पञ्चतथागतस्तोत्रम्
श्रीबुद्ध बुद्धाधिप बुद्धरूप बुद्धान्वितान् बोधयसे विबुद्धः।
बुद्ध्या समस्तान् खलु बुद्धपुत्र सन्तोष्य योगेन तु बुद्धमेघाम्॥
१॥
श्रीवज्र वज्रामल जातवज्र वज्रेण दीप्तेन प्रदीप्य लोकम्।
ददन् योगेन तु वज्रसंवर्षं वज्रात्मभावं कुरुषे सुवज्र॥
२॥
श्रीरत्न रत्नाकर रत्नमेघ रत्नेन रत्नं रमसे सुरत्न।
विदार्य दारिद्रयघनं जनानां सुतेजसा रत्नमहाध्वजेन॥३॥
श्रीपद्म पद्मोत्तम पद्मसत्त्व पद्मान्समस्तान् खलुपद्मजालैः।
विबोध्य पद्मोद्भव पद्मतोयैः पद्मे कुले स्थापयसे सुपद्म॥
४॥
श्रीविश्व विश्वाविश विश्वज्ञानं विश्वेन विश्वविषयेन लिप्त।
विश्वेन सत्त्वान् विनयेषु विश्वं विद्यां सुविद्यां सुखपाचितामिति॥
५॥
श्रीपञ्चतथागतस्तोत्रं समाप्तम्।