२७ कुणालावदानम्

२७ कुणालावदानम्।
स इदानीमचिरजातप्रसादो बुद्धशासने यत्र शाक्यपुत्रीयान् ददर्श आकीर्णे रसहि वा, तत्र शिरसा पादयोर्निपत्य वन्दते स्म। तस्य च यशो नामामात्यः परमश्राद्धो भगवति। स तं राजानमुवाच-देव, नार्हसि सर्ववर्णप्रव्रजितानां प्रणिपातं कर्तुम्। सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति। तस्य राजा न किंचिदवोचत्। अथ स राजा केनचित् कालान्तरेण सर्वसचिवानुवाच-विविधानां प्राणिनां शिरोभिः कार्यम्। तत्त्वमनुकस्य प्राणिनः शीर्षमानय, त्वमनुकस्येति। यशामात्यः पुनराज्ञप्तः - त्वं मानुषं शीर्षमानयेति। समानीतेषु च शिरःसु अभिहिताः-गच्छत, इमानि शिरांसि मूल्येन विक्रीणीष्वमिति। अथ सर्वशिरांसि विक्रीतानि। तदेव मानुष्यं शिरो न कश्चिज्जग्राह। ततो राज्ञाभिहितः-विनापि मूल्येन कस्मैचिदेतच्छितो देहीति। न चास्य कश्चित् प्रतिग्राहको बभूव। ततो यशामात्यस्तस्य शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच- गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुंभिः।
शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन्॥१॥

अथ स राजा तममात्यमुवाच-किमिदमितीदं मानुषशिरो न कश्चिद्गृह्णातीति ? अमात्य उवाच-जुगुप्सितत्वादिति। राजाब्रवीत्-किमेतदेव शिरो जुगुप्सितमाहोस्वित् सर्वमानुषशिरांसीति ? अमात्य उवाच- सर्वमानुषशिसांसीति। राजाब्रवीत्-किमिदं मदीयमपि शिरो जुगुप्सितमिति ? स च भायान्नेच्छति तस्माद्भूतार्थमभिधातुम्। स राज्ञाभिहितः-अमात्य, सत्यमुच्यतामिति। स उवाच-एवमिति। ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच-हं भोः, रूपैश्वर्यजनितमदविस्मित, युक्तमिदं भवतः, यस्मात् त्वं भिक्षुचरणप्रणामं मां विच्छन्दयितुमिच्छसि ? विनापि मूल्यैर्विजुगुप्सितत्वात् प्रतिग्रहीता भुवि यस्य नास्ति।
शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र॥२॥

जातिं भवान् पश्यति शाक्यभिक्षु- ष्वन्तर्गतांस्तेषु गुणान्न चेति।
अतो भवान् जातिमदावलेपा- दात्मानमन्यांश्च हिनस्ति मोहात्॥३॥

आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाले।
धर्मक्रियाया हि गुणा निमित्ता गुणाश्च जातिं न विचारयन्ति॥४॥

यद्युच्चकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन्।
कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति॥५॥

चित्तवशेन हि पुंसां कलेवरं निन्द्यतेऽथ सत्क्रियते।
शाक्यश्रमणमनांसि च शुद्धान्यर्च्यान्यतः शाक्याः॥६॥

यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञाम्।
न तु निधनकुलोद्गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्य पूज्यः॥७॥

अपि च।
किं ते कारुणिकस्य शाक्यवृषभस्यैतद्वचो न श्रुतं प्राज्ञैः सारमसारकेभ्य इह यन्नृभ्यो ग्रहीतुं क्षमम्।
तस्यानन्यथवादिनो यदि च तामाज्ञा चिकीर्षाम्यहं व्याहन्तुं च भवान् यदि प्रयतते नैतत् सुहृल्लक्षणम्॥

८॥

इक्षुक्षोदवदुज्झितो भुवि यदा कायो मम स्वप्स्यति प्रत्युत्थाननमस्कृताञ्जलिपुटक्लेशक्रियास्वक्षमः।
कायेनाहमनेन किं नु कुशलं शक्ष्यामि कर्तुं तदा तस्मान्नार्यमतः श्मशाननिधनात् सारं ग्रहीतुं मया॥९॥

भवनादिव प्रदीप्तान्निमज्जमानादिवाप्सु रत्ननिधेः।
कायाद्विधाननिधनाद्ये सारं नाधिगच्छन्ति॥१०॥

ते सारमपश्यन्तः सारासारेष्वकोविदा प्राज्ञाः।
ते मरणमकरवदनप्रवेशसमये विषीदन्ति॥११॥

दधिघृतनवनीतक्षीरतक्रोपयोगा- द्वरमपहृतसारो मण्डकुम्भोऽवभग्नः।
न भवति बहु शोच्यं यद्वदेवं शरीरे सुचरितहृतसारे नैति शोकोऽन्तकाले॥१२॥

सुचरितविमुखानां गर्वितानां यदा तु प्रसभमिह हि मृत्युः कायकुम्भं भिनत्ति।
दहति हृदयमेषां शोकवह्निस्तदानीं दधिघट इव भग्ने सर्वशोऽप्राप्तसारे॥१३॥

कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन् मोहान्धकारावृतः।
कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधो नासौ पार्थिवभृत्ययोर्विषमतां कायस्य संपस्यति॥१४॥

त्वग्मांसास्थिशिरायकृत्प्रभृतयो भावा हि तुल्या नृणा- माहार्यैस्तु विभूषणैरधिकता कायस्य निष्पद्यते।
एतत्सारभिमेष्यते तु यदिमं निश्रित्य कायाधमं प्रत्युत्थाननमस्कृतादिकुशलं प्राज्ञैः समुत्थाप्यते॥१५॥

इति॥

अथाशोको राजाऽहिरोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः स्तूपवन्दनायामात्मानमलंकर्तुकामोऽमात्यगणपरिवृतः कुर्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिरुवाच- अस्ति - कश्चिदन्योऽपि निर्दिष्टो द्वितीयः सर्वदर्शिना।
यथाहं तेन निर्दिष्टः पांसुदानेन धीमता॥१६॥

तत्र यशो नाम्ना संघस्थविर उवाच-अस्ति महाराज। यदा भगवतः परिनिर्वाणकालसमये तदा अपलालं नागं दमयित्वा कुम्भकालं चण्डालीगोपालीं च नागं च मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-अस्यामानन्द मथुरायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नाम्ना गान्धिको भविष्यति। तस्य पुत्रो भविष्यत्युपगुप्तो नाम्ना अववादकानामग्रोऽलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति। पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम् ? एवं भदन्त। एष आनन्द उरुमुण्डो नाम पर्वतः। अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति। एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम्। आह च- अववादकानां प्रवर उपगुप्तो महायशाः।
व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति॥१७॥

राजा आह-किं पुनः स शुद्धसत्त्व उत्पन्नः, अथाद्यापि नोत्पद्यत इति ? स्थविर उवाच - उत्पन्नः स महात्मा। उरुमुण्डो पर्वते जितक्लेशोऽर्हद्गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थम्। अपि च देव- सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्रे।
देवासुरेन्द्रोरगमानुषांश्च
सहस्रशो मोक्षपुरं प्रणेता॥१८॥

तेन खलु समयेन आयुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति। श्रुत्वा च राजा अमात्यगणानाहूय कथयति- संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलम्।
द्रक्ष्यामि सर्वाश्रवविप्रमुक्तं साक्षादर्हन्तं ह्युपगुप्तं नाम॥१९॥

ततोऽमात्यैरभिहितः- देव दूतः प्रेषयितव्यो विषयनिवासी, स देवस्य स्वयमेवागमिष्यति। राजा आह- नासौ अस्माकमर्हत्यभिगन्तुम्, किं तु वयमेवार्हामस्तस्याभिगन्तुम्। अपि च - मन्ये वज्रमयं तस्य देहं शैलोपमाधिकम्।
शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन्नरः॥२०॥

यावद्राज्ञा स्थविरोपगुप्तस्य सकाशं दूतो न प्रेषितः स्थविरदर्शनायागमिष्यामीति। स्थविरोपगुप्तश्चिन्तयति-यदि राजा आगमिष्यति, महाजनकायस्य पीडा भविष्यति गोचरस्य च। ततः स्थविरेणाभिहितम्-स्वयमेवाभिगमिष्यामीति। ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान्नौसंक्रमोऽवस्थापितः। अथ स्थविरोपगुप्तो राज्ञोऽशोकस्यानुग्रहार्थमष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः। ततो राजपुरुषैः राज्ञोऽशोकस्य निवेदितम्-देव, दिष्टया वर्धस्व।
अनुग्रहार्थं तव सोपगुप्त- श्चित्तेश्वरः शासनकर्णधारः।
पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पद्भ्याम्॥२१॥

श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादपनीय प्रियाख्यायिनो दत्तः। घाण्टिकं चाहूय कथयति-घुष्यन्तां पाटलिपुत्रे घण्टाः। स्थविरोपगुप्तस्यागमनं निवेद्यताम्। वक्तव्यम् - उत्सृज्य दारिद्र्यमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह।
स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तम्॥२२॥

येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयंभूः।
ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपम्॥२३॥

यावद्राज्ञा पाटलिपुत्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वामात्यैः सह स्थविरोपगुप्तं प्रत्युद्गतः। ददर्श राजा स्थविरोपगुप्तं दूरत एवाष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तम्। यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत्, तदन्तरं हस्तिस्कन्धादवतीर्य पद्भ्यां नदीतीरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेनानुपरिगृह्य नौ(संक्रमाद्) उत्तारितवान्। उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्विपतितो मुखतुण्डकेन च पादौ अनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविपगुप्तं निरीक्षमाण उवाच- यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला।
एकातपत्रा पृथिवी तदा मे प्रीतीर्न सा या स्थविरं निरीक्ष्यं॥

