विशेषस्तव

विशेषस्तव नमो बुद्धाय।
शास्तॄन् अन्यान् समुत्सृज्य त्वाम् अहं शरणं गतः।
भगवंस् तत्र को हेतुर् निर्दोषो गुणवान् असि॥

१ [1]॥

दोषभक्तो ऽथवा लोको दोषान् वा गुणतो गतः।
गुणग्रहणमन्दो वा येनान्याञ् शरणं गतः॥

२ [2]॥

वासुदेवेश्वरादीनां हर्षात् तद्भक्तिभिर् जनैः।
ये गुणाः परिकीर्त्यन्ते दोषास् ते तव शासने॥

३ [3]॥

रुद्रेण त्रिपुरं दग्धं क्रुद्धेनैकेषुणा किल।
क्रोधाग्निर् एव निर्दग्धस् त्वया ज्ञानमहेषुणा॥

४ [4]॥

दुर्दग्धेन हि कामेन पुनर् आकर्षितो हरः।
त्वज्ज्ञानाग्नौ हुतः कामः समूलो विलयं गतः॥

५ [5]॥

तिलोत्तमायां जातास्थः शूली जातश् चतुर्मुखः।
मारकन्याविलासैस् ते रोमाग्रम् अपि नो ऽञ्चितम्॥

६ [6]॥

(1) चक्रवाकान् अपि जयत्य् अङ्गेन वनितां वहन्।
शंकरो ऽशंकरेण त्वं नैव का मेन मोहितः॥

७ [7]॥

न तन् मारबलं जेतुम् अलं चक्रित्रिशूलिनौ।
विना चक्रत्रिशूलाभ्यां यन् मैत्र्यस्त्रेण ते जितम्॥

८ [8]॥

नीलकण्ठीकृतः शर्वो जराबाणैर् हतो हरिः।
सोपक्रमौ तु तौ देवौ त्वं नाथ निरुपक्रमः॥

९ [9]॥

वामनं रूपम् आस्थाय हरिणा मायया बलिः।
वञ्चितस् त्वं तु मायाज्ञो न च वञ्चयसे परान्॥

१० [10]॥

तैः पङ्गुगतिवद् दृष्टं विष्णोस् त्रैलोक्यलङ्घनम्।
दृष्टं यैर् अद्भुतं नाथ त्वदृद्धीनां विजृम्भितम्॥

११ [11]॥

कुमारः सहितः षष्ठ्या ब्रह्मचर्यं चरन्न् अपि।
त्वया तु मैथुनाः सप्त- संयोगाद् भस्मसात् कृताः॥

१२ [12]॥

स्रष्टारो हि वयं लोक- स्योक्तं ब्रह्मादिभिः किल।
कर्मजास् ते ऽपि लोकश् च त्वयोक्तं तत्त्वदर्शिना॥

१३ [13]॥

(2) अहल्यादर्शनाद् वज्री कामेन किल मोहितः।
वीर दारास् त्वया त्यक्त्वा काम एव विमोहितः॥

१४ [14]॥

सोमः कवलतां याति विवशो राहुहस्तिनः।
तन् नास्ति भूतं यस्य त्वं विवशो वशम् आप्नुयाः। १५ [15]॥

नृपा रामाम्बरीषाद्या वनेभ्यः पुनर् आगताः।
विवेकामृततृप्तस् त्वं पुनः सुगत नागतः॥

१६ [16]॥

आलभ्याः पशवो यज्ञे प्राहुः स्वर्गं जिगीषवः।
पिपीलकस्यापि वधो नानुज्ञातस् त्वयानघ॥

१७ [17]॥

प्रमदार्थी गतो रामः पारं किल महोदधेः।
षष्तिं च स्त्रीसहस्राणि त्वं विहायाश्रमं गतः॥

१८ [33]॥

परेषां जीविताज्येन स्वार्थम् अन्यैर् मखे हुतम्।
परार्थं तु त्वयैकेन स्वजीवाहुतयो हुताः॥

१९ [18]॥

ऋषिभिर् बहवो दग्धाः क्रुद्धैः शापाग्निभिर् जनाः।
त्वया ज्ञानग्निना दग्धा जनानां जन्महे तवह्॥

