वज्रविलासिनीसाधनास्तवः

वज्रविलासिनीसाधनास्तवः रविविकस्वरभास्वरसुन्दरी- प्रबलकेशरसंवरकर्णिकात्।
उदयमस्तकशृङ्गसमुल्लस- न्नवसुपूर्णशशाङ्ककराङ्किताम्॥

१॥

विविधपुष्परसासववेद्यपि द्रुतविलम्बितमध्यनदद्ध्वनिः।
अलिरुपेत्य निशार्धमहोत्सवे धयति तद्गतधीरिति विस्मयः॥

२॥

उदयतेऽस्तमुपैति निशाकरः पुनरतोऽप्युदयाचलमौलिताम्।
उभयकोटिकलापिनिरीक्षणे न च शशी न विभाति दिवाकरः॥

३॥

रविरुदेति सरोजदलान्तरे शिखरतोऽपि विधुः प्रविलीयते।
व्रजति चोर्ध्वमसौ वडवानलो गिलति राहुरधः शशिभास्करौ॥

४॥

कमलिनीकमलासनलोचन- प्रकटगोचरगोचरमीलनम्।
प्रथममङ्गमिदं कुलिशाम्बुज- द्वयनिमीलनमत्र ततोऽपरम्॥

५॥

सपदि साधकबीजनिघर्षणात् त्रितयमम्बरमेति चतुर्थकम्।
सहजमक्षयधामकलावली- कलितकालविलापनलेलिहम्॥

६॥

यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमोऽधिगतो भवेत्।
भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्वदृक्॥

७॥

श्रीवज्रविलासिनीसाधनास्तवः समाप्तः।