२४॥

त्वद्दर्शनान्मे द्विगुणः प्रसादः संजायतेऽस्मिन् वरशासनाग्रे।
त्वद्दर्शनाच्चैव परेऽपि शुद्ध्या दृष्टो मयाद्याप्रतिमः स्वयंभूः॥

२५॥

अपि च।
शान्तिं गते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोके।
नष्टे जगन्मोहनिमीलिताक्षे त्वमर्कवज्ज्ञानवभासकर्ता॥२६॥

त्वं शास्तृकल्पो जगदेकचक्षु- रववादकानां प्रवरः शरण्यम्।
विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं तव शुद्धसत्त्वा॥२७॥

अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच- अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्।
दुर्लभं त्रीणि रत्नानि नित्यं पूजय पार्थिव॥२८॥

अपि च महाराज तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन तव च मम (च) शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः। राजा आहस्थविर, यथा अहं निर्दिष्टो भगवता, तदेवानुष्ठीयते। कुतः ? स्तूपैर्विचित्रैर्गिरिशृङ्गकल्पै- श्छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः।
संशोभिता मे पृथिवी समन्ता- द्वैस्तारिका धातुधराः कृताश्च॥२९॥

अपि च।
आत्मा पुत्रं गृहं दारान् पृथिवी कोशमेव च।
न किंचिदपरित्यक्तं धर्मराजस्य शासने॥

३०॥

स्थविरोपगुप्त आह-साधु साधु महाराज, एतदेवानुष्ठेयम्। कुतः ? ये सारमुपजीवन्ति कयाद्भोगैश्च जीविकाम्।
गते काले न शोचन्ति इष्टं यान्ति सुरालयम्॥

३१॥

यावद्राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेनानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास। स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा। अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच- मृदूनि तेऽङ्गानि उदारसत्त्वा तूलोपमाः काशिसमोपमाश्च।
अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च॥३२॥

स्थविर उवाच- दानं मनापं सुशुभं प्रणीतं दत्तं मया ह्यप्रतिपुद्गलस्य।
न पांशुदानं हि मया प्रदत्तं यथा त्वयादायि तथागतस्य॥३३॥

राजा आह-स्थविर, बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरम्।
पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम॥३४॥

अथ स्थविरो राजानं संहर्षयन्नुवाच-महाराज, पश्य क्षेत्रस्य माहात्म्यं पांशुर्यत्र विरुह्यते।
राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरम्॥३५॥

श्रुत्वा च राजा विस्मयोत्फुल्लनेत्रोऽमात्यानाहूयोवाच- बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण।
केन भगवान् भवन्तो नार्चयितव्यः प्रयत्नेन॥३६॥

अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच-स्थविर, अयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अध्युषीतास्तानर्चेयम्, चिह्नानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थम्। आह च-ये बुद्धेन भगवता प्रदेशा अध्युषिताः, तानर्चयन्नहं गत्वा चिह्नानि चैव कुर्यां पश्चिमा जनतामनुकम्पार्थम्। स्थविर उवाच-साधु साधु महाराज, शोभनस्ते चित्तोत्पादः। अहं प्रदर्शयिष्याम्यधुना।
ये तेनाध्युषिता देशास्तान्नमस्ये कृताञ्जलिः।
गत्वा चिह्नानि तेष्वेव करिष्यामि न संशयः॥

३७॥

अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः। अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच- अस्मिन् महाराज प्रदेशे भगवान् जातः। आह च- इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः।
जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि॥३८॥

चतुर्दिशमवलोक्य वाचं भाषितवान् पुरा।
इयं मे पश्चिमा जातिर्गर्भावासश्च पश्चिमः॥३९॥

अथ राजा सर्वशरीरेण तत्र पादयोर्निपत्य उत्थाय कृताञ्जलिः प्ररुदन्नुवाच- धन्यास्ते कृतपुण्यै (ण्या) श्च यैर्दृष्टः स महामुनिः।
प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः॥

४०॥

अथ स्थविरो राज्ञः प्रसादवृद्ध्यर्थमुवाच-महाराज, किं द्रक्ष्यसि ताम् देवताम् ? यया दृष्टः प्रजायन्स वनेऽस्मिन् वदतां वरः।
क्रममाणः पदान् सप्त श्रुता वाचो यया मुनेः॥

४१॥

राजा आह- परं स्थविर द्रक्ष्यामि। अथ स्थविरोपगुप्तो यस्य वृक्ष्यस्य शाखामवलम्ब्य देवी महामाया प्रसूता, तेन दक्षिणहस्तमभिप्रसार्योवाच- नैवासिका या इहाशोकवृक्षे संबुद्धदर्शिनी या देवकन्या।
साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य (मनः)प्रसादवृद्ध्यै॥४२॥

यावत् सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच-स्थविर, किमाज्ञापयसि? अथ स्थविर्प् राजानमशोकमुवाच-महाराज्, इयं सा देवता, यया दृष्टो भगवान् जायमानः। अथ राजा कृताञ्जलिस्तां देवतामुवाच- दृष्टस्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः।
श्रुतास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन्॥४३॥

देवता प्राह- मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः।
पदानि सप्त क्रममाण एव श्रुता च वाचमपि तस्य शास्तुः॥४४॥

राजा आह-कथय देवते, कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति। देवता प्राहन शक्यं मया वाग्भिः संप्रकाशयितुम्। अपि तु संक्षेयतः शृणु- विनिर्मिताभा कनकावदाता सेन्द्रे त्रिलोके नयनाभिरामा।
ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चचाल॥४५॥

यावद्राज्ञा जात्यां शतसहस्रं दत्तम्। चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः॥

अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेदयित्वा दक्षिणहस्तमभिप्रसार्योवाच-अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः। तं द्वात्रिंशता महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः। इदं महाराज शाक्यवर्धं नाम देवकुलम्। अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति। सर्वदेवताश्च बोधिसत्त्वस्य पादयोर्निपतिताः। ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतम्। अस्मिन् प्रदेशे असितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति। अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः। अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः। अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुर्ग्रहे तोमरग्रहेऽङ्कुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृत्तः। इयं बोधिसत्त्वस्य व्यायामशाला बभूव। अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान्। अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनं संश्रितः। अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तं पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखमनाश्रवसदृशं प्रथमध्यानं समापन्नः। अथ परिणते मध्यान्हे अतिक्रान्ते भक्तकालसमये अन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा, जम्बुच्छाया बोधिसत्त्वस्य कायं न जहाति। दृष्ट्वा च पुना राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः। अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरात्रेः कपिलवस्तुनो निर्गतः। अस्मिन् प्रदेशे बोधिसत्त्वेन छन्दकस्याश्चमाभरणानि च दत्त्वा प्रतिनिवर्तितः। आह च - छन्दाभरणान्यश्वं च अस्मिन् प्रतिनिवर्तितः।
निरुपस्थायिको वीरः प्रविष्टैकस्तपोवनम्॥४६॥

अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात् काशिकैर्वस्त्रैः काषायाणि वस्त्राणि ग्रहाय प्रव्रजितः। अस्मिन् प्रदेशे भार्गवेणाश्रमेणोपनिमन्त्रितः। अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्धराज्येनोपनिमन्त्रितः। अस्मिन् प्रदेशे आराडोद्रकमभिगतः। आह च- उद्रकाराडका नाम ऋषयोऽस्मिंस्तपोवने।
अधिगताचार्यसत्त्वेन पुरुषेन्द्रेण तापिता॥

४७॥

अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णाम्। आह च- षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः।
नायं मार्गो ह्यभिज्ञाय इति ज्ञात्वा समुत्सृजेत्॥४८॥

अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्र्योः सकाशात् षोडशगुणितं मधुपायसं परिभुक्तम्। आह च- अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसम्।
बोधिमूलं महावीरो जगाम वदतां वरः॥

४९॥

अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिमूलमभिगच्छन् संस्तुतः। आह च- कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः।
प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिनः॥५०॥

अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच - अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः।
व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः॥५१॥

अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच-स्थविर, किमाज्ञापयसीति। अथ स्थविरो राजानमुवाच-अयं स महाराज कालिको नागराजा येन भगवाननेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः। अथ राजा कृताञ्जलिः कालिकं नागराजमुवाच- दृष्टस्त्वया ज्वलितकाञ्चनतुल्यवर्णः शास्ता ममाप्रतिसमः शरदेन्दुवक्त्रः।
आख्याहि मे दशबलस्य गुणैकदेशं तत्कीदृशी वद भवन् सुगते तदानीम्॥

५२॥

कालिक उवाच-न शक्यं वाग्भिः संप्रकाशयितुम्। अपि तु संक्षेपं शृणु- चरणतलपराहता सशैला अवनिस्तदा प्रचचाल षड्विकारम्।
रविकिरणप्रभाधिका नृलोके सुगतशशिद्युतिसंनिभा मनोज्ञा॥५३॥

यावद्राजा चैत्यं प्रतिष्ठाप्य प्रक्रान्तः। अथ स्थविरोपगुप्तो राजानं बोधिस्मूलमुपनामयित्वा दक्षिणं करमभिप्रसार्योवाच- अस्मिन् प्रदेशे महाराज बोधिसत्त्वेन महामैत्रीसहायेन सकलं मारबलं जित्वा अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। आह च- इह मुनिवृषभेण बोधिमूले नमुचिबलं विकृतं निरस्तमाशु।
इदममृतमुदारमग्र्यबोधिं ह्यधिगतमप्रतिपुद्गलेन तेन॥

