सुप्रभातस्तव ओं नमो बुद्धाय॥
स्तुतम् अपि सुरसंघैः सिद्धगन्धर्वमुख्यैर्
दिवि भुवि च विशिष्टैः स्तोत्रवाग्भिर् यतीशैः।
अहम् अपि कृशशक्तिः स्तौमि संबुद्धम् आर्यं
नभसि गरुडयाते किं न यान्ति द्विरेफाः॥
१ [1]॥
सकलघनवितानक्लेशरात्र्यन्धकारे
जिन जगति विबुद्धं तत्क्षणज्ञानलाभात्।
कमलम् इव निशान्ते त्वां तथा सुप्रबुद्धं
स्तुतिकुसुमकलापैर् अर्थयिष्यामि भक्त्या॥२॥
क्षपितदुरितपक्षः क्षीणनिःशेषदोषो
द्रवितकनकवर्णः फुल्लपद्मायताक्षः।
सुरुचिरपरिवेषः सुप्रभामण्डलश्रीर्
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
३[2]॥
मदनबलविजेतुः कापोथोच्छेदकर्तुस्
त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः।
शमसुखरमवेत्तुर् भेत्तुर् अज्ञानशैलं
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
४ [3]॥
असुरसुरनराणां यो ऽग्रजन्माग्रदेवः
सकलभुवनधाता लोकसृष्ट्यैकशब्दः।
स्वपिति जगति बुद्धः पद्मपत्त्रायताक्षो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
५ [4]॥
उदयगिरितटस्थो विद्रुमच्छेदताम्रस्
तिमिरनिकरहन्ता चक्षुर् एकं जनानाम्।
रविर् अपि मदलोलः सर्वथा सो ऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
६ [5]॥
(1)
द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस्
तिलक इव रजन्याः शर्वचूडामणिर् यः।
अविगतमदरागश् चन्द्रमाः सो ऽपि सुप्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
७ [6]॥
प्रवरभुजचतुष्कः षोडशार्धार्धवक्त्रो
जपनियमविधिज्ञः सामवेदप्रवक्ता।
अमलकमलयोनिः सो ऽपि सुप्तो विधाता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
८ [7]॥
कुवलयदलनीलः पुण्डरीकायताक्षः
सुररिपुबलहन्ता विश्वकृद् विश्वरूपी।
हरिर् अपि चिरसुप्तो गर्भवासैर् अमुक्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
९ [10]॥
हिमगिरिशिखराभः सर्पयज्ञोपवीती
त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः।
सह गिरिवरपुत्र्या नित्यसुप्तस् त्रिशूली
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१० [8]॥
कपिलजटकलापो रक्तताम्रारुणाक्षः
पशुपतिरतिकाले सङ्गभङ्गैकदक्षः।
स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
११ [11]॥
ज्वलितकुलिशपाणिर् दुर्जयो दानवानां
सुरपतिर् अपि शच्या विभ्रमैर् मूढचेताः।
अनिशि निशि च सुप्तः कामपङ्के निमग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१२ [9]॥
हिमशशिकुमुदाभो मद्यपानारुणाक्षो
दृढकठिनभुजाङ्गो लाङ्गलासक्तहस्तः।
बल इह चिरसुप्तो रेवतीकण्ठलग्नो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१३ [12]॥
(2)
गजमुखदशनैकः सर्वतो विघ्नकर्त्ता
विगलितमदवारिः षट्पदोद्गीतगण्डः।
गणपतिर् अपि सुप्तो वारुणीपानमत्तो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१४ [13]॥
अतसिकुसुमनीला यस्य शक्तिः कराग्रे
नवकनकवपुष्मान् षण्मुखः क्रौञ्चभेत्ता।
त्रिनयनतनयो ऽसौ सो ऽपि सुप्तः कुमारो
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१५ [14]॥
यमवरुणकुबेरा यक्षदैत्योरगेन्द्रा
दिवि भुवि गगनस्था लोकपालास् तथान्ये।
युवतिमदकटाक्षैर् ईक्षितास् ते ऽपि सुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१६ [17]॥
ऋषय इह महान्तो वत्सभृग्वङ्गिरो
ऽद्रिक्रतुपुलहवसिष्ठव्यासवाल्मीकिगार्ग्याः।
युवतिजघनसक्तास् ते ऽपि नित्यं प्रसुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१७ [16]॥
अशानवसनहीना मृत्युयोगानुरक्ता
बहुविविधविघाताः प्रेतवद् दग्धदेहाः।
उभयगतिविहीनास् ते ऽपि नग्नाः प्रसुप्ता
दशबल तव नित्यं सुप्रभातं प्रभातम्॥
१८ [15]॥
यद् अपि गुणलवं ते नाथ संकीर्त्य भक्त्या
मम शुभम् उपजातं भावशोभावदातम्।
तद् इह जगति शीघ्रं ध्वस्तसर्वानुकारं
दशबल तव नित्यं सुप्रभातं प्रभातम्॥१९॥
सुप्रभातं तवैकस्य
ज्ञानोन्मीलितचक्षुषः।
अज्ञानतिमिरान्धानां
नित्यम् अस्तमितो रविः॥
२० [21]॥
(3)
पुनः प्रभातं पुनर् उद्गतो रविः
पुनः शशाङ्कः पुनर् एव शर्वरी।
मृत्युर् जरा जन्म तथैव भूयशो
गतागतं मूढधिया न बुध्यते॥
२१ [22]॥
अज्ञाननिद्ररजनीतमसि प्रसुप्ते
तृष्णाविशलशयने विषयोपधाने।
लोके शुभाशुभफलैः परिवर्तमाने
जागर्ति यः सततम् एव नमो ऽस्तु तस्मै॥
२२ [19]॥
सुप्रभातं सुनक्षत्रं
श्रिया प्रत्यभिनन्दितम्।
बुद्धं धर्मं च संघं च
प्रणमानि दिने दिने॥
२३ [23]॥
तीर्थेषु गोकुलशतानि पिबन्ति तोयं
तृप्तिं व्रजन्ति न च तत् क्षयम् अभ्युपैति।
तद्वन् मुनेः कविवरैर् अपि संस्तुतस्य
न क्षीयते गुणनिधिर् गुणसागरस्य॥
२४ [20]॥
स्तुत्वा लोकगुरुं महामुनिवरं
सद्धर्मपुण्योदधिं
निर्द्वन्द्वं हतरागदोषतिमिरं
शान्तेन्द्रियं निस्पृहम्।
यत् पुण्यं समुपार्जितं पृथु मया
तेनाशु लोको ऽखिलः
प्रत्यूषस्तुतिहर्षिते दशबले
श्रद्धां परां विन्दताम्॥
२५ [24]॥
सुप्रभातस्तवः समाप्तः॥
॥
कृतिर् इयं राज्ञः श्रीहर्षस्य॥॥
।
(4)