प्रज्ञापारमितास्तुतिः

प्रज्ञापारमितास्तुतिः ॐ नमः श्रीप्रज्ञापारमितायै निर्विकल्पे निरालम्बे निरवद्ये निरंजने।
नित्यानित्ये निर्विकारे प्रज्ञे देवि नमोऽस्तु ते॥

१॥

बुद्धानां जननीशानि बोधिसत्त्वपितामहि।
प्रपितामहि सत्त्वानां प्रज्ञे देवि नमोऽस्तु ते॥

२॥

मातर्मातर्जगन्मातरिति संजपतां नृणाम्।
मनोरथप्रदे शुद्धे प्रज्ञे देवि नमोऽस्तु ते॥

३॥

लक्ष्मीस्त्वमसि कल्याणि श्रीर्धीः श्रद्धा धृतिः स्मृतिः।
सर्वस्वरूपे सर्वेशि प्रज्ञे देवि नमोऽस्तु ते॥

४॥

लोकोत्तरे लौकिके च प्रज्ञापारमितेऽमिते।
दश पारमिताकारे प्रज्ञे देवि नमोऽस्तु ते॥

५॥

श्रीप्रज्ञापारमितास्तुतिः समाप्ता।