५४॥

यावद्राज्ञा बोधौ शतसहस्रं दत्तम्। चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः। अथ स्थविरोपगुप्तो राजानमशोकमुवाच-अस्मिन् प्रदेशे भगवान् चतुर्णां महाराजानां सकाशाच्चत्वारि शैलमयानि पात्राणि ग्रहायैकं पात्रमधिमुक्तम्। अस्मिन् प्रदेशे त्रपुषभल्लिकयोर्वणिजोरपि पिण्डपात्रः प्रतिगृहीतः। अस्मिन् प्रदेशे भगवान् वाराणसीमभिगच्छन्नुपगेनाजीविकेन संस्तुतः। यावत् स्थविरो राजानं ऋषिवदन (पतन ?) मुपनीय दक्षिणं हस्तमभिप्रसार्योवाच-अस्मिन् प्रदेशे महाराज भगवता त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम्। आह च- शुभं धर्ममयं चक्रं संसारविनिवर्तये।
अस्मिन् प्रदेशे नाथेन प्रवर्तितमनुत्तरम्॥५५॥

अस्मिन् प्रदेशे जटिलसहस्रं प्रव्राजितम्। अस्मिन् प्रदेशे राज्ञो बिम्बिसारस्य धर्मं देशितम्। राज्ञा च बिम्बिसारेण सत्यानि दृष्टानि, अशीतिभिश्च देवतासहस्रैनरेकैश्च मागधकैर्ब्राह्मणगृहपतिसहस्रैः। अस्मिन् प्रदेशे भगवता शक्रस्य देवेन्द्रस्य धर्मो देशितः, शक्रेण च सत्यानि दृष्टान्यशीतिभिश्च देवतासहस्रैः। अस्मिन् प्रदेशे महाप्रातिहार्यं विदर्शितम्। अस्मिन् प्रदेशे भगवान् देवेषु त्रायस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतोऽवतीर्णः। विस्तरेण यावत् स्थविरो राजानमशोकं कुशिनगरीमुपनामयित्वा दक्षिणं करतलमभिप्रसार्योवाच-अस्मिन् प्रदेशे महाराज भगवान् सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। आह च- लोकं सदेवमनुजासुरयक्षनाग- मक्षय्यधर्मविनये मतिमान् विनीय।
वैनेयसत्त्वविरहानुपशान्तबुद्धिः शान्तिं गतः परमकारुणिको महर्षिः॥५६॥

श्रुत्वा च राजा मूर्छितः पतितः। याचज्जलपरिषेकं कृत्वोत्थापितः। अथ राजा कथंचित् संज्ञामुपलभ्य परिनिर्वाणे शतसहस्रं दत्त्वा चैत्यं प्रतिष्ठाप्य पादयोर्निपत्योवाचस्थविर, अयं मे मनोरथः-ये च भगवता श्रावका अग्रतायां निर्दिष्टाः, तेषां शरीरपूजां करिष्यामीति। स्थविर उवाच-साधु साधु महाराज। शोभनस्ते चित्तोत्पादः। स्थविरो राजानमशोकं जेतवनं प्रवेशयित्वा दक्षिणं करमभिप्रसार्योवाच- अयं महाराज स्थविरशारिपुत्रस्य स्तूपः। क्रियतामस्यार्चनमिति। राजा आह-के तस्य गुणा बभूवुः ? स्थविर उवाच-स हि द्वितीयशास्ता धर्मसेनाधिपतिर्धर्मचक्रप्रवर्तनः प्रज्ञावतामग्रो निर्दिष्टो भगवता।
सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम्।
शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशीम्॥

५७॥

आह च- सद्धर्मचक्रमतुलं यज्जिनेन प्रवर्तितम्।
अनुवृत्तं हि तत्तेन शारिपुत्रेण धीमता॥५८॥

कस्तस्य साधु बुद्धान्यः पुरुषः शारद्वतस्येह।
ज्ञात्वा गुणगणनिधिं वक्तुं शक्नोति निरवशेषात्॥५९॥

ततो राजा प्रीतमनाः स्थविरशारद्वतीपुत्रस्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच- शारद्वतीपुत्रमहं भक्त्या वन्दे विमुक्तभवसङ्गम्।
लोकप्रकाशकिर्ती ज्ञानवतामुत्तमं वीरम्॥६०॥

यावत् स्थविरोगगुप्तः स्थविरमहामौग्दल्यायनस्य स्तूपमुपदर्शयन्नुवाच-इदं महाराज स्थविरमहामौद्गल्यायनस्य स्तूपम्। क्रियतामस्यार्चनमिति। राजा आह- के तस्य गुणा बभूवुरिति ? स्थविर उवाच- स हि ऋद्धिमतामग्रो निर्दिष्टो भगवता, येन दक्षिणेन पादाङ्गुष्ठेन शक्रस्य देवेन्द्रस्य वैजयन्तः प्रासादः प्रकम्पितः, नन्दोपनन्दौ नागराजानौ विनीतौ। आह च- शक्रस्य येन भवनं पादाङ्गुष्ठेन कम्पितम्।
पूजनीयः प्रयत्नेन कोलितः स द्विजोत्तमः॥

६१॥

भुजगेश्वरौ प्रतिभयौ दान्तौ तौ येनातिदुर्दमौ।
लोके कस्तस्य शुद्धबुद्धेः पारं गच्छेद्गुणार्णवस्य॥

६२॥

यावद्राजा महामौद्गल्यायनस्य स्तूपे शतसहस्रं दत्वा कृताञ्जलिरुवाच- ऋद्धिमतामग्रो यो जन्मजराशोकदुःखनिर्मुक्तः।
मौद्गल्यायनमहं वन्दे मूर्ध्ना प्रणिपत्य प्रणिपत्य विख्यातम्॥

६३॥

यावत् स्थविरोपगुप्तः स्थविरमहाकाश्यपस्य स्तूपम् ….. । क्रियतामस्यार्चनमिति। राजा आह - के तस्य गुणा बभूवुः ? स्थविर उवाच- स हि महात्मा अल्पेच्छानां संतुष्टानां धुतगुणवादिनामग्रो निर्दिष्टो भगवता, अर्धासनेनोपनिमन्त्रितः, श्वेतचीवरेणाच्चादितः, दीनातुरग्राहकः शासनसंधारकश्चेति। आह च- पुण्यक्षेत्रमुदारं दीनातुरग्राहको निरायासः।
सर्वज्ञचीवरधरः शासनसंधारको मतिमान्॥

६४॥

कस्तस्य गुरोर्मनुजो वक्तुं शक्तो गुणान्निरवशेषान्।
आसनवरस्य सुमतिर्यस्य जिनो दत्तवानर्धम्॥

६५॥

ततो राजा अशोकः स्थविरमहाकाश्यपस्य स्तूपे शतसहस्रं दत्त्वा कृताञ्जलिरुवाच- पर्वतगुहानिलायं वैरपराङ्मुखं प्रशमयुक्तम्।
संतोषगुणविवृद्धं वन्दे खलु काश्यपं स्थविरम्॥

६६॥

यावत् स्थविरोपगुप्तः स्थविरवत्कुलस्य स्तूपं दर्शयन्नुवाच-इदं महाराज स्थविरबत्कुलस्य स्तूपम्। क्रियतामर्चनमिति। राजा आह- के तस्य गुणा बभूवुरिति ? स्थविर उवाच-स महात्मा अल्पाबाधानामग्रो निर्दिष्टो भगवता। अपि च। न तेन कस्यचिद्द्विपदिका गाथा श्राविता। राजा आह-दीयतामत्र काकणिः। यावदमात्यैरभिहितः - देव, किमर्थं तुल्येष्ववस्थितेष्वत्र काकणी दीयत इति ? राजा आह-श्रूयतामत्राभिप्रायो मम - आज्ञाप्रदीपेन मनिगृहस्थं हतं तमो यद्यपि तेन कृत्स्नम्।
अल्पेच्छभावान्न कृतं हि तेन यथा कृतं सत्त्वहितं तदन्यैः॥६७॥

सा प्रत्याहता तस्यैव राज्ञः पादमूले निपतिता। यावदमात्या विस्मिता ऊचुः- अहो तस्य महात्मनोऽल्पेच्छता बभूव। अनयाप्यनर्थी। यावत् स्थविरोपगुप्तः स्थविरानन्दस्य स्तूपमुपदर्शयन्नुवाच- इदम् स्थविरानन्दस्य स्तूपम्। क्रियतामस्यार्चनमिति। राजा आह- के तस्य गुणा बभूवुरिति ? स्थविर उवाच- स हि भगवत उपस्थायको बभूव, बहुश्रुतानामग्र्यः प्रवचनग्राहकश्चेति। आह च - मुनिपात्ररक्षणपटुः स्मृतिधृतिमतिनिश्चितः श्रुतसमुद्रः।
विस्पष्टमधुरवचनः सुरनरमहितः सदानन्दः॥६८॥

संबुद्धचित्तकुशलः सर्वत्र विचक्षणो गुणकरण्डः।
जिनसंस्तुतो जितरणः सुनरनमहितः सदानन्दः॥

६९॥

यावद्राज्ञा तस्य स्तूपे कोटिर्दत्ता। यावदमात्यैरभिहितः - किमर्थमयं देव सर्वेषां सकाशादधिकतरं पूज्यते ? राजा आह-श्रूयतामभिप्रायः - यत्तच्छरीरं वदतां वरस्य धर्मात्मनो धर्ममयं विशुद्धम्।
तद्धारितं तेन विशोकनाम्ना तस्माद्विशेषेण स पूजनीयः॥

७०॥

धर्मप्रदीपो ज्वलति प्रजासु क्लेशान्धकारान्तकरो यदद्य।
तत्तत्प्रभावात्सुगतेन्द्रसूनो- स्तस्माद्विशेषेण स पूजनीयः॥

