वज्रसत्त्वस्तुतिः

वज्रसत्त्वस्तुतिः अथ खलु भगवन्तः सर्वतथागताः भगवन्तं महावज्रसत्त्वं स्तुवन्ति स्म- मोहवज्रस्वभावस्त्वं यमारिरतिभीषणः।
सर्वबुद्धमयः शान्तः कायवज्र नमोऽस्तु ते॥

१॥

पिशुनवज्रस्वभावस्त्वं यमारिरतिभीषणः।
चित्तवज्रप्रतीकाशो रत्नवज्र नमोऽस्तु ते॥

२॥

रागवज्रस्वभावस्त्वं यमारिरतिभीषणः।
सर्वघोषवराग्राग्र्य वाग्वज्र नमोऽस्तु ते॥

३॥

ईर्ष्यावज्रस्वभावस्त्वं यमारिरतिभीषणः।
कायवज्रप्रतीकाश सङ्गपाणे नमोऽस्तु ते॥

४॥

सर्वबुद्धस्वभावस्त्वं सर्वबुद्धैकसंग्रहः।
सर्वबुद्धवराग्राग्र्य मण्डलेश नमोऽस्तु ते॥

५॥

श्रीमहावज्रसत्त्वस्तुतिः समाप्ता॥