शाक्यसिंहस्तोत्रम् (विष्णुकृतम्)

शाक्यसिंहस्तोत्रम् विष्णुकृतम् ॐ नमः सर्वज्ञाय नमे श्रीघन त्वां सदाभावभक्तो भवाम्भोधिसेतुं लसन्मोक्षहेतुम्।
त्रिधातुं विधातुं सुरक्षां विरक्षां सुदक्षं सुकक्षां सुजातं सुदान्तम्॥

१ नमे दानशीलक्षमाध्यानवीर्यं महज्ज्ञानपारंगतं सौगतत्वम्।
चतुर्ब्रह्मवैहारलोकोद्धरन्तं चतुःसत्यधर्मोपदेशं सुवेशम्॥

२॥

नमे बोधिराजं सुगम्ये विराजं सुरम्ये वने देवराजादिगम्यम्।
चतुर्थासनस्थं हितार्थं दिशन्तं कृतानेकसुस्थं जगद्रक्षणस्थम्॥

३॥

चतुर्मारलोकं महद्वीर्यवन्तं जयन्तं हसन्तं त्रिजालं च कालम्।
क्षमानद्धदेहं नमे मुक्तगेहं त्रिलोक्यैकनाथं तथा शाक्यनाथम्॥

४॥

नमे मारसैन्यं जितं येन सर्वं निरस्त्रेण साहाय्यमुक्तेन नूनम्।
क्षमावर्म मैत्रीधनुर्धारिणा च जगत्पालितुं बोधिवृक्षस्थितेन॥

५॥

नमे शीतव्यञ्जैर्लसद्देहगेहं जने स्नेहवन्तं वने गेहवन्तम्।
युतं द्वाधिकैस्त्रिंशकैर्लक्षणाख्यै- र्महादुर्लभं त्रैभवे लोकपूज्यम्॥

६॥

नमे धर्ममेघास्थितं सुप्रतिष्ठं कलौ नाथहीने भवेयं सनाथः।
तथा पालितुं स्वां प्रतिज्ञां चकार जनिं शाक्यवंशे महीपावतंसे॥

७॥

नमे भाग्यतो लभ्यते दर्शनं ते तथा भाग्यभाजो स्वयमेति बुद्धिः।
स्थितो धर्ममेघे कथं दर्शनं स्याद् विहीना न तत्राभिगन्तुं प्रशक्ताः॥

८॥

इदानीं भवत्पादपद्मोत्थितेन रजःपुञ्जकेन त्रिलोकं पवित्रम्।
तथास्माच्छिरांसि पवित्राणि सत्यं चरिष्यामि बोधिं भवच्छासनेन॥

९॥

भुजङ्गप्रयातं कृतं माधवेन पठेद् यो जिनस्याग्रतस्थो हि नित्यम्।
सदा मङ्गलं तस्य गेहे सुदेहे प्रसन्नाश्च रक्षां करिष्यन्ति बुद्धाः॥

१०॥

त्रिजालं च छित्वा सुखानि प्रभुक्त्वा तथा दानशीलादिपारंगताश्च।
महाबोधिलब्धा जगत्पालक्षोदं गमिष्यन्ति चान्ते सुखावत्युपाख्याम्॥

११॥

श्रीशाक्यसिंहस्य विष्णुकृतं भुजङ्गप्रयातस्तोत्रं समाप्तम्।