परमार्थस्तवः
कथं स्तोष्यामि ते (तं) नाथमनुत्पन्नमनालयम्।
लोकोपमामतिक्रान्तं वाक्पथातीतगोचरम्॥
१॥
तथापि यादृशो वाऽसि तथतार्थेषु गोचरः।
लोकप्रज्ञप्तिमागम्य स्तोष्येऽहं भक्तितो गुरुम्॥
२॥
अनुत्पन्नस्वभावेन उत्पादस्ते न विद्यते।
न गतिर्नागतिर्नाथ अभावाय नमोऽस्तु ते॥
३॥
न भावो नाप्यभावोऽसि नोच्छेदो नापि शाश्वतः।
न नित्यो नाप्यनित्यस्त्वमद्वयाय नमोऽस्तु ते॥
४॥
न ह्येको हरितमाञ्जिष्ठो वर्णस्ते नोपलभ्यते।
न पीतः शुक्लः कृष्णो वा अवर्णाय नमोऽस्तु ते॥
५॥
न महान् नापि ह्रस्वोऽसि न दीर्घः परिमण्डलः।
अप्रमाणगतिं प्राप्तोऽप्रमाणाय नमोऽस्तु ते॥
६॥
न दूरे नापि वासन्ने नाकाशे नापि वा क्षितौ।
न संसारे न निर्वाणे अस्थिताय नमोऽस्तु ते॥
७॥
अस्थितः सर्वधर्मेषु धर्मधातुगतिं गतः।
परां गम्भीरतां प्राप्तो गम्भीराय नमोऽस्तु ते॥
८॥
एवं स्तुते स्तुतो भूयादथवा किं वत स्तुतः।
शून्येषु सर्वधर्मेषु कः स्तुतः केन वा स्तुतः॥
९॥
कस्त्वां शक्नोति संस्तोतुमुत्पादव्ययवर्जितम्।
यस्य नान्तो न मध्यं वा ग्राह्यग्राहो न विद्यते॥
१०॥
न गतं नागतं स्तुत्वा सुगतं गतिवर्जितम्।
तेन पुण्येन लोकोऽयं व्रजतां सौगतीं गतिम्॥
११॥
श्री परमार्थस्तवः समाप्तः।