७१॥

यदा समुद्रं सलिलं समुद्रे कुर्वीत कश्चिन्न हि गोष्पदेन।
नाथेन तद्धर्ममवेक्ष्य भावं सूत्रान्तकोऽयं स्थविरेऽभिषिक्तः॥७२॥

अथ राजा स्थविराणां स्तूपार्चनं कृत्वा स्थविरोपगुप्तस्य पादयोर्निपत्य प्रीतिमना उवाच- मानुष्यं सफलीकृतं क्रतुशतैरिष्टेन संप्राप्यते राज्यैश्वर्यगुणैश्चलैश्च बिभवैः सारं गृहीतं परम्।
लोकं चैत्यशतैरलंकृतमिदं श्वेताभ्रकूटप्रभै- रस्याद्याप्रतिमस्य शासनमिदं किं नः कृतं दुष्करम्॥

७३॥

इति।
यावद्राजा स्थविरोपगुप्तस्य प्रणामं कृत्वा प्रक्रान्तः॥

यावद्राज्ञा अशोकेन जातौ बोधौ धर्मचक्रे परिनिर्वाणे एकैकशतसहस्रं दत्तम्, तस्य बोधौ विशेषतः प्रसादो जातः-इह भगवतानुत्तरा सम्यक्संबोधिरभिसंबुद्धेति। स यानि विशेषयुक्तानि रत्नानि, तानि बोधिं प्रेषयति। अथ राज्ञोऽशोकस्य तिष्यरक्षिता नाम अग्रमहिषी। तस्या बुद्धिरुत्पन्ना-अयं राजा मया सार्धं रतिमनुभवति, विशेषयुक्तांश्च (क्तानिच) रत्नानि बोधौ प्रेषयति। तया मातङ्गी व्याहरिता-शक्यसि त्वं बोधिं मम सपत्नीं प्रघातितुम् ? तयाभिहितम्-शक्ष्यामि, किं तु कार्षापणान् देहीति। यावन्मातङ्गया बोधिवृक्षो मन्त्रैः परिजप्तः, सूत्रं च बद्धम्। यावद्बोधिवृक्षः शुष्कितुमारब्धः। ततो राजपुरुषै राज्ञे निवेदितम्-देव, बोधिवृक्षः शुष्यत इति। आह च- यत्रोपविष्टेन तथागतेन कृत्स्नं जगद्बुद्धमिदं यथावत्।
सर्वज्ञता चाधिगता नरेन्द्र बोधिद्रुमोऽसौ निधनं प्रयाति॥७४॥

श्रुत्वा च राजा मूर्च्छितो भूमौ पतितः। यावज्जलसेकं दत्त्वोत्थापितः। अथ राजा कथंचित् संज्ञामुपलभ्य प्ररुदन्नुवाच- दृष्ट्वान्वहं तं द्रुमराजमूलं जानामि दृष्टोऽद्य मया स्वयंभूः।
नाथध्रुमे चैव गते प्रणाशं प्राणाः प्रयास्यन्ति ममापि नाशम्॥

७५॥

अथ तिष्यरक्षिता राजानं शोकार्तमवेक्ष्योवाच-देव, यदि बोधिर्न भविष्यति, अहं देवस्य रतिमुत्पादयिष्यामि। राजा आह- न सा स्त्री, अपि तु बोधिवृक्षः सः। तत्र भगवता अनुत्तरा सम्यक्संबोधिरधिगता। तिष्यरक्षिता मातङ्गीमुवाच- शक्यसि त्वं बोधिवृक्षं यथापौराणमवस्थापितुम् ? मातङ्गी आह-यदि तावत् प्राणान्तिकावशिष्टा भविष्यति, यथापौराणमवस्थापयिष्यामीति। विस्तरेण यावत्तया सूत्रं मुक्त्वा वृक्षसामन्तेन खनित्वा दिवसे क्षीरकुम्भसहस्रेण पाययति। यावदल्पैरहोभिर्यथापौराणः संवृत्तः। ततो राजपुरुषै राज्ञे निवेदितम्-देव, दिष्ट्या वर्धस्व, यथापौराणः संवृत्तः। श्रुत्वा च प्रीतमना बोधिवृक्षं निरीक्षमाण उवाच- बिम्बिसारप्रभृतिभिः पार्थिवेन्द्रैर्द्युतिंधरैः।
न कृतं तत्करिष्यामि सत्कारद्वयमुत्तमम्॥

७६॥

बोधिं च स्नापयिष्यामि कुम्भैर्गन्धोदकाकुलैः।
आर्यसंघस्य च करिष्यामि सत्कारं पञ्चवार्षिकम्॥

७७॥

अथ राजा सौवर्णरूप्यवैडुर्यस्फटिकमयानां कुम्भानां सहस्रं गन्धोदकेन पूरयित्वा प्रभूतं चान्नपानं समुदानीय गन्धमाल्यपुष्पसंचयं कृत्वा स्नात्वा अहतानि वासांसि नवानि दीर्घदशानि प्रावृत्य अष्टाङ्गसमन्वागतमुपवासमुपोष्य धूपकटछुकमादाय शरणतलमभिरूह्य चतुर्दिशमायाचितुमारब्धः-ये भगवतो बुद्धस्य श्रावकास्ते ममानुग्रहायागच्छन्तु। अपि च - समयग्गता ये सुगतस्य शिष्याः शान्तेन्द्रिया निर्जितकामदोषाः।
संमाननार्हा नरदेवपूजिता आयान्तु तेऽस्मिन्ननुकम्पया मम॥७८॥

प्रशमदमरता विमुक्तसङ्गाः प्रवरसुताः सुगतस्य धर्मराज्ञः।
असुरसुरनरार्चितार्यवृत्ता- स्त्विह मदनुग्रहणात्समभ्युपैन्तु॥७९॥

वसन्ति काश्मीरपुरे सुरम्ये ये चापि धीरास्तमसावनेऽस्मिन्।
महावने रेवतके रयेऽर्या अनुग्रहार्थं मम तेऽभ्युपेयुः॥८०॥

अनवतप्तह्रदे निवसन्ति ये गिरिनदीषु सपर्वतकन्दरेषु।
जिनसुताः खलु ध्यानरताः सदा समुदयान्त्विह तेऽद्य कृपाबलाः॥

८१॥

शैरीषके ये प्रवरे विमाने वसन्ति पुत्रा वदतां वरस्य।
अनुग्रहार्थं मम ते विशोका ह्यायान्तु कारुण्यनिविष्टभावाः॥

८२॥

गन्धमादनशैले च ये वसन्ति महौजसः।
इहायान्तु कारुण्यमुत्पाद्योपनिमन्त्रिताः॥

८३॥

एवमुक्ते च राज्ञा त्रीणि शतसहस्राणि भिक्षूणां संनिपतितानि। तत्रैकं शतसहस्राणामर्हतां शैक्षाणां पृथग्जनकल्याणकानां च। न कश्चिद्वृद्धासनमाक्रम्यते स्म। राजा आह-किमर्थं वृद्धासनं तन्नाक्रम्यते ? तत्र यशो नाम्ना वृद्धः षडभिज्ञः। स उवाच- महाराज, वृद्धस्य तदासनमिति। राजा आह-अस्ति स्थविर त्वत्सकाशादन्यो वृद्धतर इति ? स्थविर उवाच-अस्ति महाराज- वदतां वरेण वशिना निर्दिष्टः सिंहनादिनामग्र्यः।
पिण्डोलभरद्वाजस्यैतदग्रासनं नृपते॥

८४॥

अथ राजा कदम्बपुष्पवदाहृष्टरोमकूपः कथयति- अस्ति कश्चिद्बुद्धदर्शी भिक्षुर्ध्रियत इति ? स्थविर उवाच- अस्ति महाराज पिण्डोलभरद्वाजो नाम्ना बुद्धदर्शी तिष्ठत इति। राजा कथयति- स्थविर, शक्यः सोऽस्माभिर्द्रष्टुमिति ? स्थविर उवाच-महाराज, इदानीं द्रक्ष्यसि। अयं तस्यागमनकाल इति। अथ राजा प्रीतमना उवाच - लाभः परः स्यादतुलो ममेह महासुखश्चायमनुत्तमश्च।
पश्याम्यहं यत्तमुदारसत्त्वं साक्षाद्भरद्वाजसगोत्रनामं॥

८५॥

ततो राजा कृतकरपुटो गगनतलावसक्तदृष्टिरवस्थितः। अथ स्थविरपिण्डोलभरद्वाजोऽनेकैरर्हत्सहस्रैर्धचन्द्राकारेणोपगूढो राजहंस इव गगनतलादवतीर्य वृद्धान्ते निषसाद। स्थविरपिण्डोलभरद्वाजं दृष्ट्वा तान्यनेकानि भिक्षुशतसहस्राणि प्रत्युपस्थितानि। अद्राक्षीद्राजा पिण्डोलभरद्वाजं श्वेतपत्लितशिरसं प्रलम्बभ्रूललाटं निगूढाक्षितारकं प्रत्येकबुद्धाश्रयम्। दृष्ट्वा च राजा मूलनिकृत्त इव द्रुमः सर्वशरीरेण स्थविरपिण्डोलभरद्वाजस्य पादयोः पतितः। मुखतुण्डकेन च पादावनुपरिमार्ज्य उत्थाय तौ जानुमण्डलौ पृथिवीतले प्रतिष्ठाप्य कृताञ्जलिः स्थविरपिण्डोलभरद्वाजं निरीक्षमाणः प्ररुदन्नुवाच- यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला।
एकातपत्रा पृथिवी तदा मे प्रीतिर्न या मे स्थविरं निरीक्ष्यं॥

