पञ्चतथागतस्तुतिगाथा

पञ्चतथागतस्तुतिगाथा ॐ नमः श्रीपञ्चभूतान्ताय।
नमस्ते वरदराजाग्र भूतकोटि नमोस्तु ते।
नमस्ते शून्यतागर्भ बुद्धबोधि नमोऽस्तु ते॥

१॥

बुद्धराग नमस्तेऽस्तु बुद्धकाम नमोऽस्तु ते।
बुद्धप्रीति नमस्तेऽस्तु बुद्धमोद नमो नमः॥

२॥

बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः।
बुद्धवाच नमस्तेऽस्तु बुद्धभाव नमो नमः॥

३॥

अभवोद्भव नमस्तेऽस्तु नमस्ते बुद्धसंभव।
गगनोद्भव नमस्तेऽस्तु नमस्ते ज्ञानसंभव॥

४॥

मायाजाल नमस्तुभ्यं नमस्ते बुद्धनायक।
नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमोऽस्तु ते।
श्री पञ्चतथागतस्तुतिगाथा समाप्ता।