भद्रचर्यादेशना

भद्रचर्यादेशनाIयावत केचि दशद्-दिशि लोकेसर्व-त्रियध्व-गता नर-सिंहाःतान् अहु वन्दमि सर्वि अशेषान्कायतु वाच मनेन प्रसन्नः। (1)IIक्षेत्र-रजोपन-काय-प्रमाणैःसर्व-जिनान करोमि प्रणामम्सर्व-जिनाभिमुखेन मनेनभद्र-चरी-प्रणिधान-बलेन। IIIएक-रजाग्रि रजोपम-बुद्धाबुद्ध-सुतान निषण्णकु मध्येएवम् अशेषत धर्मत-धातुंसर्वाधिमुच्यमि पूर्ण जिनेभिः। (2)IVतेषु च अक्षय-वर्ण-समुद्रान्सर्व-स्वराङ्ग-समुद्र-रुतेभिःसर्व-जिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान्। Vपुष्प-वरेभि च माल्य-वरेभिर्वाद्य-विलेपन-छत्र-वरेभिः(3)दीप-वरेभि च धूप-वरेभिःपूजन तेषु जिनान करोमि। VIवस्त्र-वरेभि च गन्ध-वरेभिश्चूर्ण-पुटेभि च मेरु-समेभिःसर्व-विशिष्ट-वियूह-वरेभिःपूजन तेषु जिनान करोमि। VIIया च अनुत्तर पूज उदारातान् अधिमुच्यमि सर्व-जिनानाम्भद्र-चरी-अधिमुक्ति-बलेनवन्दमि पूजयमी जिन सर्वान्। (4)VIIIयच् च कृतं मयि पापु भवेय्यारागतु द्वेषतु मोह-वशेनकायतु वाच मनेन तथैवतं प्रतिदेशयमी अहु सर्वम्। IXयच् च दशद्-दिशि पुण्य जगस्यशैक्ष-अशैक्ष-प्रत्येकजिनानाम्बुद्ध-सुतान्ऽ अथ सर्व-जिनानांतं अनुमोदयमी अहु सर्वम्। (5)Xये च दशद्-दिशि लोक-प्रदीपाबोधि विबुध्य असङ्गत प्राप्ताःतान् अहु सर्वि अध्येषमि नाथांश्चक्रु अनुत्तरु वर्त्तनतायै। XIयेऽपि च निर्वृति दर्शितु-कामास्तान् अभियाचमि प्राञ्जलि-भूतःक्षेत्र-रजोपम-कल्प स्थिहन्तुसर्व-जगस्य हिताय सुखाय। (6)XIIवन्दन-पूजन-देशनतायमोदन्ऽ-अध्येषन-याचनताययच् च शुभं मयि संचितु किंचिद्बोधयि नामयमी अहु सर्वम्। (7)XIIIपूजित भोन्तु अतीतकु बुद्धाये च ध्रियन्ति दशद्-दिशि लोकेये च अनागत ते लघु भोन्तुपूर्ण-मनोरथ बोधि-विबुद्धा। XIVयावत केचि दशद्-दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराःबोधि-द्रुमेन्द्र-गतेभि जिनेभिर्बुद्ध-सुतेभि च भोन्तु प्रपूर्णाः। (8)XVयावत केचि दशद्-दिशि सत्त्वास्ते सुखिताः सद भोन्तु अरोगाःसर्व-जगस्य च धर्मिकु अर्थोभोन्तु प्रदक्षिणु ऋध्यतु आशा। XVIबोधि-चरिं च अहं चरमाणोभवि जाति-स्मरु सर्व-गतीषुसर्वसु जन्मसु च्युत्य्-उपपत्तीप्रव्रजितो अहु नित्यु भवेय्या। (9)XVIIसर्व-जिनान्ऽ अनुशिक्षयमाणोभद्र-चरिं परिपूरयमाणःशिल-चरिं विमलां परिशुद्धांनित्यम् अखण्डम् अच्छिद्र चरेयम्। XVIIIदेव-रुतेभि च नाग-रुतेभिर्यक्ष-कुम्भाण्ड-मनुष्य-रुतेभिःयानि च सर्व-रुतानि जगस्यसर्व-रुतेष्व् अहु देशयि धर्मम्। (10)XIXपेशलु पारमितास्व् अभियुक्तोबोधियि चित्तु म जातु विमुह्येत्येऽपि च पापक आवरणीयास्तेषु परिक्षयु भोतु अशेषम्। XXकर्मतु क्लेशतु मार-पथातोलोक-गतीषु विमुक्तु चरेयम्पद्म यथा सलिलेन अलिप्तःसूर्य शशी गगनेऽव