10 दशम अध्यायः

दशम अध्यायः श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं नाम अथासौ भगवान् भूयो मैत्रेयं तं महामतिं।
समालोक्य सभां चापि समामन्त्र्यैवमादिशत्॥१॥

शृणु मैत्रेय वक्ष्यामि मञ्जुश्रियो जगद्गुरोः।
सद्धर्मगुणमाहात्म्यं संबोधिज्ञानदायकं॥२॥

यदियं भिक्षुणी चूडा सुशीला ब्रह्मचारिणी।
इदं मञ्जुश्रियं श्चैत्यं श्रद्धया समुपाश्रिता॥३॥

शुद्धोत्पलस्रजो नित्यं समभ्यर्च्य यथाविधि।
स्मृत्वा ध्यात्वा समाराध्य सभक्त्या श्रद्धया सदा॥४॥

आद्यां चले चुले वन्दे स्वाहेति नवमाक्षरं।
धारणी परमाविद्यां पठन्ती भजने सदा॥५॥

एतन्पुण्यानुभावेन चूंडेयं भिक्षुणी सती।
पञ्चाभिज्ञावती वर्षैर्द्वादशभिर्भवेद् ध्रुवं॥६॥

ततश्चेयं महाभिज्ञा श्रीसमृद्धिगुणाश्रया।
सर्वसत्त्वहितं कृत्वा प्रचरेद् बोधिसंवरं॥७॥

ततोऽर्हन्ती महाप्राज्ञा परिशुद्धत्रिमण्डला।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यति॥८॥

एवमन्येपि लोकाश्च चैत्यमञ्जुश्रियो त्रये।
पठन्ती धारणीमेनां भजन्ति श्रद्धया सदा॥९॥

तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः।
भद्रश्रीसद्गुणाधारा बोधिसत्त्वा जितेन्द्रियाः॥१०॥

पञ्चाभिज्ञपदप्राप्ताश्चतुर्ब्रह्मविहारिणः।
सर्वसत्त्वहिताधारा चरेयुर्बोधिसम्बरं॥११॥

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं।
जित्वा मारगणान् सर्वान् निःक्लेशा विमलेन्द्रियाः॥१२॥

अर्हन्तोऽपि महाभिज्ञाः संबोधिसाधनारताः।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥१३॥

यूयमपिति मत्वात्र चैत्यमञ्जुश्रियस्तथा।
पठन्तो धारणीमेनां भजध्वं बोधिमानसाः॥१४॥

एतत्पुण्याभिलिप्ता हि परिशुद्धत्रिमण्डलाः।
यूयमपि तथा सर्वे भवेत सुगतात्मजाः॥१५॥

बोधिसत्त्वा भद्रश्रीसद्गुणाश्रयाः।
महाभिज्ञा जगन्नाथा भवेत भद्रचारिणः॥१६॥

ततः संबोधिसंभारं पूरयित्वा यथाक्रमं।
जित्वा मारगणान् सर्वाश्चतुर्ब्रह्मविहारिणः॥१७॥

अर्हन्तस्त्रिविधां बोधिं प्राप्य बुद्धा भविष्यथ।
इति सत्यं परिज्ञाय यदि संबोधिमिच्छथ॥१८॥

अस्मिन् मञ्जुश्रियश्चैत्यं भजध्वं सर्वदा मुदा।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते ससांधिकाः॥१९॥

सर्वलोकास्तथेत्युक्त्वा प्राभ्यनन्दत् प्रबोधिताः।
ततः सर्वेऽपि ते लोका ब्रह्माशक्रादयोऽमराः॥२०॥

सर्वे लोकाधिपाश्चापि सार्द्धं परिजनैर्मुदा।
भगवन्तं मुनीन्द्रं तं ससंघ संप्रसादिताः॥२१॥

नत्वा प्रदक्षिणी कृत्वा स्वस्वालयं मुदा ययुः।
सर्वे मर्त्या नृपाद्याश्च समन्त्रिजनपौरिकाः॥२२॥

ससांधिकं मुनीन्द्रं तं नत्वा स्वस्वालयं ययुः।
हारीति यक्षिणीशापि सात्मजा बौद्धरक्षणी॥२३॥

