मङ्गलषोडशस्तुतिः

मङ्गलषोडशस्तुतिः ॐ नमः समन्तभद्राय येन पुण्याटवीस्थेनानेके शासनवर्तिनः।
दिवोदासादयो भूपाः स नो रक्षतु मारजित्॥

१॥

लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने।
ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात्॥

२॥

काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान्।
प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः॥

३॥

सौवर्णधान्यदानेन दीनं विप्रमपालयत्।
दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट्॥

४॥

यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात्।
चक्रं दूरीकृतं येन स नो रक्षतु मातृवान्॥

५॥

सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः।
काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः॥

६॥

भूत्वा यः सुधनो नाम निधानं समदर्शयत्।
दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित्॥

७॥

कुष्ठादिरोगहरणे राजगृहमुपाविशत्।
तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट्॥

८॥

यः कुशो भूपतिर्भूत्वाऽष्टमीमाहात्म्यमुत्तमम्।
प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित्॥

९॥

सौदासं सत्यवचसा काश्यामस्थापयन्नृपान्।
बन्धनान्मोचयामास स नो रक्षतु सर्ववित्॥

१०॥

गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन्।
वह्निदाहारिभयतः स नो रक्षतु भीतिहा॥

११॥

योऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात्।
दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः॥

१२॥

विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम्।
सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः॥

१३॥

सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत्।
सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत्॥

१४॥

विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः।
ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः॥

१५॥

श्रीस्वयंभुदर्शनाय नैपालीयान् प्रयासितुम्।
कपिलान् प्रस्थितो योऽसौ स नो रक्षतु सन्ततम्॥

१६॥

भद्रकल्पावदानोद्धृता शाक्यसिंहस्य मङ्गलषोडशस्तुतिः समाप्ता।