असक्तः। (11)XXIसर्वि अपाय-दुखां प्रशमन्तोसर्व-जगत् स्थापयमानःसर्व-जगस्य हिताय चरेयंयावत क्षेत्र-पथा दिश तासु। XXIIसत्त्व-चरिं अनुवर्तयमानोबोधि-चरिं परिपूरयमाणःभद्र-चरिं च प्रभावयमानःसर्वि अनागत-कल्प चरेयम्। (12)XXIIIये च सभागत मम चर्यायेतेभि समागमु नित्यु भवेय्याकायतु वाचतु चेतनतो वाएक-चरि-प्रणिधान चरेयम्। XXIVयेऽपि च मित्रा मम हित-कामाभद्र-चरीय निदर्शयितारःतेभि समागमु नित्यु भवेय्यातांश् च अहं न विरागयि जातु। (13)XXVधारयमाणु जिनान सद्-धर्मंबोधि-चरिं परिदीपयमानःभद्र-चरिं च विशोधयमानःसर्वि अनागत-कल्प चरेयम्। XXVIसंमुख नित्यम् अहं जिन पश्येबुद्ध-सुतेभि परीवृतु नाथान्तेषु च पूज करेय उदारांसर्वि अनागत-कल्प-म्-अखिन्नाः। (14)XXVIIसर्व-भवेषु च संसरमाणःपुण्यतु ज्ञानतु अक्षय-प्राप्तःप्रज्ञ-उपाय-समाधि-विमोक्षैःसर्व-गुणैर् भवि अक्षय-कोशः। XXVIIIएक-रजाग्रि रजोपम-क्षेत्रातत्र च क्षेत्रि अचिन्तिय बुद्धान्बुद्ध-सुतान निषण्णकु मध्येपश्यिय बोधि-चरिं चरमाणः। (15)XXIXएवम् अशेषत सर्व-दिशासुवाल-पथेषु त्रियध्व-प्रमाणान्बुद्ध-समुद्र्ऽ अथ क्षेत्र-समुद्रान्ओतरि चारिक-कल्प समुद्रान्। XXXएक-स्वराङ्ग-समुद्र-रुतेभिःसर्व-जिनान स्वराङ्ग-विशुद्धिम्सर्व-जगस्य यथ्ऽ आशय-घोषान्बुद्ध-सरस्वतिम् ओतरि नित्यम्। (16)XXXIतेषु च अक्षय-घोष-रुतेषुसर्व-त्रियध्व-गतान जिनानाम्चक्र-नयं परिवर्तयमानोबुद्धि-बलेन अहं प्रविशेयम्। XXXIIएक-क्षणेन अनागत सर्वान्कल्प-प्रवेश अहं प्रविशेयम्येऽपि च कल्प त्रियध्व-प्रमाणास्तान् क्षण-कोटि-प्रविष्ट चरेयम्। (17)XXXIIIये चे त्रियध्व-गता नर-सिंहांस्तान् अहु पश्यिय एक-क्षणेनतेषु च गोचरिम् ओतरि नित्यंमाय-गतेन विमोक्ष-बलेन। XXXIVये च त्रियध्वसु क्षेत्र-वियूहांस्तान् अभिनिर्हरि एक-रजाग्रेएवम् अशेषत सर्व-दिशासुओतरि क्षेत्र-वियूह जिनानाम्। (18)XXXVये च अनागत लोक-प्रदीपास्तेषु विबुध्यन चक्र-प्रवृत्तिम्निर्वृति-दर्शन निष्ठ-प्रशान्तिंसर्वि अहं उपसंक्रमि नाथान्। XXXVIऋद्धि-बलेन समन्त-जवेनयान-बलेन समन्त-मुखेनचर्य-बलेन समन्त-गुणेनमैत्र-बलेन समन्त-गतेन(19)XXXVIIपुण्य-बलेन समन्त-शुभेनज्ञान-बलेन असङ्ग-गतेनप्रज्ञ-उपाय-समाधि-बलेनबोधि-बलं समुदानयमानः। XXXVIIIकर्म-बलं परिशोधयमानःक्लेश-बलं परिमर्दयमानःमार-बलं अबलं करमाणःपूरयि भद्र-चरी-बल सर्वान्। (20)XXXIXक्षेत्र-समुद्र विशोधयमानःसत्त्व-समुद्र विमोचयमानःधर्म-समुद्र विपश्ययमानोज्ञान-समुद्र विगाहयमानः। XLचर्य-समुद्र विशोधयमानःप्रणिधि-समुद्र प्रपूरयमाणःबुद्ध-समुद्र प्रपूजयमानःकल्प-समुद्र चरेयम् अखिन्नः। (21)XLIये च त्रियध्व-गतान जिनानांबोधि-चरि-प्रणिधान-विशेषाःतान् अहु पूरय सर्वि अशेषान्भद्र-चरीय