८६॥

त्वद्दर्शनाद्भवति। दृष्टोऽद्य तथागतः। करुणालाभात् त्वद्दर्शनाच्च द्विगुणप्रसादो ममोत्पन्नः। अपि च स्थविर दृष्टस्ते त्रैलोक्यनाथो गुरुर्मे भगवान् बुद्ध इति ? ततः स्थविरपिण्डोलभरद्वाज उभाभ्यां पाणिभ्यां भ्रुवमुन्नाम्य राजानमशोकं निरीक्षमाण उवाच- दृष्टो मया ह्यसकृदप्रतिमो महर्षिः
संतप्तकाञ्चनसमोपमतुल्यतेजाः।
द्वात्रिंशल्लक्षणधरः शरदिन्दुवक्त्रो ब्राह्मस्वराधिकरणो ह्यरणाविहारी॥८७॥

राजा आह-स्थविर, कुत्र ते भगवान् दृष्टः, कथं चेति ? स्थविर उवाच-यदा महाराज भगवान् विजितमारपरिवारः पञ्चभिरर्हच्छतैः सार्धं प्रथमतो राजगृहे वर्षामुपगतः, अहं तत्कालं तत्रैवासम्। मया स दक्षिणीयः सम्यग्दृष्ट इति। आह च - वीतरागैः परिवृतो वीतरागो महामुनिः।
यादा राजगृहे वर्षा उषितः स तथागतः॥

८८॥

तत्कालमासं तत्राहं संबुद्धस्य तदन्तिके।
यथा पश्यसि मां साक्षादेवं दृष्टो मया मुनिः॥८९॥

यदापि महाराज भगवता श्रावस्त्यां तीर्थ्यान् विजयार्थं महाप्रातिहार्यं कृतम्, बुद्धावतंसकं यावदकनिष्ठभवनं निर्मितं महत्, तत्कालं तत्रैवाहमासम्। मया तद्बुद्धविक्रीडितं दृष्टमिति। आह च- तीर्थ्या यदा भगवता कुपथप्रयाता ऋद्धिप्रभावविधिना खलु निर्गृहीताः।
विक्रीडितं दशबलस्य तदा ह्युदारं दृष्टं मया तु नृप हर्षकरं प्रजानाम्॥

९०॥

यदापि महाराज भगवता देवेषु त्रायस्त्रिंशेषु वर्षा उषित्वा मातुर्जनयित्र्या धर्मं देशयित्वा देवगणपरिवृतः सांकाश्ये नगरेऽवतीर्णः, अहं तत्कालं तत्रैवासम्। मया सा देवमनुष्यसंपदा दृष्टा, उत्पलवर्णया च निर्मिता चक्रवर्तिसंपदा इति। आह च- यदावतीर्णो वदतां वरिष्ठो वर्षामुषित्वा खलु देवलोके।
तत्राप्यहं संनिहितो वभूव दृष्टो मयासौ मुनिरग्रसत्त्वः॥९१॥

यदा महाराज सुमागधया अनाथपिण्डददुहित्र्या उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्ध ऋद्ध्या पुण्ड्रवर्धनं गतः, तदाहं ऋद्ध्या पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्ड्रवर्धनं गतः। तन्निमित्तं च मे भगवता आज्ञाक्षिप्ता- न तावत् ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति। आह च- यदा जगामर्द्धिबलेन नायकः सुमागधयोपनिमन्त्रितो गुरुः।
तदा गृहीत्वार्धबलेन शैलं जगाम तूर्णं खलु पुण्ड्रवर्धनम्॥९२॥

आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन।
तावन्न ते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः॥

९३॥

यदापि महाराज त्वया पूर्वं बालभावाद्भगवतो राजगृहं पिण्डाय प्रविष्टास्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्यः राधगुप्तेन चानुमोदितम्, त्वं च भगवता निर्दिष्टः-अयं दारको वर्षशतपरिनिर्वृतस्य मम पाटकिपुत्रे नगरे अशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातुकं वैस्तारिकां करिष्यति, चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यति, अहं तत्कालं तत्रैवासीत्। आह च- यदा पांश्वञ्जलिर्दत्तस्त्वया बुद्धस्य भाजने।
बालभावात् प्रसादित्वा तत्रैवाहं तदाभवम्॥

९४॥

राजा आह- स्थविर, कुत्रेदानीमुष्यत इति ? स्थविर उवाच- उत्तरे सरराजस्य पर्वते गन्धमादने।
वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः॥९५॥

राजा आह-कियन्तः स्थविरस्य परिवाराः ? स्थविर उवाच- षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर।
वसामि यैरहं सार्धं निस्पृहैर्जितकल्मषैः॥

९६॥

अपि च महाराज, किमनेन संडेहेन कृतेन ? परिविष्यतां भिक्षुसंघः। भुक्तवतो भिक्षुसंघस्य प्रतिसंमोदनां करिष्यामि। राजा आह-एवमस्तु, यथा स्थविर आज्ञापयति। किं तु बुद्धस्मृतिप्रतिबोधितोऽहं बोधिस्नपनं तावत् करिष्यामि। समनन्तरं च मनारेन चाहार्ण भिक्षुसंघमुपश्तास्यामीति। अथ राजा सर्वमित्रमुद्धोषकमामन्त्रयति - अहमार्यसंघस्य शतसहस्रं दास्यामि, कुम्भसहस्रेण च बोधिं स्नापयिष्यामि, मम नाम्ना घुष्यतां पञ्चवार्षिकमिति। तत्कालं च कुणालस्य नयनद्वयमविपन्नमासीत्। स राज्ञो दक्षिणे पार्श्वे स्थितः। तेणाङ्गलिद्वयमुत्क्षिप्तम्, न तु वाग्भाषिता। द्विगुणं त्वहं प्रसादयिष्यामीत्याकारयति। पाणिना वर्धितमात्रे च कुणालेन सर्वजनकायेन हास्यं मुक्तम्। ततो राजा हास्यं मुक्त्वा कथयति-अहो राधगुप्त, केनैतद्वर्धितमिति? राधगुप्तः कथयति-देव, बहवः पुण्यार्थिनः प्राणिनः। यः पुण्यार्थी, तेन वर्धितमिति। राजा आह-शतसहस्रत्रयं दास्यामीत्यार्यसंघे कुम्भसहस्रेण च बोधिं स्नपयिष्यामि, मम नाम्ना घुष्यतां पञ्चवार्षिकमिति। यावत् कुणालेन चतस्रोऽङ्गुल्य उत्क्षिप्ताः। ततो राजा रुषितः। राधगुप्तमुवाच-अहो राधगुप्त, कोऽयमस्माभिः सार्धं प्रतिद्वन्द्वयत्यलोकज्ञः ? रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच-देव, कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत् ? कुणालो गुणवान्, पित्रा सार्धं विकुर्वते। अथ राजा दक्षिणेन परिवृत्य कुणालमवलोक्योवाच-स्थविरोऽहम्। कोशं स्थापयित्वाराज्यमन्तःपुरममात्यगणमात्मानं च कुणालं सुवर्णरूप्यस्फटिकवैडूर्यमयानां पञ्चकुम्भसहस्राणि नानागन्धपूर्णानि क्षिरचन्दनकुङ्कुमकर्पूरवासितैर्महाबोधिं स्नपयिष्यामि, पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसंघे ददामि, मम नाम्ना घुष्यतां पञ्चवार्षिकमिति। आह च- राज्यं समृद्धं संस्थाप्य कोश- मन्तःपुराणि चामात्यगणं च सर्वम्।
ददामि संघे गुणपात्रभूते आत्मा कुणालं च गुणोपपन्नम्॥

९७॥

ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसंघे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रैर्बोधिस्नपनं कृतवान्। कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः। वक्ष्यति हि - कृतमात्रे नृपतिना बोधिस्नपनमुत्तमम्।
बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः॥

९८॥

दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलम्।
राजा हर्षं परं जगाम सामात्यगणनैगमः॥

९९॥

अथ राजा बोधिस्नपनं कृत्वा भिक्षुसंघं परिवेष्टुमारब्धः। तत्र यशो नाम्ना स्थविरः। तेनाभिहितम्-महाराज, महानयं परमदक्षिणीय आर्यसंघः संनिपतितः, तथा ते परिवेष्टव्यं यथा ते क्षतिर्न स्यादिति। ततो राजा स्वहस्तेन परिवेषणं यावन्नवकान्तं गतः। तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः। एकेनापि सक्तवो दत्ताः, द्वितीयेनापि सक्तवः। एकेन खाद्यकाः, द्वितीयेनापि खाद्यका एव। एकेन मोदकाः, द्वितीयेनापि मोदकाः। तौ दृष्ट्वा राजा हसितः। इमौ श्रामणेरौ बालक्रीडया क्रीडतः। यावद्राज्ञा भिक्षुसंघं परिवेष्य वृद्धान्तमारूढः। स्थविरेण चानुयुक्तः-मा देवेन कुत्रचिदप्रसादमुत्पादित इति। राजा आह-न इति। अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडतः , यथा बालदारकाः पांश्वागारैः क्रीडन्ति, एवं तौ श्रामणेरौ सक्तुक्रीडया क्रीडतः, खाद्यक्रीडया क्रीडतः। स्थविर उवाच-अलं महाराज, उभौ हि तौ उभयतोभागाविमुक्तौ अर्हन्तौ। श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना-तौ श्रामणेरौ आगम्य भिक्षुसंघं पटेनाच्छादयिष्यामि। ततस्तौ श्रामणेरौ राज्ञोऽभिप्रायमवगम्य भूयोऽन्येऽस्माभिः स्वगुणा उद्भावयितव्या इति, तयोरेकेन कटाहका उपस्थापिता, द्वितीयेन रङ्गः समुदानीतः। राज्ञा दृष्टौ श्रामणेरकौ। किमिदमारब्धम् ? तयोरभिहितम्-देवोऽस्माकमवगम्य भिक्षुसंघं पटेनाच्छादयितुकामः। तान् पटान् रञ्जयिष्यामः। श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना-मया केवलं चिन्तितम्, न तु वाग्निश्चारिता। परचित्तवादौ एतौ महात्मानौ। ततः सर्वशरीरेण पादयोर्निपत्य कृताञ्जलिरुवाच- मौर्यः समृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः।
यस्येदृशः साधुजने प्रसादः काले तथोत्साहि कृतं च दानम्॥१००॥

