सत्त्वाराधनगाथा

सत्त्वाराधनगाथा आर्य नागार्जुनकृता सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा नान्यत्र सा, ह्यहमहोऽधिगृहीतसत्त्वः।
चर्याऽधमा करुणया रहिता भवेद् या संभाव्यते करुणयैव प्रहाणमस्याः॥१॥

सत्त्वेषु यस्य नितरां करुणाप्रवृत्ति- राराधकः स मम शासनमर्मवेत्ता।
शीलं श्रुतिश्च करुणा च सुधोश्च यस्य नित्यं स एव सुगतार्चनकृन्निगद्यते॥

२॥

कल्याणकारमधिकृत्य गतोऽस्मि सिद्धिं सत्त्वार्थमेव तनुमेष समुद्वहामि।
नैवं क्रियेत यदि सत्त्वहितं मया चेद् व्यर्थं करोमि तनुपोषणमन्नपानैः॥

३॥

सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्- मामेव संश्रयति यो मयि निर्व्यपेक्षः।
पूजा तु सा भवति सत्त्वहितेक्षणापि पूज्यस्य या मनसि तुष्टिमुपाददाति॥

४॥

हिंसात्मिका परविहेठनसम्भवा वा पूजा न पूज्यमनुगच्छति संस्कृतापि।
दाराः सुताश्च विभवश्च महत्त्व (च्च) राज्यं मांसं च शोणितवसे नयते शरीरम्॥

५॥

येषां प्रियत्वमधिकृत्य मयोज्झितं यत् यस्तान् विहेठयति तेन विहेठितोऽहम्।
सत्त्वोपकारपरमा हि ममाग्रपूजा सत्त्वापकारपरया च पराभवः स्यात्॥

६॥

सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता।
सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः॥

७॥

कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः।
कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः॥

८॥

सत्त्वा एव गजादिभावगतयो दत्ता मयाऽनेकशः सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः।
सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः॥

९॥

संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः।
संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः॥

१०॥

यावच्चेदं ज्वलति जगतः शासनं शासनं मे तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः।
श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः॥

११॥

सम्यक्सम्बुद्धभाषिता सत्त्वाराधनगाथा समाप्ता।