महाप्रतिसरास्तोत्रम्

महाप्रतिसरास्तोत्रम् ॐ नमः श्रीमहाप्रतिसरायै यस्याः स्मरणमात्रेण सर्वे पापाः क्षयं गताः। यया युक्तो वज्रकायो नमस्तस्यै नमो नमः॥

१॥

यां स्मरन् राक्षसः क्रूरो माठरं कुक्षिसंस्थितम्। प्राक्षिपद् गोविषं नद्यां नमस्तस्यै नमो नमः॥

२॥

याऽरक्षत् वणिजः पुत्रं क्रूरसर्पाद् वधोद्यतात्। विषदाहमुमूर्षुं च नमस्तस्यै नमो नमः॥

३॥

ब्रह्मदत्तो महाराजो यया रक्षितमस्तकः। रिपुं जित्वा विराजोऽभून्नमस्तस्यै नमो नमः॥

४॥

भिक्षुर्दुःशीलको रोगी यया कण्ठे प्रबन्धितः। प्राणान्मुक्त्वा ययौ स्वर्गं नमस्तस्यै नमो नमः॥

५॥

समुद्रे पोतसंक्षुब्धे वणिजां प्राणरक्षकः। यां स्मरन् सार्थवाहोऽभून्नमस्तस्यै नमो नमः॥

६॥

यस्यां च प्रतिबद्धायां भार्यायां सुतमाप्तवान्। प्रसारितभुजो राजा नमस्तस्यै नमो नमः॥

७॥

दरिद्रो यां प्रति स्मृत्वा दीनारान् प्रददौ जिने। राजाऽभीष्टप्रदाताऽभून्नमस्तस्यै नमो नमः॥

८॥

यां प्रबद्ध्वाऽसुरैर्युद्धं शक्रश्चूडामणौ प्रभुः। लब्धवान् विजयं वज्री नमस्तस्यै नमो नमः॥

९॥

यस्या मन्त्रबलेनैव पूर्य पारमिताश्च षट्। मारा जिता जिनैर्बुद्धैर्नमस्तस्यै नमो नमः॥

१०॥

अपधीरो वधार्होऽपि प्रक्षिप्तः सर्वसङ्कटे। यां स्मृत्वा परिमुक्तोऽभून्नमस्तस्यै नमो नमः॥

११॥

यया बन्धितकण्ठश्च मुक्तोऽभूत् पापसङ्कटात्। नगरे नायकोऽभूच्च नमस्तस्यै नमो नमः॥

१२॥

या चाऽपराजिता विद्या सर्वबुद्धैश्च धारिता। मुद्रिता भाषिता नित्यं पठिता परिदेशिता॥

१३॥

लिखिता मोदिता सत्त्वहिताय पूजिता सदा। स्मृता कायगता कृत्वा नमस्तस्यै नमो नमः॥

१४॥

यस्याः स्मरणमात्रान्न दुर्लभं भुवनत्रये। पाठस्वाध्यायनाद्वापि नमस्तस्यै नमो नमः॥

१५॥

या विद्या दुर्लभा बुद्धैर्व्याकृता सुप्तशंसिता। महती धारणी ख्याता सर्वपापक्षयङ्करी॥

१६॥

महाबला महावीर्या महातेजा महत्प्रभा। महागुणवती विद्या सर्वभारविदारणी॥

१७॥

पापसन्धिसमुद्घाती मारबन्धप्रमोचनी। जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी ॥

१८॥

रक्षणी पोषणी धात्री परमन्त्रविघातिनी। कार्खोदविषयोगानां विध्वंसनकरी शिवा॥

१९॥

महाध्यानरतानां च गृह्णतां लिखतां सदा। पाठाध्ययनकृतां नित्यं दधतां शृण्वतां तथा॥

२०॥

परेभ्यो देशिता चैव नित्यं मनसि भाविता। सा पुस्तकगतां कृत्वा पूज्यमाना नमस्कृता॥

२१॥

सर्वपापहरी भद्रा बोधिसंभारपूरिणी। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

२२॥

यस्या मन्त्रप्रभावेण सर्वभयान्युपद्रवाः। दुष्टाः सुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः॥

२३॥

ग्रहाः स्कन्दा अपस्माराः पिशाचा यक्षकिन्नराः। डाकिन्यः शाकिनीसंघा नागा कार्खोदव्याधयः॥

२४॥

ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा। विषाग्निशस्त्रमन्त्राणि विद्युतः कालवायवः॥

२५॥

अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च। तथान्ये पापसर्गा वा विनश्यन्ति न संशयः॥

२६॥

सर्वकार्याणि सिद्ध्यन्ति नमस्तस्यै नमो नमः। यश्चैतां धारयेद्विद्यां कण्ठे बाहौ च मस्तके॥

२७॥

नित्यं रक्षन्ति देवास्तं दैत्या नागाश्च मानुषाः। गन्धर्वाः किन्नरा यक्षा भूतप्रेतपिशाचकाः॥

२८॥

डाकिन्यो राक्षसा दूत्यः कूष्माण्डाः कठपूतनाः। त्रिसन्ध्यं यः पठेन्नित्यं बुद्धा रक्षन्ति तं सदा॥

२९॥

प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वा महर्धिकाः। योगिनः सिद्धमन्त्राश्च महावीर्या महर्षयः॥

३०॥

वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह। चत्वारश्च महाराजा ब्रह्मविष्णुमहेश्वराः॥

३१॥

नन्दिकृष्णो महाकालः कार्तिकेयो गणेश्वरः। भैरवा मातृका दुर्गास्तथाऽन्ये मारकायिकाः॥

३२॥

विद्यादेव्यो महावीर्या महाबलपराक्रमाः। मामकी भृकुटी तारा चाङ्कुशी वज्रशृङ्खला॥

३३॥

महाश्वेता महाकाली वज्रदूती सुपाशिका। वज्रमाला महाविद्या सुवीर्याऽमृतकुण्डली॥

३४॥

वज्राऽपराजिता चण्डी कालकर्णी महाबला। तथा धन्या महाभागा पद्मकुण्डलिरेव च॥

३५॥

मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिङ्गला। एकजटा महादेवी धन्या विद्युन्मालिनी॥

३६॥

कपालिनी च लङ्केशी ब्रह्मक्षितिकनायिका। हारीती पाञ्चिकाश्चैव शङ्खिनी कूटदन्तिनी॥

३७॥

श्रीः सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा। तमेवाऽन्येऽपि रक्षन्ति यस्य विद्या करे स्थिता॥

३८॥

स भवेत् सर्वसत्त्वानां मोक्षार्थं च समुद्यतः। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

३९॥

श्रीमहाप्रतिसरास्तोत्रं समाप्तम्॥