यावद्राज्ञा अभिहितम्- युष्माकमागम्य त्रिचीवरेण भिक्षुसंघमाच्छादयिष्यामीति। ततो राजा अशोकः पञ्चवार्शिके पर्यवसिते सर्वभिक्षून् त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि संघस्याच्छादनं दत्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुणालं च निष्क्रीतवान्। भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितमिति॥

यस्मिन्नेव दिवसे राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, तस्मिन्नेव दिवसे राज्ञोऽशोकस्य पद्मावती नाम्ना देवी प्रसूता। पुत्रो जातोऽभिरूपो दर्शनीयः प्रासादिकः। नयनानि चास्य परमशोभनानि। यावद्राज्ञोऽशोकस्य निवेदितम्-देव, दिष्ट्या वृद्धिः। देवस्य पुत्रो जातः। श्रुत्वा राजा आत्तमनाः कथयति- प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः।
धर्मेण राज्यं मम कुर्वतो हि जातः सुतो धर्मविवर्धनोऽस्तु॥१०१॥

तस्य धर्मविवर्धन इति नाम कृतम्। यावत् कुमारो राज्ञोऽशोकस्योपनामितः। अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति- सुतस्य मे नेत्रवराः सुपुण्याः सुजातनीलोत्पलसंनिकाशाः।
अलंकृतं शोभति यस्य वक्त्रं संपूर्णचन्द्रप्रतिमं विभाति॥१०२॥

यावद्राजा अमात्यानुवाच-दृष्टानि भवद्भिः कस्येदृशानि नयनानि? अमात्या ऊचुः-देव, मनुष्यभूतस्य न दृष्टानि, अपि तु देव, अस्ति हिमवति पर्वतराजे कुणालो नाम पक्षी प्रतिवसति, तस्य सदृशानि नयनायि। आह च- हिमेन्द्रराजे गिरिशैलशृङ्गे प्रवालपुष्पप्रसवे जलाढ्ये।
कुणालनाम्नेतिनिवासपक्षी नेत्राणि तेनास्य समान्यमूनि॥१०३॥

ततो राज्ञा अभिहितम्-कुणालः पक्षी आनीयतामिति। तस्योर्ध्वतो योजनं यक्षाः शृण्वन्त्यधो योजनं नागाः। ततो यक्षैस्तत्क्षणेन कुणालः पक्षी आनीतः। अथ राजा कुणालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद्विशेषं पश्यति। ततो राज्ञाभिहितम्- कुमारस्य कुणालसदृशानि नयनानि। भवतु कुमारस्य कुणाल इति नाम। वक्ष्यति हि- नेत्रानुरागेण स पार्थिवेन्द्रः सुतःकुणालेतितदाबभाषे।
ततोऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य॥१०४॥

विस्तरेण यावत् कुमारो महान् संवृत्तः। तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता। यावद्राजा अशोकः कुणालेन सह कुर्कुटारामं गतः। तत्र यशो नाम्ना संघस्थविरोऽर्हन् षडभिज्ञः। स पश्यति-कुणालस्य नचिरान्नयनविनाशो भविष्यति। तेन राज्ञोऽभिहितम्-किमर्थंकुणालःस्वकर्मणिननियुज्यते ? ततो राज्ञा अभिहितः-कुणाल. संघस्थविरो यदाज्ञापयति तत्परिपालयितव्यम्। ततः कुणालः स्थविरस्य पादयोर्निपत्य कथयति-स्थविर, किमाज्ञापयसि ? स्थविर उवाच- चक्षुः कुणाल अनित्यमिति कुरु। आह- चक्षुः कुमार सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तम्।
यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि॥

१०५॥

स च तथा अभ्यासं करोति मनसिकारप्रयुक्तः। एकाभिरामः प्रशमारामश्च संवृत्तः। स राजकुले विविक्ते स्थानेऽवस्थितश्चक्षुरादीन्यायतनान्यनित्यादिभिराकारैः परिक्षते। तिष्यरक्षिता च नाम्ना अशोकस्याग्रमहिषी तं प्रदेशमभिगता। सा तं कुणालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति- दृष्ट्वा तदेवं नयनाभिरामं श्रीमद्वपुर्नेत्रयुगं च कान्तम्।
दंदह्यते मे हृदयं समन्ता- द्दावाग्निना प्रज्वलतेव कक्षम्॥

१०६॥

श्रुत्वा कुणाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति- वाक्यं न युक्तं तव वक्तुमेतत् सूनोः पुरस्ताज्जननी ममासी।
अधर्मरागंपरिवर्जयस्व अपायमार्गस्य हि एष हेतुः॥१०७॥

ततस्तिष्यरक्षिता तत्कालमलभमाना क्रुद्धा कथयति - अभिकामामभिगतां यत्त्वं नेच्छसि मामिह।
नचिरादेव दुर्बुद्धे सर्वथा न भविष्यसि॥

१०८॥

कुणाल उवाच - मम भवतु मरणं मा तु स्थितस्य धर्मे विशुद्धभावस्य।
न तु जीवितेन कार्यं सज्जनधिक्कृतेन मम॥

१०९॥

स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन।
मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन॥११०॥

यावत् तिष्यरक्षिता कुणालस्य छिद्रान्वेषिणी अवस्थिता। राज्ञोऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धम्। श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः। ततोऽमात्यैरभिहितः-देव, कुमारः प्रेष्यताम्। स संनामयिष्यति। अथ राजा कुणालमाहूय कथयति- वत्स कुणाल, गमिष्यसि तक्षशिलानगरं संनामयितुम् ? कुणाल उवाच- परं देव गमिष्यामि।
ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्यमनोरथस्य।
स्नेहाच्च योग्यं मनसा च बुद्ध्वा आज्ञापयामास विधाय यात्राम्॥१११॥

अथ राजा अशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणानाथांश्च मार्गादपनीय एकरथेऽभिरुह्य कुमारेण सह पाटलिपुत्रान्निर्गतः। अनुव्रजित्वा निवर्तमानः कुणालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच- धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः।
सततं ये कुमारस्य द्रक्ष्यन्ति मुखपङ्कजम्॥११२॥

यावन्नैमित्तिको ब्राह्मणः- कुमारस्य नचिरान्नयनविनाशो भविष्यति। स च राजा अशोकस्तस्य नयनेष्वत्यर्थमनुषक्तः। दृष्ट्वा च कथयति - नृपात्मजस्य नयने विशुद्धे महीपतिश्वाप्यनुरक्तमस्य।
श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रेऽद्य विनश्यमाने॥११३॥

इदं पुरं स्वर्गमिव प्रहृष्टं कुमारसंदर्शनजातहर्षम्।
पुरं विपन्ने नयने तु तस्य भविष्यति शोकपरीतचेताः॥

११४॥

अनुपुर्वेण तक्षशिलामनुप्राप्तः। श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः। वक्ष्यति च- श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान्।
गृह्य प्रत्युज्जगामाशु बहुमान्यो नृपात्मजम्॥११५॥

प्रत्युद्गम्य कृताञ्जलिरुवाच-न वयं कुमारस्य विरुद्धाः, न राज्ञोऽशोकस्य, अपि तु दुष्टात्मानोऽमात्या आगत्यास्माकमपमानं कुर्वन्ति। यावत्कुणालो महता संमानेन तक्षशिलां प्रवेशितः॥

राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः। तस्य मुखादुच्चारो निर्गन्तुमारब्धः। सर्वरोमकूपेभ्यश्चाशुचि प्रघरति। न च शक्यते चिकित्सितुम्। ततो राज्ञा अभिहितम्- कुणालमानयत, राज्ये प्रतिष्ठापयिष्यामीति। किं ममेदृशेन जीवेतेन प्रयोजनम् ? श्रुत्वा च तिष्यरक्षिता चिन्तयति-यदि कुणालं राज्ये प्रतिष्ठास्यति, नास्ति मम जीवितम्। तया अभिहितम्-अहं ते स्वस्थं करिष्यामि। किं तु वैद्यानां प्रवेशः प्रतिषिध्यताम्। यावद्राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः। ततस्तिष्यरक्षितया वैद्यानामभिहितम्- यदि कश्चिदीदृशेन व्याधिना स्पृष्टः स्त्री वा पुरुषो वा आगच्छति, मम दर्शयितव्यः। अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः। तस्य पत्न्या वैद्याय व्याधिर्निवेदितः। वैद्येनाभिहितम्-स एवागच्छतु आतुरः। व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि। यावदाभीरो वैद्यसकाशमभिगतः। वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः। ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद् व्यपरोपितः। जीविताद् व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्काश्यस्थाने अन्त्रायां कृमिर्महान् प्रादुर्भूतः। स यद्यूर्ध्वं गच्छति तेनाशुचीनि प्रघरति, अथाधो गच्छति, अधः प्रघरति। यावत् तत्र मरिचान् पेषयित्वा दत्तं न च म्रियते। एवं पिप्पली शृङ्गवेरं च। विस्तरेण यावत् पलाण्डुर्दत्तः। स्पृष्टश्च मृत उच्चारमार्गेण निगतः। एतच्च प्रकरणं तया राज्ञे निवेदितम्-देव, पलाण्डुं परिभुङ्क्ष्व, स्वास्थ्यं भविष्यति। राजा आह-देवि, अहं क्षत्रियः। कथं पलाण्डुं परिभक्षयामि ? देव्युवाच-देव, परिभोक्तव्यं जीवितस्यार्थे, भैषज्यमेतत्। राज्ञा परिभुक्तम्। स च कृमिर्मृत उच्चारमार्गेण निर्गतः। स्वस्थीभूतश्च राजा। तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता- किं ते वरं प्रयच्छामि ? तया अभिहितम्-सप्ताहं मम देवो राज्यं प्रयच्छतु। राजा आह- अहं को भविष्यामि ? देव्युवाच-सप्ताहस्यात्ययाद्देव एव राजा भविष्यति। यावद्राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तम्। तस्या बुद्धिरुत्पन्ना- इदानीं मया अस्य कुणालस्यं वैरं निर्यातितव्यम्। तया कपटलेखो लिखितस्तक्षशिलकानां पौराणाम् -कुणालस्य नयनं विनाशयितव्यमिति। आह च - राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनंहि।
उद्धार्यतां लोचनमस्य शत्रो- र्मौर्यस्य वंशस्य कलङ्क एषः॥

