धर्मधातुस्तवधर्मधातोऽ नमस् तुभ्यंसर्वसत्त्वेष्व् अवस्थित। यस्य ते अपरिज्ञानाद्भ्रमन्ति त्रिभवालये॥
<1>ये एव धातुः संसारेशोध्यमानः स एव तु। शुद्धः स एव निर्वाणेधर्मकायः स एव हि॥
<2>यथा हि क्षीरसम्मिशरंसर्पिमण्डं न दृश्यतेतथा हि क्लेशसम्मिश्रोधर्मधातुर् न दृश्यते॥
<3>यथा विशोधितं क्षीरंघृतद्रव्यं सुनिर्मलम्। तथा विशोधिताः क्लेशाधर्मधातुः सुनिर्मलः॥
<4>यथा दीपो घटस्थो हिन किञ्चिद् अवभासते। तथा क्लेशघटस्थो हिधर्मधातुर् न भासते॥
<5>(१)येन येन हि पार्श्वेनच्छिद्रीभवति तद् घटम्। तेन तेन हि पार्श्वेनरश्मयस् तस्य निर्गताः॥
<6>यदा समाधिवज्रेणभिन्नं भवति तद् घटम्। स तदाकाशपर्यन्तंसमन्ताद् अवभासते॥
<7>धर्मधातुर् न चोत्पन्नोन निरुद्धः कदाचन। सर्वकालम् असङ्क्लिष्टआदिमध्यान्तनिर्मलः॥
<8>यथा वैडुर्यरत्नं हिसर्वकालप्रभास्वरम्। पाषाणकोशे सञ्छन्नम्आभा तस्य न राजते॥
<9>एवं हि क्लेशसञ्छन्नोधर्मधातुः सुनिर्मलः। नासौ भ्राजति संसारेनिर्वाणे तु प्रभास्वरः॥
<10>गोत्रे च सति व्यायामो(२)जातरूपनिदर्शनात्। गोत्रे असति व्यायामःश्रमः केवलम् इष्यते॥
<11>यथा हि तुषसञ्छन्नंन धान्यं तत् फलं मतम्। तथा हि क्लेशसञ्छन्नोनासौ बुद्धेति कल्प्यते॥
<12>यथा हि तुषनिर्मुक्तंतत् फलं प्रतिभासते। तथा हि क्लेशनिर्मुक्तोधर्मकायः प्रभासते॥
<13>उपमा क्रियते लोकेकदल्या नास्ति सारता। फलानि तस्य साराणिभक्ष्यते अमृतोपमा॥
<14>एवं ह्य् असारे संसारेनिर्वृते क्लेशसागरे। (३)फलं तस्यापि बुद्धत्वम्अमृतं सर्वदेहिनाम्॥
<15>एवं हि सर्वबीजेषुसादृश्यां जायते फलम्। बीजैर् विना फलं नास्तिकः प्राज्ञः प्रतिपत्स्यते॥
<16>बीजभूतस् त्व् असौ धातुर्धर्माणाम् आश्रयो मतः। शोध्यमानः क्रमेणैवंबुद्धत्वास्पदम् आवहेत्॥
<17>निर्मालौ चन्द्रसूर्यौ हिआवृतौ पञ्चभिर् मलैः। अभ्रनीहारधूमेनराहुवक्त्ररजादिभिः॥
<18>एवं प्रभास्वरं चित्तम्आवृतं पञ्चभिर् मलैः। कामव्यापादमिद्धेनऔद्धत्यविचिकित्सया॥
<19>(४)अग्निशौचं यथा वस्त्रंमलिनं विविधैर् मलैः। अग्निमध्ये यथा क्षिप्तंमलं दग्धं न वस्त्रता॥
<20>एवं प्रभास्वरं चित्तंमलिनं रागजैर् मलैः। ज्ञानाग्निना मलं दग्धंन दग्धं तत् प्रभास्वरम्॥
<21>शून्यताहारकाः सूत्राये केचिद् भाषिता जिनैः। सर्वैस् तैः क्लेशव्यावृत्तिर्नैव धातोर् विनाशनम्॥