२० [19]॥

(3) ऋषीणां तपसः सिद्धिः शापसिद्ध्यानुमीयते।
तव नाथ तपःसिद्धिः कृपासिद्ध्यानुमीयते॥

२१ [20]॥

ऋषिभिः पातितं लिङ्गं शम्भोः शापेन कामिनः।
त्वया मूलम् अनर्थानां काम एव निपातितः॥

२२ [21]॥

बहुत्वात् स्मृतिवैकल्यात् पूर्वोत्तरपराहतम्।
श्रूयते व्यासवचनं सर्वत्र न च ते मुनेः॥

२३ [19]॥

प्रायः परोक्तान्य् उक्तानि यानि द्वैपायनादिभिः।
त्वयासाधारणो धर्मः स्वयं ज्ञात्वा प्रकाशितः॥

२४ [22]॥

विविक्तेष्व् एव कथ्यन्ते वेदास् तीर्थ्यवचांसि च।
आघोष्य तव सैंहेन धर्मो नादेन कथ्यते॥

२५ [23]॥

दृष्टतत्त्वो ऽपि सांख्यानां भारद्वाजो वसन्तया।
संगतः संगता नैव स्त्रीभिः शिष्यास् तव प्रभो॥

२६ [24]॥

विशिष्टे देयम् इत्य् एवम् कपिलः प्राह नेतरे।
श्वभ्यो ऽपि नाथ दातव्यं कारुण्याद् भाषितं त्वया॥

२७ [25]॥

(4) शरीरतापैर् इच्छन्ति निर्ग्रन्था ग्रन्थिशातनम्।
त्वं पुनर् मानसैस् तापैर् ग्रन्थिशातनम् इच्छसि॥

२८ [26]॥

अनपेक्ष्यैव भावानां सिद्धिम् इच्छन्ति तार्किकाः।
न किं चिद् अनपेक्ष्यास्तीत्य् उक्तं वाचस्पते त्वया॥

२९ [27]॥

मोक्षं किल गतः प्राहुः शुको भित्त्वा दिवाकरम्।
त्वं तु प्राप्तश् च निर्वाणं न गतश् चासि कुत्र चित्॥

३० [28]॥

मोक्षम् अन्येन जनकः शुको ऽन्येन पथा गतः।
त्वं तु येन पथा यातः शिष्यास् तेनैव ते गताः॥

३१ [29]॥

षोडश स्त्रीसहस्राणि विष्णोर् आसीत् परिग्रहः।
त्वं तु लोकोत्तमः शास्ता निर्मनो निःपरिग्रहः॥

३२ [30]॥

संरक्तः काशिसुन्दर्यां व्यासो विकृतिम् आगतः।
गृहसंस्थो ऽप्य् अनार्यैस् त्वम् इन्द्रियार्थैर् न मोहितः॥

३३ [31]॥

कामार्तो विकलीभूतो वनितापादताडितः।
व्यासो न पुनर् एव त्वं गृहिभूतो ऽपि कम्पितः॥

३४ [32]॥

(5) कर्णदुर्योधनादीनां हरिणा चिन्तितो वधः।
असवो ऽपि त्वया त्यक्ताः सत्त्वानां हितकाम्यया॥

३५ [34]॥

विष्णुना कपटं कृत्वा या हृता विक्रमैस् त्रिभिः।
सा क्षितिस् तृणवत् त्यक्ता भवता निर्मुमुक्षुणा॥

३६ [35]॥

कृत्वा निःक्षत्त्रियं लोकं प्राणक्षयकरैः शरैः।
यद् यशः प्राप्तवान् रामः शास्त्रे तद् अयशस् तव॥

३७ [36]॥

यस्याः कृते न संग्रामः कृतः कौरवपाण्डवैः।
तां लताम् इव सव्याडां श्रियं त्याक्त्वासि निर्गतः॥

३८ [37]॥

देवदारुवने शंभोर् यद् योगीश्वरचेष्टितम्।
त्वादीयं शासनं प्राप्य तद् अज्ञानविचेष्टितम्॥

