शाक्यसिंहस्तोत्रम्
ब्रह्मणा कृतम्
नमः शाक्येन्द्राय।
नमोऽस्तु लोकाधिप शाक्यराज सद्धर्मपङ्केरुहभास्कराय।
क्लेशारिवर्गाभिहताय तुभ्यं संबोधिदीपैर्हतमोहजाल॥
१॥
ब्रह्मर्षिराजर्षिसुरर्षिसङ्घैः प्राप्तुं न यच्छक्यमनेकरत्नैः।
प्राप्तं त्वया ज्ञानमनन्तधर्मं येनाकरिष्यः सकलस्य हैत्यम्॥
२॥
प्रवर्तितं येन सुधर्मचक्रं यस्मिन् मही सोदधिशैलराजा।
आनन्दितेव चलिता ह्यजस्रं नमोऽस्तु तुभ्यं त्रिभवाधिपाय॥
३॥
यस्मिंश्च वातास्त्रिगुणेन युक्ता ववुर्नभस्तो निपतन्ति वस्त्राः(र्षाः)।
विचित्रपुष्पाणि सुगन्धि वारि नमोऽस्तु तुभ्यं जगदेकनाथ॥
४॥
अनन्यजेयो नमुचिर्वरिष्ठैः सैन्यैर्वृतः कोटिशतप्रमाणैः।
जितं त्वयैकेन निरायुधेन नमोऽस्तु तुभ्यं बलवर्तनाय॥
५॥
येन त्रिलोकीं प्रतिपालितुं तन्मायासुकज्जाज्वलयन्(?) प्रजातम्।
स्वभावतो जन्मजरान्तकारिणे नमोऽस्तु तुभ्यं जगदेकनाथ॥
६॥
त्रैधातुलोकेषु विकासितुं तां संबोधिचर्यामपवर्गसेतुम्।
तुषितायुतो जन्म चकार मर्त्ये नमोऽस्तु तुभ्यं वरबोधिराज॥
७॥
सम्यक् प्रतिज्ञां प्रतिकृत्य येन संप्रेष्यते मोक्षपुरे जनौघः।
तदर्थमायासि च मर्त्यलोके नमोऽस्तु तुभ्यं सुमहत्प्रतिज्ञ॥
८॥
यश्चाष्टकं ब्रह्मकृतं सुपुण्यं पठिष्यति शाक्यवराग्रतः स्थः।
दुःखं महापापभयं च हित्वा श्रीश्रीघने यास्यति पत्तने मुदा॥
९॥
ब्रह्मणा कृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम्।