समाप्ता॥