३९ [38]॥

द्विजैर् अद्यापि मघवान् अहल्यां परि गीयते।
त्वयाग्रफललाभेन शक्रस्योद्घोषितं यशः॥

४० [39]॥

देहाद् देहान्तरं याति जीवः किल निरञ्जनः।
न शरीरात् पृथग्भूतो जीवो ऽस्ति कथितं त्वया॥

४१ [52]॥

(6) स्वो मातुलः कुमारेण शक्त्या भिन्नो ऽभिगीयते।
क्लेशजालं त्वया वीर प्रज्ञाशक्त्या विदारितम्॥

४२ [67]॥

स्वम् अप्य् अन्तःपुरं नैव परित्रातं हि विष्णुना।
त्राणाय सर्वसत्त्वानां त्वं मुने नित्यम् उद्यतः॥

४३ [68]॥

जरासन्धभयं ज्ञात्वा मथुरां त्यक्तवान् हरिः।
सत्त्वो नैवास्त्य् असौ कश् चिद् बिभियास् त्वं यतो मुने॥

४४ [69]॥

अनयाद् विलयं याता वासुदेवस्य बान्धवाः।
त्वया तु बान्धवाः सर्वे संसारात् परिमोचिताः॥

४५ [70]॥

कृष्णो हि कृष्णयवन- त्रासार्तो ऽधः प्रविष्टवान्।
खट्वाया मुचुकुन्दस्य निर्भीस् त्वं सर्वतः प्रभो॥

४६ [40]॥

प्रजापतिर् दुहितरं स्वाम् अकामयत श्रुतिः।
अकल्मषं ब्रह्मचर्यं शिष्याणाम् अपि ते मुने॥

४७ [41]॥

दानग्रहणवत् प्रोक्ता संक्रान्तिः पुण्यपापयोः।
द्विजैस् त्वयोक्तम् एवं हि कृतनाशो ऽकृतागमः॥

४८ [42]॥

(7) चेतनालक्षणो ऽस्त्व् आत्मा कापिलैः परिकल्प्यते।
एवं हि तस्य नित्यत्वम् आत्मनः कथितं त्वया॥

४९ [43]॥

ज्ञानाद् अन्यो विभुश् चात्मा कणादः परिगीतवान्।
त्वयोक्तम् एवम् अन्यो ऽसौ काष्ठतुल्यः प्रसज्यते॥

५० [44]॥

संकोची च विकासी च जीवो देहप्रमाणवान्।
प्राह नग्नः प्रदेशित्वात् तस्योक्ता ते विनाशिता ५१ [45]॥

पुरुषः कारणं नित्यं जगतः कल्प्यते द्विजैः।
नित्यं च कारणं चेति त्वयोक्तं नास्ति किं चन॥

५२ [46]॥

षष्टिं पुत्रसहस्राणि सगरस्य महात्मनः।
दृष्ट्या ददाह कपिलस् तत्रापि करुणा तव॥

५३ [47]॥

प्रधानाज् जगद् उत्पन्नं कपिलः प्राह तत्त्ववित्।
कर्मक्लेशोद्भवं जन्म जगतः कथितं त्वया॥

५४ [48]॥

मोक्षे ऽपि कपिलादीनाम् आत्मनो भवहेतवः।
त्वं तु शान्तिं गतः संख्यां नैषि शान्त इवानलः॥

५५ [49]॥

(8) कैश् चित् तीर्थकरैर् मोक्षो गतिमान् इत्य् उदाहृतः।
गतिर् यत्र स संसारस् त्वया ज्ञात्वा प्रकाशितः॥

५६ [50]॥

आरामाद्याः समारम्भा नग्नानां पापहेतवः।
त एव खलु सर्वज्ञ त्वयोक्ताः पुण्यहेतवः॥

५७ [51]॥

शिशुपालस्य संग्रामे जीवः कृष्णेन घातितः।
न शरीरात् पृथग्भूतो जीवो ऽस्तीत्य् उदितं त्वया॥

५८ [deest]॥

क्रोधान् मृतस्य संग्रामे व्यासेनोक्ता शुभा गतिः।
तदवस्थेन चित्तेन त्वयोक्ता नाथ दुर्गतिः॥

