निरौपम्यस्तवः

निरौपम्यस्तवः निरौपम्य नमस्तुभ्यं निःस्वभावार्थवादिने।
यस्त्वं दृष्टिविपन्नस्य लोकस्यैव हितोद्यतः॥

१॥

न च नाम त्वया किञ्चिद् दृष्टं बौद्धेन चक्षुषा।
अनुत्तरा च ते नाथ दृष्टिस्तत्त्वार्थदर्शिनी॥

२॥

न बोद्धा न च बोद्धव्यमस्तीह परमार्थतः।
अहो परमदुर्बोधां धर्मतां बुद्धवानसि॥

३॥

न त्वयोत्पादितः कश्चिद् धर्मो नापि निरोधितः।
समतादर्शनेनैव प्राप्तं पदमनुत्तमम्॥

४॥

न संसारात्प्रकर्षेण त्वया निर्वाणमीप्सितम्।
शान्तिस्तेऽधिगता नाथ संसारानपराधितः॥

५॥

त्वं विवेदैकरसतां संक्लेशव्यवदानयोः।
धर्मधात्वविनिर्भेदाद् विशुद्धश्चासि सर्वतः॥

६॥

नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो।
कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः॥

७॥

न तेऽस्ति सक्तिः स्कन्धेषु न धात्वायतनेषु च।
आकाशसमचित्तस्त्वं सर्वधर्मेषु निश्रितः॥

८॥

सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते।
दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः॥

९॥

सुखदुःखात्मनैरात्म्यनित्यानित्यादिषु प्रभो।
इति नानाविकल्पेषु बुद्धिस्तव न सज्जते॥

१०॥

न गतिर्नागतिः काचिद्धर्माणामिति ते मति।
न क्वचिद्राशितः प्रोक्तो धर्मार्थपरमार्थवित्॥

११॥

सर्वत्रानुगतश्चासि न च यातोऽसि कुत्रचित्।
जन्मधर्मशरीराभ्यामचिन्त्यस्त्वं महामुने॥

१२॥

एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत्।
संक्रान्तिनाशाय गतं बुद्धवान् त्वमनिन्दित॥

१३॥

शाश्वतोच्छेदरहितं लक्ष्यलक्षणवर्जितम्।
संसारमवबुद्धस्त्वं स्वप्नमायादिवत् प्रभो॥

१४॥

वासनामूलपर्यन्तक्लेशनद्यो विनिर्जिताः।
क्लेशप्रकृतितश्चैव त्वयामृतमुपार्जितम्॥

१५॥

अलक्षणं त्वया धीरं दृष्टं रूपमरूपवत्।
लक्षणोज्ज्वलगात्रश्च दृश्यसे रूपगोचरे॥

१६॥

न च रूपेण दृष्टेन दृष्ट इत्यभिधीयसे।
धर्मदृष्ट्या सुदृष्टोऽसि धर्मता न च दृश्यते॥

१७॥

शौषीर्यो नास्ति ते कायो मांसास्थिरुधिरो न च।
इन्द्रायुधमिव कायं विना दर्शितवानसि॥

१८॥

नामयो नाशुचिः काये क्षुत्तृष्णासम्भवो न च।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया॥

१९॥

कर्मावरणदोषश्च सर्वथाऽनघ नास्ति ते।
त्वया लोकानुकम्पायै कर्मप्लोतिः प्रदर्शिता॥

२०॥

धर्मधातोरसंभेदाद् यानभेदोऽस्ति न प्रभो।
यानत्रितयमाख्यातं त्वया सत्त्वावतारतः॥

२१॥

नित्यो ध्रुवः शिवः कायस्तव धर्ममयो जिन।
विनेयजनहेतोश्च दर्शिता निर्वृतिस्त्वया॥

२२॥

लोकधातुष्वसंख्येषु त्वद्भक्तैः पुनरीक्षसे।
च्युतिजन्माभिसंबोधिचक्रनिर्वृतिलालसैः॥

२३॥

न तेऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना।
अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते॥

२४॥

इति सुगतमचिन्त्यमप्रमेयं गुणकुसुमैरवकीर्य मया प्राप्तम्।
कुशलमिह भवन्तु तेन सत्त्वाः परमगभीरमुनीन्द्रधर्मभाजनाः॥

२५॥

निरौपम्यस्तवः समाप्तः॥