देवातिशयस्तोत्र नमो बुद्धाय॥
प्रत्यक्षतो न भगवान् सुगतो न विष्णुर्
आलोक्यते न च हरो न हिरण्यगर्भः।
तेषां तु रूपचरितातिशयप्रभावान्
श्रुत्वा विचारयत को गुणवान् न वेति॥१॥
विष्णुः समुद्यतगदायुधरौद्रपाणिः
शंभुर् ललन्नर शिरोग्रकपालमाली।
एकान्तशान्तचरितातिशयस् तु बुद्धः
कं पूजयामि उत शान्तम् अशान्तरूपम्॥२॥
दुर्योधनादिकुलनाशकरो बभूव
विष्णुर् हरस् त्रिपुरदाहकरः किलासीत्।
क्रौञ्चं गुहो ऽपि दृढशक्तिहतं चकार
बुद्धस् तु केवलम् असौ जगतो हितैषी॥३॥
पीड्यो मयायम् अयम् एव तु रक्षणीयो
वध्यो ऽयम् इत्य् अपि सुरोत्तमनीतिर् एषा।
निःश्रेयसाभ्युदयसौख्यहितैकबुद्धेर्
बुद्धस्य नैव रिपवो न च वञ्चनीयाः॥४॥
रागादिदोषजनकानि वचांसि विष्णोर्
उन्मत्तचेष्टितकराणि तथैव शंभोः।
निःशेषदोषशमकानि तथागतस्य
वन्द्यत्वम् अर्हति च को ऽत्र विचारयध्वम्॥५॥
यश् चोद्यतः परवधाय घृणां प्रहाय
त्रा णाय यश् च जगतः कृपया प्रवृत्तः।
रागि च यो भवति यश् च विमुक्तरागः
वन्द्यो ऽनयोः क इह नाम वदानुचिन्त्य॥६॥
(1)
शक्रं वज्रधरं बलं हलधरं
विष्णुं च चक्रायुधं
स्कन्दं शक्तिधरं श्मशाननिलयं
रुद्रं त्रिशूलायुधम्।
एतान् दुःखभयार्दितान् गतघृणान्
बालान् विचित्रायुधान्
नित्यं प्राणिवधोद्यतप्रहरणान्
कस् तान् नमस्येद् बुधः॥७॥
न यः शूलं धत्ते
न च युवतिम् अङ्के सुवदनां
न चक्रं शक्तिं वा
न च कुलिशम् उग्रं न च हलम्।
विनिर्मुक्तं क्लेशैः
परहितविधानोद्यतधियं
शरण्यं लोकानां
तम् ऋषिम् उपयातो ऽस्मि शरणम्॥८॥
रुद्रो रागबलात् स्त्रियं वहति यो
हिंस्रो ह्रिया वर्जितो
विष्णुः क्रूरतरः कृतघ्नचरितः
स्कन्दः स्वयं ज्ञातहा।
क्रूराशा महिषान्तकृन् नरवसा-
मांसाशिनी पार्वती
पानेप्सी च विनायको दशबले
स्वल्पो ऽपि दोषो ऽस्ति कः॥९॥
बन्धुर् न नः स भगवान् अरयो न चान्ये
साक्षान् न दृष्तचर एकतमो ऽपि चैषाम्।
श्रुत्वा वचः सुरुचिरं तु पृथग् विशेषं
बुद्धं गुणातिशयलोलतया स्रितास्म॥१०॥
(2)
नास्माकं सुगतः पिता न रिपवस्
तीर्थ्या धनं नैव नो
दत्तं तेन तथागतेन न हृतं
किं चित् काणादादिभिः।
किं त्व् एकान्तजगद्धितः स भगवान्
बुद्धो यतश् चामलं
वाक्यं सर्वमलापहारि च ततस्
तद्भक्तिमन्तो वयम्॥११॥
हितैषी यो नित्यं
सततम् उपकारी च जगतः
कृतं येन स्वास्थ्यं
बहुविधरुजार्तस्य जगतः।
स्फुटं यस्य ज्ञेयं
करतल इवाभाति सकलं
प्रपद्यध्वं सन्तं
तम् ऋषिम् असमं भक्तिमन सः॥
१२॥
असर्वभावेन चिकित्सया वा
परानुवृत्त्या विचिकित्सया वा।
ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र
ते ऽप्य् आमारीं संपदम् आप्नुवन्ति॥१३॥
पौराणि श्रुतिर् एष लोकमहितो
बुद्धः किलासौ हरिर्
दृष्ट्वा जन्म जराविनाशबलतां
लोकं कृपाभ्युद्यतः।
जातः शाक्यकुलेन्द्रर् अद्भुतमतिस्
त्राता नृणां गौतमः
शास्तारं हितम् एव कस् तम् अबुधो
नावैति मूढो जनः॥
१४
(3)
यदा रागद्वेषाद्
असुरसुरकन्यापहरणं
कृतं मायावित्वं
धरणिहरणासङ्गमतिना।
तदा पूज्यो वन्द्यो
हरिर् अपि विमुक्तो ऽबुधतया
विनिर्मुक्तं बुद्धं
न नमति जनो मोहबहुलः॥१५॥
चतुर्जलधिमेखलाकुल-
कपालभारालसां
विसृज्य हरये महीं बलिर्
अवाप कष्टां दशाम्।
प्रदाय मनये पिण्डं
पांशुलवम् अशोको नृपः
क्षितिं सकलचन्द्रमण्डल-
तलांशुकां प्राप्तवान्॥१६॥
पक्षपातो न मे बुद्धे
न द्वेषः कपि लादिषु।
युक्तिमद् वचनं यस्य
कार्यस् तस्य परिग्रहः॥१७॥
अवश्यम् एषां कतमो ऽपि सर्वविज्
जगद्धितैकान्तविशालशासनम्।
स एव दृश्यो मतिसूक्ष्मचक्षुषा
समेत्य् अशेषैः किम् अनर्थपण्डितैः॥१८॥
यस्य च निखिला दोषा
न सन्ति सर्वे गुणाश् च विद्यन्ते।
ब्रह्मा वा विष्णुर् वा
महेश्वरो वा स मे शास्ता॥१९॥
(4)
यस्य दोषा न विद्यन्ते
विद्यन्ते चामिता गुणाः।
सर्वज्ञो यः कृपालुश् च
तम् अहं शरणं गतः॥२०॥
एवं स्तुते स्तुतिसहस्रनदीसमुद्रे
बुद्धे विबुद्धकमलायतपत्त्रनेत्रे।
यत् किं चिद् अस्ति कुशलं मम वाक्समुत्थं
जाता भवन्तु सुखिनः खलु तेन सर्वे॥
२१।
देवातिशयस्तोत्रं समाप्तम्॥
कृतिर् इयम् आचार्यभट्टवराहस्वामिनः॥
(5)