त्रिरत्नभजनं कृत्वा धर्मधातोरूपाश्रयत्।
ततः स भगवांश्चापि समुत्थाय ससांधिकः॥२४॥

प्रभासयञ्जगद्भासा जटोद्यानाश्रमे ययौ।
तत्र स त्रिजगन्नाथो विहारे सहसांधिकैः॥२५॥

सद्धर्म्मसमुपादिश्य विजहार जगद्धिते।
इति ते गुरुणादिष्टं श्रुतं मया तथोच्यते॥२६॥

श्रुत्वाप्येतन्महाराजा श्रद्धयाभ्यनुमोदय।
इति शास्त्रार्हतादिष्टं निशम्य स नराधिपः॥२७॥

प्रसादितस्तमर्हन्त नत्वा प्राहैवमादरात्।
भदन्तोहं समिच्छामि संद्रष्टुं तं स्वयंभुवं॥२८॥

तन्नैपाले प्रगच्छामि तदनुज्ञां प्रदेहि मे।
इति संप्रार्थितं राज्ञा श्रुत्वा सोर्हन्यतिर्मुदा॥२९॥

नृपतिं तं महासत्त्वं संपश्यन्नेवमादिश्यत्।
साधु राजन् समिच्छा ते यद्यस्ति तं स्वयम्भुवं॥३०॥

द्रष्टुं गच्छ समाराध्य भज श्रद्धासमन्वितः।
सर्वतीर्थेषु च स्नात्वा दत्वा दानं यथेप्सितं॥३१॥

वीतरागां समाराध्य समभ्यर्च्यभिजादरात्।
धर्मोदयां महादेवीं खगाननां जिनेश्वरीं॥३२॥

श्रद्धया समुपाश्रित्य समभ्यर्च्य भजादरात्।
पञ्चपुरास्थिताः पञ्च देवताश्च यथाविधि॥३३॥

समाराध्य समभ्यर्च्य भज भक्त्या समादरात्।
मञ्जुदेवस्य चैत्यं च समालोक्य यथाविधि॥३४॥

समाराध्य समभ्यर्च्य भजेनां धारणीं पठन्।
आचार्य च गुहासीनं समाधिध्यानसंस्थितं॥३५॥

ध्यात्वाराध्य समभ्यर्च्य नत्वा भज समादरात्।
एवमन्यान् महासत्त्वान् धर्म्मधातोरूपासकान्॥३६॥

सर्वानपि समाराध्य समभ्यर्च्य प्रणामय।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणाश्रयः॥३७॥

बोधिसत्त्वा महासत्त्वा जगद्भर्त्ता भवेदपि।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमं॥३८॥

अर्हन्संबोधिमासाद्य संबुद्धपदमाप्स्यसि।
इति सत्यं परिज्ञाय संबोधि यदि वाञ्छसि॥३९॥

गत्वा तत्र महोत्साहैर्धर्म्मधातुं विलोक्य तं।
यथाविधि समाराध्य भजस्व समुपाश्रितः॥४०॥

गच्छ ते मङ्गलं भुयात् सिध्यतु ते समीहितं।
यथेच्छया समालोक्य समायाहि प्रमोदितः॥४१॥

इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा।
तं गुरुं साञ्जलिर्नत्वा प्राप्यानुज्ञामनन्दतः॥४२॥

ततः स नृपती राजा समन्त्रिजनपौरिकाः।
राजर्द्धि मंगलोत्साहैः संप्रस्थितो मुदाचरत्॥४३॥

तत्र मार्गे स राजेन्द्रः सर्वान् लोकान् प्रसादयन्।
महोत्साहैश्चरन्नाशु नैपालं समुपाययौ॥४४॥

तत्र प्राप्तः समालोक्य दूरात् तं श्रीस्वयंम्भुवं।
साञ्जलि प्रणतिं कृत्वा प्रमनाः सहसा चरेत्॥४५॥

तत्र सर्वत्र संवीक्ष्य शुभोत्साहप्रवर्त्तितं।
विस्मयानन्दितान्सा स नृपतिः समुपासरेत्॥४६॥

