महाबोधिवन्दनाष्टकम्
ॐ नमो बुद्धाय
सौवर्णवर्णं कलविङ्कघोषं ब्रह्मस्वरं कारुणिकं सुसेव्यम्।
नरोत्तमं शीलविशुद्धदेहं श्रीमन्महाबोधिमहं नमामि॥
१॥
शाक्येन्द्रवंशोद्भवदिव्यदेहं तृष्णाच्छिदं मारभिदं जिनेशम्।
ज्ञानास्पदं क्लेशभिदं दिनेशं श्रीमन्महाबोधिमहं नमामि॥
२॥
समन्तभद्रं वरलक्षणाङ्गं सत्त्वार्थसिद्धिं सुकृतैः प्रणम्यम्।
श्रेयस्करं सत्त्वहितैकचित्तं श्रीमन्महाबोधिमहं नमामि॥
३॥
धर्मोदकं यः कृपयोत्ससर्ज रागाग्निसन्दीपितपुद्गलानाम्।
सुखाय संबोधिपयोमुचं तं श्रीमन्महाबोधिमहं नमामि॥
४॥
भवाब्धिनिस्तारणसेतुभूतं तथागतं तत्त्वविदं नृसिंहम्।
त्रैलोक्यनाथं वरबोधिरत्नं श्रीमन्महाबोधिमहं नमामि॥
५॥
पदार्थसम्पादनसुव्रतस्थं मायासुतं मारभिदं जितारिम्।
शास्तारमग्र्यं वरबोधिसत्त्वं श्रीमन्महाबोधिमहं नमामि॥
६॥
लोकेशनाथं हरिनाथनाथं भूतेशनाथं सुरनाथनाथम्।
कृतान्तनाथं नरनाथनाथं श्रीमन्महाबोधिमहं नमामि॥
७॥
स बुद्धरूपः स हि धर्मरूपः स एव संघोऽपि विनेयकानाम्।
अभूच्छरण्यः शरणागतानां श्रीमन्महाबोधिमहं नमामि॥
८॥
श्रीमन्महाबोधिवन्दनाष्टकं समाप्तम्।