प्रसादप्रतिभोद्भव …….. भृतं चोर्जितं चेदं रूपं कम् इव नाक्षिपेत्॥५२॥
येनापि शतशोदृष्टं
यो ऽपि तत्पूर्वम् ईक्षते।
रूपं प्रीणाति ते चक्षुः
समं तद् उभयोर् अपि॥५३॥
असेचनकभावाद् धि
सौम्यभावाच् च ते वपुः।
दर्शने दर्शने प्रीतिं
विदधाति नवां नवां॥५४॥
अधिष्ठानगुणैर् गात्रम्
अधिष्ठातृगुणैर् गुनाः।
परया संपदोपेतास्
तवान्योन्यानुरूपया॥५५॥
क्वान्यत्र सुनिविष्टाः स्युर्
इमे ताथागता गुणाः।
ऋते रूपात् तवैवास्माल्
लक्षणव्यञ्जनोज्ज्वलात्॥५६॥
धन्यम् अस्मीति ते रूपं
वदतीवाश्रितान् गुनान्।
सुनिक्षिप्ता वयम् इति
……॥५७॥
(1)