१८.शारिपुत्रप्रव्रज्यावदानम्

१८. शारिपुत्रप्रव्रज्यावदानम्।
नेदं बन्धुनों सुहृत् सोदरो वा नेदं माता न पिता वा करोति।
यत्संसाराम्भोधेसेतुं विधत्ते ज्ञानाचार्यः कोऽपि कल्याणहेतुः॥

१॥

कलन्दकनिवासाख्ये रम्ये वेणुवनाश्रमे।
भगवान् विहरन् बुद्धः पुरे राजगृहे पुरा॥२॥

किलितं चोपयिष्यं च द्वौ परिव्राजकौ पुरा।
प्रपन्नौ भिक्षुभावेन चकार शमसंवृतौ॥

३॥

ततश्च शारिपुत्रस्य भिक्षोः संदेशनां व्यघात्।
यया साक्षात्कृतार्हत्त्वो सोऽभून्मोक्षगतिक्षमः॥

४॥

तस्य तदद्भुतं दृष्ट्वा धनार्हं सर्वभिक्षुभिः।
पप्रच्छुः पूर्ववृत्तान्तं स च तेभ्यो व्यभाषत॥५॥

ब्राह्मणस्याग्निमित्रस्य भार्या गुणवराभवत्।
शूर्पिकेति कृतं पित्रा क्रीडानाम च बिभ्रती॥

६॥

भ्राता प्रथमशीलाख्यः तस्य शूर्पसमाभिधः।
प्रत्येकबुद्धतां यातः कदाचिद् गृहमाययौ॥

७॥

स तया भर्तुरादेशाद् गृहीभक्त्याधिवासितः।
प्रणतिप्रणयाचारैस्तोषितः परिचर्यया॥

८॥

कदाचिच्चीवरे तस्य कुर्वाणस्य विपात्रणम् (?)।
सूचीकर्मवहाद् दृष्ट्वा प्रणिधानं समादधे॥९॥

यथेयं कर्तरीं तीक्ष्णा यथा गम्भीरगामिणी।
सूची तथापरा प्रज्ञा मम स्यादिति सादरा॥

१०॥

प्रत्येकबुद्धविनयात् प्रणिधानेन तेन च।
गतास्मिन् जन्मनि सैव सप्रज्ञशारिपुत्रताम्॥

११॥

स एष शारिपुत्रोऽद्य भिक्षुष्तीक्ष्णतराग्रधीः।
कल्याणपात्रताम् यातः कल्पवल्ली हि सन्मतेः॥

१२॥

वाक्यं भगवतः श्रुत्वा पप्रच्छुर्भिक्षवः पुनः।
कस्मान्नाट्यकुले जातः शारिपुत्रो नराधमे॥१३॥

ततस्तान् भगवानूचे पूर्वस्मिन्नेष जन्मनि।
अभून्महामतिर्नाम राजपुत्रः सतां मतः॥

१४॥

श्रीमतोऽपि मतिस्तस्य प्रव्रज्यायामजायत।
परिपाकप्रसन्नानां कालुष्याय न संपदः॥

१५॥

प्रव्रज्या राजपुत्राणां यूनां नैव कुलोचिता।
इत्युक्त्वा जनकः प्रीत्या तं यत्नेन न्यवारयत्॥१६॥

कदाचित् कुञ्जरारूढः स व्रजन् जनवर्त्मनि।
दृष्ट्वा दरिद्रं स्थविरं कारुण्यादिदमब्रवीत्॥१७॥

अधन्या धनीनो लोके बन्धुबन्धनयन्त्रिताः।
प्रव्रज्यां नाप्नुवन्त्येव त्वं तु केन निवारितः॥१८॥

स न्यवेदयन्मे दरिद्रस्य न पात्रं न च चीवरम्।
धनोपकरणान्येव शमोपकरणान्यपि॥१९॥

राजसूनुरिति श्रुत्वा गत्वा मुनितपोवनम्।
प्रव्रज्यां कारयित्वास्य प्रददौ पात्रचीवरम्॥

२०॥

सोऽचिरेणैव काळेन यातः प्रत्येकबुद्धताम्।
राजपुत्रं समभ्येत्य दिव्यामृद्धिमदर्शयत्॥२१॥

तस्य प्रभावमालोक्य स प्रदध्यौ नृपात्मजः।
अहो महोदयत्वान्मे प्रव्रज्या दुर्लभाभवत्॥

२२॥

दारिद्य्रादविवेकाच्च् नीचानामपि दुर्लभा।
जायेयमधमे कुले तस्मदस्मि विवेकवान्॥२३॥

स एव शारिपुत्रोऽयं ज्ञातस्तत्प्रणिधानतः।
प्रव्रजितो भगवता काश्यपेनान्यजन्मनि॥२४॥

तेनायं नियमप्रणयविनयी सम्यक्प्रसादोदया- दादिष्टः कुशलाय सत्यनिधिना प्रज्ञावतामग्रणीः।
काले शाक्यमुनेर्भविष्यति मतः शिष्यत्वयोगाद्वरं मौद्गल्यायन एष चात्र कथितः संविन्मयानां वदः॥२५॥

अन्यजन्मनि दरिद्रः कार्मिकः केनचिदपि दयया महर्षिणा।
दत्तपात्रचीवरोऽभवद्दर्शितर्द्धिरासीदतुलप्रभाववान्॥२६॥

इति क्षेमेन्द्रविरचितां बोधिसत्त्वावदानकल्पलतायां शारिपुत्रप्रजज्यावदानम् नामाष्टादशः पल्लवः॥