११६॥

राज्ञोऽशोकस्य यत्र कार्यमाशु परिप्राप्यं भवति, दन्तमुद्रया मुद्रयति। यावत् तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता। राजा च भीतः प्रतिबद्धः। देवी कथयति-किमिदमिति ? राजा कथयति-देवि, स्वप्नं मेऽशोभनं दृष्टम्। पश्यामि द्वौ गृध्रौ कुणालस्य नयनमुत्पाटयितुमिच्छतः। देवी कथयति-स्वास्थ्यं कुमारस्येति। एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति- देवि, स्वप्नो मे न शोभनो दृष्ट इति। तिष्यरक्षिता कथयति-कीदृशः स्वप्न इति। राजा आह- पश्यामि कुणालम्-दीर्घकेशनखश्मश्रुः पुरं प्रविष्टः। देव्याह-स्वास्थ्यं कुमारस्येति। यावत् तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः। यावद्राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः। ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकानाहूय कथयति-कीदृश एषां स्वप्नानां विपाक इति ? नैमित्तिकाः कथयन्ति-देव, य ईदृशस्वप्नानि पश्यति। आह च- दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च।
चक्षुर्भेदं च पुत्रस्य पुत्रनाशं च पश्यति॥११७॥

श्रुत्वा च राजा अशोकस्त्वरितमुत्थायासनात् कृताञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः। आह च- या देवता शास्तुरभिप्रसन्ना धर्मे च संघे च गणप्रधाने।
ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु तेऽस्मत्तनयं कुणालम्॥

११८॥

स च लेखोऽनुपूर्वेण तक्षशिलामुपनीतः। अथ तक्षशिलाः पौरजानपदा लेखदर्शनात् कुणालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्रियं निवेदितुम्। चिरं विचारयित्वा राजा दुष्टशीलः स्वपुत्रस्य न मर्षयति, प्रागेवास्माकं मर्षयति। आह च- मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः।
यस्य द्वेषः कुमारस्य कस्यान्यस्य भविष्यति॥११९॥

तैर्यावत्कुणालस्य निवेदितम्, लेखश्चोपनीतः। ततः कुणालो वाचयित्वा कथयति-विश्रब्धं यथात्मप्रयोजनं क्रियतामिति। यावच्चण्डाला उपनीताः-कुणालस्य नयनमुत्पाटयथेति। ते च कृताञ्जलिपुटा ऊचुः- नोत्साहयामः। कुतः ? यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन्नरः।
स चन्द्रसदृशाद्वक्त्रात्तव नेत्रे समुद्धरेत्॥

१२०॥

ततः कुमारेण मकुटं दत्तम्। अनया दक्षिणयोत्पाटयथेति। तस्य तु कर्मणोऽवश्यं विपत्तव्यम्। पुरुषो हि विकृतरूपोऽष्टादशभिर्दौर्वर्णिकैः समन्वागतोऽभ्यागतः। स कथयति-अहमुत्पाटयिष्यामीति। यावत्कुणालस्य समीपं नीतः। तस्मिंश्च समये कुणालस्य स्थविराणां वचनमामुखीभूतम्। स तद्वचनमनुस्मृत्योवाच- इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः।
पश्यानित्यमिदं सर्वं नास्ति कश्चिद् ध्रुवे स्थितः॥

१२१॥

कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः।
यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः॥१२२॥

अनित्यतांसंपरिपश्यतोमे गुरूपदेशान्मनसि प्रकुर्वतः।
उत्पाटनेऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्ये॥

१२३॥

उत्पाटे वा न वा नेत्रे यथा ना मन्यते नृपः।
गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः॥

१२४॥

ततः कुणालस्तं पुरुषमुवाच- तेन हि भोः पुरुष, एकं तावन्नयनमुत्पाट्य मम हस्तेऽनुप्रयच्छ। यावत् स पुरुषः कुणालस्य् अनयनमुत्पाटयितुं प्रवृत्तः। ततोऽनेकानि प्राणीशतसहस्राणि विक्रोष्टुमारब्धानि- कष्टं भोः॥

एषा हि निर्मला ज्योत्स्ना गगनात्पतते शशी।
पुण्डरीकवनाच्चापि श्रीमन्नुत्पाट्यतेऽम्बुजम्॥

१२५॥

तेषु प्राणिशतसहस्रेषु रुदत्सु कुणालस्यैव नयनमुत्पाट्य हस्ते दत्तम्। ततः कुणालस्तन्नयनं गृह्योवाच- रूपाणि कस्मान्न निरीक्षसे त्वं यथापुरा प्राकृत मांसपिण्ड।
ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः श्रयन्ते॥१२६॥

सामग्रजंबुद्धदसंनिकाशं सुदुर्लभं निर्विषमस्वतन्त्रम्।
एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति॥

१२७॥

एवमनुविचिन्तयता तेन सर्वभावेष्वनित्यताम्।
स्त्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः॥१२८॥

ततः कुणालो दृष्टसत्यस्तं पुरुषमुवाच- इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्य हस्ते दत्त। अथ कुणालो मांसचक्षुष्युद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति - उद्धृतं मांसचक्षुर्मे यद्यप्येतत्सुदुर्लभम्।
प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धमनिन्दितम्॥१२९॥

परित्यक्तोऽहं नृपतिना यद्यहं पुत्रसंज्ञया।
धर्मराजस्य पुत्रत्वमुपेतोऽस्मि महात्मनः॥

१३०॥

ऐश्वर्याद्यद्यहं भ्रष्टः शोकदुःखनिबन्धनात्।
धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनम्॥

१३१॥

यावत्कुणालेन श्रुतम्-नायं तातस्याशोकस्य कर्म, अपि तु तिष्यरक्षिताया अयं प्रयोग इति। श्रुत्वा च कुणालः कथयति - चिरं सुखं चैव सा तिष्यनाम्नी आयुर्बलंपालयतेचदेवी।
संप्रेषितोऽयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थः॥१३२॥

ततः काञ्चनमालया श्रुतम्-कुणालस्य नयनान्युत्पाटितानीति। श्रुत्वा च भर्तृतया कुणालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुणालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा मूर्च्छिता भूमौ पतिता। यावज्जलसेकं कृत्वोत्थापिता। ततः कथंचित् संज्ञामुपलभ्य सस्वरं प्ररुदन्त्युवाच- नेत्राणि कान्तानि मनोहराणि ये मां निरीक्षञ्जनयन्ति तुष्टिम्।
ते मे विपन्ना ह्यनिरीक्षणीया- स्त्यजन्ति मे प्राणसमाः शरीरम्॥

१३३॥

ततः कुणालो भार्यामनुनयन्नुवाच - अलं रुदितेन। नार्हसि। शोकमाश्रयितुम्। स्वयंकृतानामिह कर्मणां फलमुपस्थितम्। आह च - कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा।
मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि बाष्पमोक्षम्॥

१३४॥

ततः कुणालो भार्यया सह तक्षशिलाया निष्कासितः। स गर्भादानमुपादाय परमसुकुमारशरीरः। न किंचिदुत्सहते कर्म कर्तुम्। केवलं वीणां वादयति, गायति च। ततो भैक्ष्यं लभते। कुणालः पत्न्या सह भुन्क्ते। ततः काञ्चनमाला येन मार्गेण पाटलिपुत्रादानीता, तमेव मार्गमनुस्मरन्ती भर्तृद्वितीया पाटलिपुत्रं गता। यावदशोकस्य गृहमारब्धा प्रवेष्टुम्। द्वारपालेन च निवारितौ। यावद्राज्ञोऽशोकस्य यानशालायामवस्थितौ। ततः कुणालो रात्र्याः प्रत्यूषसमये वीणां वादयितुमारब्धः। यथा नयनान्युत्पाटितानि, सत्यदर्शनं च कृतम्, तदनुरूपं हितं च गीतं प्रारब्धम्। आह च- चक्षुरादीनि यः क्प्राज्ञः पश्यत्यायतनानि च।
ज्ञानदीपेन शुद्धेन स संसाराद्विमुच्यते॥

१३५॥

यदितवभवदुःखपीडिता भवतिदोषविनिश्रितामतिः।
सुखमिहचयदीच्छसिध्रुवं त्वरितमिहायतनानि संत्यजस्व॥१३६॥

तस्य गीतशब्दो राज्ञा अशोकेन श्रुतः। श्रुत्वा च राजा प्रीतमना उवाच- गीतं कुणालेन मयि प्रसक्तं वीणास्वरं चैव श्रुतिश्चिरेण।
अभ्यागतोऽपीह गृहं नुं कंचि- न्न चेच्छति द्रष्टुमयं कुमारः॥