तत्र सर्वेषु तीर्थेषु क्रमेण स नराधिपः।
स्नात्वार्थिभ्यो यथाकामं ददौ दानं चरन् व्रतं॥४७॥

ततोऽष्टौ वीतरागान् स नृपतिर्वीक्ष्य हर्षितः।
यथाविधि समाराध्य भजत्यर्च्य यथाविधि॥४८॥

ततो मुदाचरन् वीक्ष्य धर्म्मधातुं जिनालयं।
यथाविधि समाराध्य समभ्यर्च्याभजन् क्रमात्॥४९॥

ततो वायुपुरे वायुदेवतां सगणां मुदा।
यथाविधि समाराध्य समभ्यच्यनितोभजत॥५०॥

ततश्चाग्निपुरे वह्निदेवताः सगणामपि।
यथाविधि समाराध्य संपूज्याभजदादरात्॥५१॥

ततो नागपुरे नागदेवताःसगणा अपि।
यथाविधि समाराध्य समभ्यर्च्या मुदाभजत्॥५२॥

ततो वसुपुरे देवीं सगणां श्रीवसुन्धरां।
यथाविधि समाराध्य भजत्यर्च्य समादरात्॥५३॥

ततः शान्तिपुरे श्रीमत्सम्बरं सगणं तथा।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत्॥५४॥

ततः शान्तिकराचार्य समाधिध्यानसंस्थितं।
ध्यात्वाराध्य समभ्यर्च्य प्राभजन् संप्रमोदितः॥५५॥

ततो धर्म्मोदया देवी खगाननां महेश्वरीं।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत्॥५६॥

सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञ करुणास्पदं।
समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहं॥५७॥

श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवकरं।
श्रीमन्तं श्रीकरं शान्तं शान्तिमूर्ति नमाम्यहम्॥५८॥

नैरात्मवादिनं सिंहं निरवद्यं निराश्रवं।
नीतिज्ञं निर्मलात्मानं निष्कलंकं नमाम्यहम्॥५९॥

निर्द्वन्द्वं निरहंकारं निर्विकल्पं तथागतं।
निर्द्धूतनिखिलक्लेशं निष्प्रपंचं नमाम्यहं॥६०॥

विश्वेश्वरं विशेषोऽहं विश्वरूपं विनायकं।
विश्वलक्षणसंपूर्ण्ण वीतरागं नमाम्यहं॥६१॥

विधावरेण संपन्नं विश्वेशम्विमलप्रभं।
विनीतवेगं विमलं वीतमोहं नमाम्यहं॥६२॥

दुदन्तिदमकं शान्तं शुद्धं पञ्चजिनालयं।
सुगतिं सुश्रुतं सौम्यं शुभ्रकीर्त्ति नमाम्यहं॥६३॥

योगीश्वरं दशबलं लोकज्ञं लोकपूजितं।
लोकाचार्य लोकमूर्तिं लोकानाथं नमाम्यहं॥६४॥

कलंकमुक्तिं कामारिं सकलैकं कलाधरं।
कान्तमूर्ति दयापात्रं कनकाभं नमाम्यहं॥६५॥

ततो मञ्जुश्रियश्चैत्यं धर्मधातुमुपाश्रयन्।
यथाविधि समाराध्य समभ्यर्च्यानतोभजत्॥६६॥

ततो मुदा चरन् वीक्ष्य धर्मधातुं जिनालयं।
यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा॥६७॥

भक्त्या परमयास्तौषीजिनालयं स्वयंभुवं।
ज्योतीरूपाय चैतन्यं रूपाय भवते नमः॥६८॥

मुरादिनिधनाय श्रीदात्रे प्रणवरुपिणे।
विश्वतोमुखरुपाय भक्तवत्सल ते नमः॥६९॥

पृथ्व्यादिभूतनिर्मात्रे जगद्वंद्यायते नमः।
जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः॥७०॥

ध्यानगम्याय ध्येयाय चर्तुवर्गप्रदायिने।
एवं स्तुत्वा अशोकः स पुनः क्षमापनं व्यधात्॥७१॥