५९ [53]॥

कीर्तनात् पाण्डुपुत्राणां पुण्यम् उक्तं पृथक् पृथक्।
अगम्यां येऽभिगच्छन्ति निन्द्यास् ते तव शासने॥

६० [54]॥

मतानि परतीर्थ्यानां विमृशामि यथा यथा।
तथा तथा मे त्वय्य् एव नाथा चित्तं प्रसीदति॥

६१ [71]॥

इत्य् असर्वज्ञसिद्धान्ते दोषविग्राहिताशयाः।
निर्दोषम् अपि शास्तारं त्वां न पश्यन्त्य् अबुद्धयः॥

६२ [72]॥

(9) लोको ऽब्रवीद् अमी शाक्या वेददेवद्विजद्विषः।
स्वकम् एवापराधं तु लोकः किं नावबुध्यते॥

६३ [73]॥

सुरेन्द्रोपेन्द्ररुद्राद्या धारयन्ति सदायुधम्।
भयाद् वा भीषणार्थं वा निर्भीस् त्वं न च भीषणः॥

६४ [55]॥

न भीषयसि कं चित् त्वं न च कैश् चिद् विभीषितः।
न्यस्तशस्त्रस् त्वम् एको हि तेनासि जगतो ऽधिकः॥

६५ [56]॥

वेदादिवचनं प्रायः पूर्वोत्तरपराहतम्।
वक्तुः संक्लेशतां वक्ति वचः सर्वज्ञतां तव ६६ [57]॥

पूर्वापरं विरोधीनि शास्त्राण्य् अन्यानि प्रायशः।
आदिमध्यावसाने तु तव वाकल्मषं मतम्॥

६७ [58]॥

न शूद्राय मतिं दद्याद् इत्य् उक्तं वेदपारगैः।
चण्डालेभ्यो ऽपि कारुण्यात् सद्धर्मो देशितस् त्वया॥

६८ [59]॥

द्रुमं भद्रं विनिर्मुच्य दुर्वनं कः समाचरेत्।
त्वां वीतरागम् आसाद्य को ऽन्याञ् शास्तॄन् नमेद् बुधः॥

६९ [60]॥

(10) विषयान् अपि भुञ्जाना ज्ञानान् मुच्यन्ति कापिलाः।
संक्लिष्टस्य कुतो मोक्षस् त्वयोक्तं वीतकल्मष॥

७० [61]॥

अन्यशास्त्रेषु तन् नोक्तं यद् उक्तं भगवंस् त्वया।
कृत्वा तु पुण्यसंभारः सत्त्वेभ्यः परिणाम्यते॥

७१ [62]॥

देवायतनयज्ञेषु कृत्वा भूताभिमर्दनम्।
लौकिका धर्मम् इच्छन्ति तच् छास्त्रे गर्हितं त्वया॥

७२ [63]॥

धर्म एव कुतस् तत्र यत्र प्राणिवधो ध्रुवम्।
स्वकैर् अपि त्वया प्राणैः सत्त्वाः संरक्षिता विभो॥

७३ [64]॥

यत्र सत्यम् अहिंसा च ब्रह्मचर्यं दमो दया।
शाक्यराजकुलोद्भूत स धर्मस् तव संमतः॥

७४ [65]॥

आततायिनम् आयान्तम् अपि वेदान्तगं रणे।
उक्तं लोके त्वयाप्य् उक्तं कारुण्यं वधकेष्व् अपि॥

७५ [66]॥

यतः सुखं सुखेनैव लभ्यते तव शासने।
अतस् ते वादिशार्दूल जनो ऽयं रमते मते॥

७६ [74]॥

(11) भूतान् प्रभाषमाणस्य विधिनानेन ते गुणान्।
यत् पुण्यम् अस्ति मे तेन जगद् अस्तु त्वाया समम्॥

७७ [75]॥

विशेषस्तवम् उच्चार्य यन् मयासादितं शुभम्।
तेनायं निखिलो लोको भूयाद् बोधिपरायणः॥

७८ [76]॥

विशेषस्तवः समाप्तः॥

भट्टराधस्वामिनः॥॥

(12)