विबुध्यिय बोधिम्। XLIIज्येष्ठकु यः सुतु सर्व-जिनानांयस्य च नाम समन्ततभद्रःतस्य विदुस्य सभाग-चरीयेनामयमी कुशलं इमु सर्वम्। (22)XLIIIकायतु वाच मनस्य विशुद्धिश्चर्य-विशुद्ध्य् अथ क्षेत्र-विशुद्धिःयादृश नामन भद्र-विदुस्यतादृश भोतु समं मम तेन। XLIVभद्र-चरीय समन्त-शुभायेमञ्जुशिरी-प्रणिधान चरेयम्सर्वि अनागत-कल्प-म् -अखिन्नःपूरयि तां क्रिय सर्वि अशेषाम्। (23)XLVनो च प्रमाणु भवेय्य चरीयेनो च प्रमाणु भवेय्य गुणानाम्अप्रमाण चरियाय स्थिहित्वाजानयि सर्वि विकुर्वितु तेषाम्। XLVIयावत निष्ठ नभस्य भवेय्यासत्त्व अशेषत निष्ठ तथैवकर्मतु क्लेशतु यावत निष्ठातावत-निष्ठ मम प्रणिधानम्। (24)XLVIIये च दशद्-दिशि क्षेत्र अनन्तारत्न-अलंकृतु दद्यु जिनानाम्दिव्य च मानुष सौख्य विशिष्टांक्षेत्र-रजोपम-कल्प ददेयम्। XLVIIIयश् च इमं परिणामन-राजंश्रुत्व सकृज् जनयेद् अधिमुक्तिम्बोधि-वराम् अनुप्रार्थयमानोअग्रु विशिष्ट भवेद् इमु पुण्यम्। (25)XLIXवर्जित तेन भवन्ति अपायावर्जित तेन भवन्ति कुमित्राःक्षिप्रु स पश्यति तं अमिताभंयस्य् इमु भद्र-चरि-प्रणिधानम्। Lलाभ सुलब्ध सुजीवितु तेषांस्व्-आगत ते इमु मानुष जन्मयादृश सो हि समन्ततभद्रस्तेऽपि तथा न-चिरेण भवन्ति। (26)LIपापक पञ्च अनन्तरियाणियेन अज्ञान-वशेन कृतानिसो इमु भद्र-चरिं भणमानःक्षिप्रु परिक्षयु भोति अशेषम्। LIIज्ञानतु रूपतु लक्षणतश् चवर्णतु गोत्रतु भोति-र्-उपेतःतीर्थिक-मार-गणेभिर् अधृष्यःपूजितु भोति स सर्व-त्रिलोके। LIIIक्षिप्रु स गच्छति बोधि-द्रुमेन्द्रगत्व निषीदति सत्त्व-हितायबुध्यति बोधि प्रवर्तयि चक्रधर्षयि मारु स-सैन्यकु सर्वम्। (27)LIVयो इमु भद्र-चरि-प्रणिधानंधारयि वाचयि देशयितो वाबुद्ध विजानति योऽत्र विपाकोबोधि विशिष्ट म काङ्क्ष जनेथ। LVIसर्व-त्रियध्व-गतेभि जिनेभिर्या परिणामन वर्णित अग्राताय अहं कुशलं इमु सर्वंनामयमी वर-भद्र-चरीये। (28)LVIIकाल-कृयां च अहं करमाणोआवरणान् विनिवर्तिय सर्वान्संमुख पश्यिय तं अमिताभंतं च सुखावति-क्षेत्र व्रजेयम्। (29)LVIIIतत्र गतस्य इमि प्रणिधानाआमुखि सर्वि भवेय्यु समग्राःतांश् च अहं परिपूर्य अशेषान्सत्त्व-हितं करि यावत लोके। LIXतहि जिन-मण्डलि शोभनि रम्येपद्म-वरे रुचिरे उपपन्नःव्याकरणं अहु तत्र लभेय्यासंमुखतो अमिताभ-जिनस्य। LXव्याकरणं प्रतिलभ्य च तस्मिन्निर्मित-कोटि-शतेभिर् अनेकैःसत्त्व-हितानि बहून्य् अहु कुर्यांदिक्षु दशस्व् अपि बुद्धि-बलेन। (30)LXIIभद्र-चरिं परिणाम्य यद्-आप्तंपुण्यम् अनन्तम् अतीव विशिष्टम्तेन जगद् व्यसनौघ-निमग्नंयात्व् अमिताभ-पुरिं वरम् एव। LXIभद्र-चरि-प्रणिधान पठित्वायत् कुशलं मयि संचितु किंचित्एक-क्षणेन समृध्यतु सर्वंतेन जगस्य शुभं प्रणिधानम्। (31)