३८.क्षान्यवदानम्

३८. क्षान्यवदानम्।
ते जयन्ति धृतिशीलिनः परं निर्विकाररुचिसूचिताद्भुताः।
शेषवत् पृथुलभारनिर्व्यथाः ये वहन्ति सुकृतक्षमाः क्षमाम्॥

१॥

पुरा पुरा पुण्यविपर्ययेण रिपुः प्रजानां जनितप्रकम्पः।
उदुन्बनामा निबिडोपतापै- र्यक्ष क्षयायैव कृतक्षणोऽभूत्॥२॥

अकालकालं तमनाथबन्धु- र्लोकानुकम्पी भगवान् प्रसह्य।
शिक्षोपदेशं शरणं प्रपन्नं शमाभिधायी विनये न्ययुङ्क्त॥

३॥

तस्मिन् प्रशान्ते भुवनोपतापे द्रष्टुं प्रहृष्टः सुगतं समेत्य।
संचारिणं नाकपतिः प्रणम्य तत्कालजातस्मितमित्युवाच॥४॥

कस्मादकस्मात् स्मितचन्द्रलेखा मुखाम्बुजे भाति तवाद्भुतेयम्।
अकारणं सत्त्वसुधासमुद्रा न लोकसामान्यतयाम् हसन्ति॥

५॥

श्रुत्वेति वाक्यं त्रिदशेश्वरस्य तत् तं सर्वदर्शी भगवान् बभाषे।
अस्मिन् प्रदेशे निजपूर्ववृत्तं स्मृत्वा स्म्तं जातमिदं ममेन्द्रं॥

६॥

पुरा मुनिः क्षानिरतिर्वनेऽस्मि- न्नुवास निर्वासितरोषदोषः।
योऽभूद्भुवो रागरजःस्वभावे विद्वेषवानिन्दुरिवारविन्दे॥

७॥

अथोत्तराशाधिपतिर्वसन्ते वनान्तरालोकनकौतुकेन।
सान्तःपुरः केलिसुखाय कामी तदाश्रमोपान्तमहीमवाप॥८॥

रागी कलिर्नाम स भूमिपालः पादप्रहारैर्वदनासवैश्च।
लेभे विलासेषु नितम्बिनीना- मशोकशोभां बकुलश्रियं च॥

९॥

दिशस्तपोलोपपृथुप्रकोप- भ्रूभङ्गवृन्दैरिव तापसानाम्।
तत्र भ्रमद्भिर्भ्रमरैर्बभूवुः कामाग्निधूमैरिव सान्धकाराह्॥

१०॥

लीलाविलोलाः पवनाकुलाली - स्तनावनम्राः स्तबका लतानाम्।
रक्ताधराः पाटलपल्लवानाम् प्रापुर्विलासं ललना लतानाम्॥

११॥

राजाङ्गनाः कौतुकविभ्रमेण वने चरन्त्यस्तमृषिं विलोक्य।
अचञ्चलध्यानसमाधिसक्तं विमुक्तरागं परिवार्य तस्थुः॥

१२॥

तद्देशमभ्येत्य नरेश्वरोऽथ दृष्ट्वा वभूभिः परिवारितं तम्।
ईर्ष्याप्रकोपानलदुर्निरीक्ष्यः चिच्छेद तस्याशु स पाणिपादम्॥

१३॥

छिन्नाङ्गवर्गोऽपि स निर्विकार- श्चुकोप भूपाय न नाम धीरः।
न्यवारयत् क्रूरतरं च तस्मै गन्धर्वयक्षोरगदेवसंघम्॥

१४॥

ततः प्रयाते नृपतौ पुरं स्वां समेत्य सर्वे मुनयो वनेभ्यः।
तं तत्र कृतावयवं विलोक्य क्षान्ता अपि क्रोधधुता बभूवुः॥

१५॥

शापप्रदानाभिमुखान् निवार्य क्षन्तव्यमित्येव स तानुवाच।
क्षामासमालिङ्गितमानसानाम् कोपक्रियाभिः क्रियते न सङ्गः॥

१६॥

विकारवेगोऽपि न पाणिपाद- च्छेदे ममाभूद् यदि वीतमन्योः।
सत्येन तेनाक्षतदेह एव स्यामित्यवादीत् स पुनः प्रसादी॥

१७॥

ततः क्षणात् संगतपाणिपादं रूढव्रणं प्रेत्य सदोदयेन।
अपूजयत् क्षान्तिगुणं स्तवेन तं देवता सत्त्वसितैश्च पुष्पैः॥

१८॥

राजापि तत्किल्बिषकालकूट- विस्फोटसंघट्टविनष्टचेष्टः।
पूरोत्कटावर्तविवर्तमानः संवर्तपाकं नरकं जगाम॥

१९॥

योऽभूत्पुरा क्षान्तिरतिर्महर्षिः सोऽहं कलिर्यश्च स देवदत्तः।
अतीतवृत्तस्मरणेन शक्र नाकारणं जातमिदं स्मितं मे॥

२०॥

इति भगवतः श्रुत्वा वाक्यं स विस्मयमानसः प्रमदविकचव्यक्तोत्साहा वहन्नयनावलीः।
तरणिकिरणस्पर्शेनेव स्फुटः कमलाकर- स्त्रिदशवसतिं प्रीतः प्रायात् पतिस्त्रिदिवैकसाम्॥

२१॥

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां क्षान्त्यवदानमष्टत्रिंशः पल्लवः॥