१३७॥

अथ राजा अशोकोऽन्यतमपुरुषमाहूयोवाच - पुरुष, लक्ष्यते - न खल्वेष किं गीतस्य कुणालसदृशो ध्वनिः।
कर्मण्यधैर्यतां चैव सूचयन्निव लक्षते॥

१३८॥

तदनेनास्मि शब्देन दैर्यादाकम्पितो भृशम्।
कलभस्येव नष्टस्य प्रनष्टकलभः करी॥

१३९॥

गच्छ, कुणालमानयस्वेति। यावत् पुरुषो यानशालां गतः। पश्यति कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रम्। अप्रत्यभिज्ञाय च राजानमशोकमभिगम्योवाच- देव, न ह्येष कुणालः। अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायामवस्थितः। श्रुत्वा च राजा संविग्नश्चिन्तयामास- यथा मया स्वप्नान्यशोभनानि दृष्टानि, नियतं कुणालस्य नयनानि विनष्टानि भविष्यन्ति। आह च - स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा।
निःसंशयं कुणालस्य नेत्रे वै निधनं गते॥

१४०॥

ततो राजा प्ररुदन्नुवाच- शीघ्रमानीयतामेष मत्समीपं वनीपकः।
न हि मे शाम्यते चेतः सुतव्यसनचिन्तया॥

१४१॥

यावत् पुरुषो यानशालां गत्वा कुणालमुवाच- कस्य त्वं पुत्रः, किं च नाम ? कुणालः प्राह- अशोको नाम राजासौ मौर्याणां कुलवर्धनः।
कृत्स्नेयं पृथिवी यस्य वशे वर्तति किंकर॥१४२॥

तस्य राज्ञस्त्वहं पुत्रः कुणाल इति विश्रुतः।
धार्मिकस्य तु पुत्रोऽहं बुद्धस्यादित्यबान्धकः॥

१४३॥

ततः कुणालः पत्न्या सह राज्ञोऽशोकस्य समीपमानीतः। अथ राजा अशोकः ( पश्यति) कुणालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोलकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनम्। स तमप्रत्यभिज्ञाय आकृतिमात्रकं दृष्ट्वा राजा कथयति- त्वं कुणाल इति ? कुणालः प्राह- एवं देव, कुणालोऽस्मीति। श्रुत्वा मूर्च्छितो भूमौ पतितः। वक्ष्यति हि- ततः कुणालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः।
राजा ह्यशोकः पतितो धरण्यां हा पुत्रशोकेन हि दह्यमानः॥

१४४॥

यावज्जलपरिषेकं कृत्वा राजानमुत्थापतित्वा आसने निषादितः। अथ राजा कथचित् संज्ञामुपलभ्य कुणालमुत्सङ्गे स्थापयामास। वक्ष्यति हि- ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः।
मुहुः कुणालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र॥

१४५॥

नेत्रे कुणालप्रतिमे विलोक्य सुतं कुणालेति पुरा बभाषे।
तदस्य नेत्रे निधनं गते ते पुत्रं कुणालेति कथं च वक्ष्ये॥

१४६॥

आह च- कथय कथय साधु पुत्र ताव- द्वदनमिदं ताव चारुनेत्रम्।
गगनमिव विपन्नचन्द्रतार- व्यपगतशोभमनीक्षकं कृतं ते॥

१४७॥

अकरुणहृदयेनतेनतात मुनिसदृशस्य न साधु साधुबुद्धेः।
नरवरनयनेष्ववैरवैरं प्रकृतिमिदं मम भूरि शोकमूलम्॥

१४८॥

वदसुवदनक्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशम्।
तवनयनविनाशशोकदग्धं वनमिवं नागाविमुक्तवज्रदग्धम्॥

१४९॥

ततः कुणालः पितरं प्रणिपत्योवाच- राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यमेतत्।
यत्कर्मभिस्तेऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव॥

१५०॥

लब्धाः फलस्थाश्च पृथग्जनाश्च कृतानि कामान्यशुभानि देहिनाम्।
स्वयंकृतानामिह कर्मणां फलं कथं तु वक्ष्यामि परैरिदं कृतम्॥

१५१॥

अहमेव महाराज कृतापराधश्च सापराधश्च।
विनिवर्तयामि योऽहं विनयामि विपत्तिजननानि॥१५२॥

न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां नभसोऽविकारिणः।
शरीरलक्ष्येण धृतेन पार्थिव पतन्ति दुःखान्यशिवानि देहिनाम्॥१५३॥

अथ राजा शोकाग्निना संतापितहृदय उवाच- केनोद्धृवतानि नयनानि सुतस्य मह्यं को जीवितं सुमखुरं त्यजितुं व्यवस्तः।
शोकानलो निपतितो हृदये प्रचण्डः आचक्ष्व पुत्र लघु कस्य हरामि दण्डम्॥

१५४॥

यावद्राज्ञा अशोकेन श्रुतम्-तिष्यरक्षिताया अयं प्रयोग इति। श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच- कथं हि धन्ये न निमज्जसे क्षितौ छिन्दामि शीर्षं परशुप्रहारैः।
त्यजाम्यहं त्वामतिपापकारिणी- मधर्मयुक्तां श्रियमात्मवानिव॥

१५५॥

ततो राजा क्रोशाग्निना प्रज्वलितस्तिष्यरक्षिता निरीक्ष्योवाच- उत्पाट्य नेत्रे परिपातयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः।
जीवन्तिशूलामथकारयामि छिन्दामि नासां क्रकचेन वास्याः॥

१५६॥

क्षुरेण जिह्वामथ कर्तयामि विषेण पूर्णामथ घातयिष्ये।
सइत्येवमादिवधप्रयोगं वहुप्रकारं ह्यवदन्नरेन्द्रः॥

१५७॥

श्रुत्वा कुणालः करुणात्मकस्तु विज्ञापयामास गुरुं महात्मा।
अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वध स्त्रियम्॥

१५८॥

फलं हि मैत्र्या सदृशं न विद्यते प्रभोस्तितिक्षा सुगतेन वर्णिता।
पुनः प्रणम्य पितरं कुमारः कृताञ्जलिः सूनृतवाग्जगाद॥

१६९॥

राजन्न मे दुःखमलोऽस्ति कश्चि- त्तीव्रापकारेऽपि न मन्युतापः।
मनः प्रसन्नं यदि मे जनन्यां येनोद्धृतेन मे नयने स्वयं हि।
तत्तेन सत्येन ममास्तु ताव- न्नेत्रद्वयं प्राक्तनमेव सद्यः॥

१६०॥

इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्वभूवतुः। यावद्वाज्ञा अशोकेन तिष्यरक्षिता अमर्षितेन जतुगृहं प्रवेशयित्वा दग्धा, तक्षशिलाश्च पौराः प्रघातिताः।
भिक्ष्वः संशयजाताः सर्वसंशयच्छेत्तार्मायुष्मन्तं स्थविरोपगुप्तं पृच्छन्ति-किं कुणालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि ? स्थविर उवाच- तेन ह्यायुष्मन्तः श्रूयताम्- भूतपूर्वमतीतेऽध्वनि वाराणस्यामन्यतमो लुब्धकः। स हिमवन्तं गत्वा मृगान् प्रघातयति। सोऽपरेण समयेन हिमवन्तं गतः। तत्र पाशनिपतितान्येकस्यां गुहायां प्रविष्टान्यासादितानि। तेन वागुरया सर्वे गृहीताः। तस्य बुद्धिरुत्पन्ना-यदि प्रघातयिष्यामि, मांसः क्लेदमुपयास्यति। तेन पञ्चानां मृगशतानां नयनात्युत्पाटितानि॥

किंमन्यध्वमायुष्मन्तः ? योऽसौ लुब्धकः, स एष कुणालः। यत्तत्रानेन बहूना मृगशतानां नयनान्युत्पाटितानि, तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मावशेषेण पञ्च जन्मशतानि तस्य नयनान्युत्पाटितानि॥

किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कुले उपपन्नः, प्रासादिकश्च संवृत्तः, सत्यदर्शनंचकृतम् ? तेन ह्यायुष्मन्तः श्रूयताम्- भूतपूर्वमतीतेऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि। यदा क्रकुच्छन्दः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य अशोकेन राज्ञा चतूरत्नमयं स्तूपं कारितम्। यदा राजा अशोकः कालगतः, अश्राद्धो राजा राज्यं प्रतिष्ठितः। तानि रत्नान्यदत्तादायिकैर्हृतानि। पांशुकाष्ठं चावशिष्टम्। अत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः। तस्मिंश्च समयेऽन्यतमश्च श्रेष्ठिपुत्रः। तेनोक्तः-किमर्थंरुद्यतइति ? तैरभिहितम्- क्रकुछन्दस्य सम्यक्संबुद्धस्य स्तूपं चतूरत्नमयमासीत्, स इदानी विशीर्ण इति। ततस्तेन च तत्र क्रकुच्छन्दस्य सम्यक्संबुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा, सा अभिसंस्कृता, सम्यक्प्रणिधानम् च कृतम्-यादृशः क्रकुच्छन्दः शास्ता, ईदृशमेव शास्तारमारागयेयं मा विरागयेयमिति॥

किंमन्यध्वमायुष्मन्तः ? योऽसौ श्रेष्ठिपुत्रः, स कुणालः। यत्रानेन क्रकुच्छन्दस्य स्तूपमभिसंस्कृतम्, तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः। यत्प्रतिमा अभिसंस्कृता, तेन कर्मणो विपाकेन कुणालः प्रासादिकः संवृत्तः। यत् प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन कुणालेन शाक्यमुनिः सम्यक्संबुद्धस्तादृश एव शास्ता समारागितो न विरागितः, सत्यदर्शनं च कृतम्॥

इति श्रीदिव्यावदाने कुणालावदानं सप्तविंशतिमं समाप्तम्॥