एवं स नृपतिः सर्वान् धर्मधातोरुपासकान्।
महासत्त्वान् समभ्यर्च्य सत्कृत्य समतोषयत्॥७२॥

एवं स नृपराजः श्री धर्मधतोरूपाश्रितः।
त्रिरत्नभजनं कृत्वा प्राचरद् बोधिसम्बरं॥७३॥

ततः स नन्दितो राजा समन्त्रिजनपौरिकः।
नत्वा प्रदक्षिणीकृत्य धर्म्मधातुं मुदाचरत्॥७४॥

ततश्चरन् स भूमीन्द्रो महोत्साहैः प्रमोदितः।
सहसा पुरमासाद्य विहार समुपाचरत्॥७५॥

तत्रोपेत्य तमर्हन्तमुपगुप्तससांधिकं।
समीक्ष्य सञ्जलिर्नत्वा सभैकान्तं समाश्रयत्॥७६॥

तं समायातमालोक्य सोऽर्हे शास्ता प्रसन्नदृक्।
स्वागतं कुशलं कच्चिन्नृपतिं पर्यपृच्छत॥७७॥

तच्छुत्वा स महीपालः शास्तारं तं कृताञ्जलिः।
प्रणत्वा सुप्रसन्नास्यः संपश्यन्नेवमब्रवीत्॥७८॥

समागतोस्म्यहं शास्तर्भवत्कृपानुभावतः।
कुशलं मे कथं न स्यात् सर्वत्रापि सदापि हि॥७९॥

भवत्कृपानुभावेन नेपालेऽहं मुदाचरन्।
दृष्ट्वा सर्वेषु तीर्थेषु स्नात्वा दानं यथेप्सितं॥८०॥

तथाष्टौ वीतरागाश्च समालोक्य प्रमादितः।
यथाविधि समाराध्य समभ्यर्च्यभिजं क्रमात्॥८१॥

ततः समीक्ष्य तं श्रीमद्धर्म्मधातुं स्वयंभुवं।
यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा॥८२॥

ततो वायुपुरे वायुदेवताभ्यर्च्चिता मया।
ततश्चाग्निपुरे वह्निर्देवतापि मयार्च्चिता॥८३॥

तथा नागपुरे नागराजांश्चापि मयार्च्चिता।
तथा तथा वसुपुरे देवी वसुन्धरां समर्च्चिता॥८४॥

ततः शान्तिपुरे श्रीमत्सम्बरश्च समर्च्चितः।
ततः शान्तिकराचार्यः समालोक्य मयार्चितः॥८५॥

देवीं खगाननां चापि समाराध्य समर्चिता।
मञ्जुदेवस्य चैत्यं च यथाविधि समर्चितं॥८६॥

एवं भदन्त तत्रोपच्छन्दोहे पुण्यभूतले।
यथाविधि समाराध्य सर्वदेवा मयार्चिताः॥८७॥

एतत्पुण्यं मया लब्धं भवत्कृपानुभावतः।
तदत्र जन्मसाफल्यं जीवितं चापि मेऽधुना॥८८॥

तथात्र सर्वदा शास्त धर्मधातुं जिनालयं।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजेय मा भवं॥८९॥

इति राज्ञा समाख्यातं श्रुत्वा सोऽर्ह प्रसादितः।
नृपति तं समालोक्य पुनरेवं समादिशत्॥९०॥

धन्योऽसि यत्महाराजधर्मधातुं जिनालयं।
स्मृत्वा ध्यात्वापि संभक्तुंमिच्छसेऽत्र सदा भज॥९१॥

एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः।
बोधिसत्त्वो महासत्त्वः सर्वधर्माधिपो भवेः॥९२॥

ततः संबोधिसंभारं पूरयित्वा यथाक्रमं।
अर्हन्स्त्रिबोधिमासाद्य ध्रुवं बुद्धपदं लभेः॥९३॥

समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः।
श्रुत्वापि यत्महत्पुण्यं संबोधिसाधनं लभेत्॥९४॥

इति मत्वा समुत्पत्तिकथां तस्य स्वयंभुवः।
सत्कृत्य श्रद्धया मर्त्याः श्रोतुमर्हन्ति सर्वथा॥९५॥

समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः।
शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा॥९६॥

दुर्गतिं ते न गच्छन्ति कुत्रापि हि कदाचन्।
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः॥९७॥

सर्वसत्त्वहिताधानबोधिचर्याव्रतारताः।
महाभिज्ञा जगन्नाथा भवेयुः सुगतात्मजाः॥९८॥

क्रमेण बोधिसम्भारं पूरयित्वा जगद्धिते।
अर्हन्तत्रिविधां बोधिं प्राप्येयुः सौगतं पदं॥९९॥

इति मत्वा महाराज श्रोतव्यं श्रद्धयादरात्।
स्वयम्भूगुणमाहात्म्यं दुर्ल्लभं बोधिवाञ्छिभिः॥१००॥

शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा।
स्वयंभूगुणमाहात्म्यसद्धर्मश्रीगुणार्थदं॥१०१॥

तेऽपि न दुर्गतिं यायुः सदासद्गतिसंगताः।
भद्रश्रीसद्गुणाधारा भवेयुर्बोधिलाभिनः॥१०२॥

तस्मादेतत्महत्पुण्यं श्रुत्वा ध्यात्वा सदादरात्।
स्मृत्वा नाम समुच्चार्य संभक्तव्यं स्वयंभुवं॥१०३॥

अहमपि पुरा राजन् धर्म्मधातोः स्वयंभुवः।
श्रुत्वा सद्गुणसांकथ्यं बभूव संप्रमोदितः॥१०४॥

ततोऽहं सहसा तत्र नेपाले समुपाचरंत्।
स्नात्वा सर्वेषु तीर्थेषु ददौ दानं यथेप्सितं॥१०५॥

अष्टौ तान् वीतरागांश्च समाराध्य मयार्चिताः।
देवीं खगाननां चापि समाराध्य समर्चिता॥१०६॥

मञ्जुदेवस्य चैत्यं च समाराध्य समर्चितं।
पञ्च पुरा स्थिता पञ्च देवताश्च समर्चिताः॥१०७॥

तथा शान्तिकराचार्यः समालोक्य समर्चितः।
ततःशरणमाश्रित्य धर्मधातो स्वयंभुवः॥१०८॥

सत्कृत्य श्रद्धया नित्यं समाराध्य मुदा भजं।
एवं तत्र सदाश्रित्य धर्मधातोरूपासकः॥१०९॥

त्रिरत्नभजनं कृत्वा प्राचरन् बोधिसंबरं।
एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः॥११०॥

अहं बोधिं समासाद्य जिनात्मजा भवेऽधुना।
इति विज्ञाय मानुष्या वाञ्छन्ति ये सुनिर्वृतिं॥१११॥

धर्मधातुं समाराध्य भजन्तु ते सदा मुदा।
स्मृत्वा ध्यात्वा च नामापि समुच्चार्य समादरात्॥११२॥

समालोक्य प्रणत्वापि भजन्तु तं जिनालयं।
ये भजन्ति सदा स्मृत्वा ध्यात्वा नत्वा जिनालयं॥११३॥

द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः।
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः॥११४॥

श्रुत्वानुमोद्य तं धर्मधातुं स्मृत्वा भजन्त्वलं।
सुभाषितमिदं येपि श्रुत्वानुमोदिताशयाः॥११५॥

धर्मधातुमनुस्मृत्वा ध्यात्वा भजन्ति सर्वदा।
तेऽपि चैतत्महत्पुण्यपरिशुद्धत्रिमण्डलाः॥११६॥

भद्रश्रीसद्गुणाधाराश्चतुर्ब्रह्मविहारिणः।
बोधिसत्त्वा महासत्त्वा महाभिज्ञाः शुभेन्द्रियाः॥११७॥

द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः।
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते॥११८॥

त्वमपीदं सदा लोका श्रावयित्वानुमोदय।
एतत्पुण्यानुभावेन सर्वत्र सर्वदापि ते॥११९॥

निरुत्पातं शुभोत्साहं भवेन्नूनं नराधिपः।
इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा॥१२०॥

तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः।
ततः सर्वेऽपि ते लोका निशम्यैतत्सुभाषितं॥१२१॥

अनुमोद्य महोत्साहैः संचेरिरे शुभे सदा।
तदैतत्पुण्यभावेन सर्वत्र तत्र सर्वदा॥१२२॥

निरुत्पातं शुभोत्साहं प्रावर्त्तत निरन्तरं।
इत्यादिश्य महाभिज्ञो जयश्रीः स महामतिः॥१२३॥

सर्वान्‌स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत्।
यत्रेदं धर्म्मसांकथ्यं प्रावर्त्तयेत् कलावपि॥१२४॥

भाषेत्य शृणुयाद्यश्च श्रावयेद्यः प्रचारयेत्।
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा॥१२५॥

कृपा दृष्ट्या समालोक्य प्रकुर्युर्भद्रमाभवं।
सर्वा पारमिता देव्यस्तेषां तत्र सदा शिवं॥१२६॥

कृत्वा संबोधिसंभारं पूरयेयुर्यथाक्रमं।
सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि॥१२७॥

अर्हन्तो योगिनस्तेषां प्रकुर्युर्मङ्गलं सदा।
सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः॥१२८॥

तत्र तेषां हि सर्वेषां कुर्युः समीक्ष्य मङ्गलं।
सर्वे देवाधिपाश्चापि सर्वदैत्याधिपा अपि॥१२९॥

तथा सर्वेऽपि गन्धर्वाः सर्वयक्षाधिपा अपि।
गरुडा नागराजाश्च कुम्भाण्डाधीश्वरा अपि॥१३०॥

समीक्ष्य सर्वदा तेषां रक्षां कुर्युः समन्ततः।
सर्वाश्च मातृका देव्यः सभैरवगणा अपि॥१३१॥

कृत्वा रक्षां सदा तेषां कुर्युर्भद्रं समन्ततः।
सर्वे ग्रहाश्च ताराश्च सिद्धा विद्याधरा अपि॥१३२॥

साध्याश्चापि सदालोक्य तेषां कुर्युः सुमङ्गलं।
भूतप्रेतपिशाचाश्च दुष्टा मारगणा अपि॥१३३॥

वीक्ष्य तेषां प्रसन्नास्ते रक्षां कुर्युः सदा मुदा।
स्वयम्भूगुणमाहात्म्य सांकथ्यं योऽलिखेत् मुदा॥१३४॥

तेनापि लिखितं सर्व महायानसुभाषितं।
लेखापितं च येनेदं धर्मधातुसुभाषितं॥१३५॥

तेनापि सकलं सूत्रं लेखापितं भवेद् ध्रुवं।
लिखितं चापि येचेदं प्रतिष्ठाप्य यथाविधि॥१३६॥

शुद्धस्थाने गृहे स्थाप्य पूजाङ्गैः सर्वदार्चितं।
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि॥१३७॥

ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु।
यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशत्॥१३८॥

भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणमेन्मुदा।
तस्य सर्वमुनीन्द्रो हि प्रत्येकसुगता अपि॥१३९॥

अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितं।
यश्चैतदुपदेष्टारं सर्वाश्च श्रावकानपि॥१४०॥

यथाविधि स समभ्यर्च्य भाजनैः समतोषयेत्।
तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि॥१४१॥

अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः।
बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च॥१४२॥

अर्चिता भोजितास्तुष्टा भवेयुरनुमोदिताः।
किमेवं वहुनोक्तेन सर्वे बुद्धा मुनीश्वराः॥१४३॥

सर्वास्ताराश्च देव्योऽपि सर्वसंघा जिनात्मजाः।
नित्यं तेषां कृपा दृष्टया समालोक्यानुमोदिताः॥१४४॥

रक्षां विधाय सर्वत्र वरं दद्युः समीहितं॥१४५॥

सर्वे लोकाधिपाश्चापि सर्वे देवा सुराधिपाः।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधने॥१४६॥

राजानोऽपि सदा तेषां रक्षा कृत्वानुमोदिताः।
यथाभिवाञ्छितं दत्वा पालयेयुः सदादरात्॥१४७॥

मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः॥१४८॥

सर्वे वैश्याश्च सर्वार्थभर्त्तारःस्यु सुहृन्प्रियाः।
श्रेष्टिमहाजनाः सर्वे भवेयुर्हितकारिणः॥१४९॥

द्विषोपि दासतां यायुर्दृष्टाश्च स्युर्हिताशयाः।
एवमन्येपि लोकाश्च सेर्व्व स्युर्मैत्रमानसाः॥१५०॥

पशवः पक्षिणश्चापि सर्वकीटाश्च जन्तवः।
नैव तेषां विरुद्धा स्युः भवेयुर्हितशंसिन॥१५१॥

एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनां।
निरुत्पातं शुभोत्साहं सौमाङ्गल्यं सदा भवेत्॥१५२॥

एवं भद्रतरं पुण्यं स्वयभूंभवनोद्भवं।
नत्वा तं त्रिजगन्नाथं भजध्वं सर्वदा मुदा॥१५३॥

ये तस्य शरणे स्थित्वा स्मृत्वा ध्यात्वा समाहिताः।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा॥१५४॥

तेषां त्रिन्यपि रत्नानि सुप्रसन्नानि सर्वदा।
कृपा दृष्टया समालोक्य कृत्वा देयुः सदा शुभं॥१५५॥

इति शास्त्रासमादिष्टं जयश्रिया निशम्यते।
जिनेश्वरी प्रमुखाः संघा सर्वे नन्दन्प्रबोधिताः॥१५६॥

सर्वावती सभा सापि श्रुत्वैतत् संप्रसादिताः।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥१५७॥

ततस्ते सकला लोकाः समुत्थाय प्रसादिताः।
जयश्रिय ससंघं तं नत्वा स्वस्वाश्रमं ययुः॥१५८॥

तत्र नित्यमुपेत्यत्यर्द्ध्या ससंघः सजिनात्मजा।
स्नात्वा सर्वेषु तीर्थेषु धृत्वा व्रतं यथाविधि॥१५९॥

ततोऽष्टौ वीतरागांश्च देवीं चापि खगाननां।
पञ्चमा देवताश्चापि यथाविधि समर्च्चयन्॥१६०॥

तथा शान्तिकराचार्य चैत्य मञ्जुश्रियोऽपि च।
धर्माधातुं समाराध्य ध्यात्वाभ्यर्च्य सदाभजत्॥१६१॥

तदैतत्पुण्यभावेन विषये तत्र सर्वदा।
निरुत्पातं शुभोत्साहं प्रावर्त्तत समंततः॥१६२॥

ततश्चासौ महाभिज्ञा जयश्रीः सुगतात्मजः।
सर्वान्‌स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत्॥१६३॥

यत्रेदं धर्मसांकथ्यं प्रचारितं स्वयंभुवः।
तत्रैत्‌त्पुण्यभावेन भवतु सर्वदा शुभं॥१६४॥

संबुद्धास्तत्र सर्वेऽपि प्रत्येकसुगता अपि।
अर्हन्तो बोधिसत्त्वाश्च कुर्वन्तु मंङ्गलं सदा॥१६५॥

सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः।
समालोक्य सदा तत्र प्रकुर्वन्तु सुमङ्गलं॥१६६॥

काले वर्षन्तु मेघाश्च भूयाच्छश्यवती मही।
निरुत्पातं सुभिक्ष्यं च भवन्तु तत्र सर्वदा॥१६७॥

राजा भवतु धार्म्मिष्ठो मन्त्रिणो नीतिचारिणः।
सर्वे लोकाःसुवृत्तिष्ठा भवन्तु धर्मसाधिनः॥१६८॥

सर्वे सत्त्वाः समाचाराः संबोधिविहिताशयाः।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे॥१६९॥

इति जयश्रियादिष्टं श्रुत्वा सर्वेऽपि सांधिकाः।
एवमस्त्विति प्राभाष्य प्राभ्यनन्दन्प्रसादिताः॥१७०॥

इति श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं दशम अध्यायः समाप्तः॥