जम्भलस्तोत्र
ओं नमो जम्भालाय।
शतमखदहनचतुर्मुख-
हरिहरदिवसकरनमितचरणयुग।
भगवन् मयि विनिवेशय
दुःखिनि कमलायतां दृष्टिम्॥१॥
उदकचलुकेन तुष्यसि
वद भवतः कोऽपरो दयालुर् अतः।
अगणितपूजाविधयस्
त्वत्सदृशा दुर्लभाः प्रायः॥२॥
सुखयसि दुर्गतिपतितान्
अन्विष्यान्विष्य यत्नतः कृपया।
पुरतः कथम् अपि पश्यसि।
किम् इति न माम् अश्रुमलिनमुखम्॥३॥
प्रविततकरुणाधनुषि त्वय्य् अपि तिष्ठत्य् अहो कथं जनता॥
दुर्वारदुःखतस्कर- सैन्येन विलुप्यते भगवन्॥४॥
विविधमणिरत्नवर्षं
वर्षसि किल नाथ सत्त्वहितहेतोः।
मयि तव गुणैकनिष्ठे
प्रसरन्ति न बिन्दवोऽपि कुतः॥५॥
त्वयि सति दहन्ति सुतरां
ज्वाला इव पावकस्य मां विपदः।
त्रिभुवनगृहीतभारा
करुणाधेनुः कुतो याता॥६॥
(1)
भद्रघटकल्पपादप-
चिन्तामणयो ऽप्य् अचेतनावन्तः।
ते ऽपि सुखयन्ति सत्त्वान्
किम् उ भगवान् स्वीकृतः कृपया॥७॥
जम्भलजलेन्द्र इति यः
क्षणम् अपि गृह्णाति नामधेयं ते।
कमलाकर इव तस्मिन्
निवसति लक्ष्मीः स्फुरत्कमला॥८॥
इति तव हतभव पुरतः
कृत्वाक्रन्दं विसर्पि यत् पुण्यम्।
तेन समीहितफलदस्
त्वम् इव जनो जायतां भगवन्॥९॥
इति चन्द्रगोमिविरचितं जम्भलस्तोत्रं समाप्तम्॥
(2)