<22>पृथिव्यन्तर्हितं तोयंयथा तिष्ठति निर्मलम्। क्लेशैर् अन्तरितं ज्ञानंतथाभाति सुनिर्मलम्॥
<23>धर्मधातुर् यतो नात्मान च स्त्रीनृनपुंसकः। (५)सर्वग्राहविनिर्मुक्तःकथम् आत्मेति कल्प्यते॥
<24>सर्वे धर्मा ह्य् असंसक्ताःस्त्रीपुंस्त्वं हि न विद्यते। रागान्धविनेयार्थायस्त्रीपुंस्त्वं हि प्रदर्शितम्॥
<25>अनित्यदुःखशून्येतिचित्तनिध्यप्तयस् त्रयः। परमा चित्तनिध्यप्तिर्धर्माणां निःस्वभावता॥
<26>यथा हि गर्भो गर्भिण्यांविद्यते न च दृश्यते। तथा हि क्लेशसञ्छन्नंधर्मतत्त्वं न दृश्यते॥
<27>चतुर्णां हि विकल्पानाम्उत्पत्तिर् भूतभौतिकात्। अहंममविकल्पो हि(६)नामसञ्ज्ञानिमित्तजः॥
<28>प्रणिधानं हि बुद्धानांनिराभासम् अलक्षणम्। प्रत्यामवेद्ययोगित्वाद्बुद्धानां नित्यधर्मता॥
<29>यथा शशविषाणां हिकल्प्यमानं न विद्यते। तथा हि सर्वधर्मेषुकल्पितं नैव विद्यते॥
<30>परमाणुरजः किन्तुगोविषानं न विद्यते। यथा पूर्वं तथा पश्चात्तस्य किं कल्प्यते बुद्धैः॥
<31>प्रतीत्योपद्यते चैवप्रतीत्य च निरुध्यते। एकस्य सम्भवो नास्तिकथं बालैर् विकल्प्यते॥
<32>(७)शशगोशृङ्गदृष्टानतम्उभौ कल्पितलक्षणौ। मध्यमा प्रतिपद्येतयथा सुगतधर्मता॥
<33>यथा चन्द्रार्कताराणांस्वच्छ उदकभाजने। दृश्यते प्रतिबिम्बं हितथा निष्पन्नलक्षणम्॥
<34>आधिमध्यान्तकल्याणम्अविसंवादकं ध्रुवम्। यस्य चैवंविधानात्माकथम् आत्मेति कल्प्यते॥
<35>ग्रीष्मकाले यथा वारिउष्णम् इत्य् अभिधीयते। तद् एव शीतकालेषुशीतम् इत्य् अभिधीयते॥
<36>आवृतं क्लेशजालेनचित्तम् इत्य् अभिधीयते। (८)तद् एव क्लेशापगमाद्बुद्ध इत्य् अभिधीयते॥
<37>चक्षुः प्रतीत्य रूपं चअवभासाः सुनिर्मलाः। अनुत्पन्नानिरुद्धास् तेधर्मधातुं प्रजानथ॥
<38>श्रोत्रम् प्रतीत्य शब्दं चचित्तं विज्ञप्तयस् त्रयः। श्रूयते स्वविकल्पेनधर्मधातुर् अलक्षणः॥
<39>घ्राणं गन्धाश्रितं घ्राणिअरूपम् अनिदर्शनम्। घ्राणविज्ञानतथाताधर्मधातुर् विकल्प्यते॥
<40>जिह्वा स्वभावशून्या हिरसधातुर् विविक्तता। (९)अप्रतिष्ठितविज्ञानंधर्मधातुस्वभावता॥
<41>शुद्धकायस्वभावेनस्पर्शप्रत्ययलक्षणम्। प्रत्ययेभ्यो विनिर्मुक्तंधर्मधातुं वदाम्य् अहम्॥
<42>मनः प्रधानधर्मेषुकल्प्यकल्पनवर्जितम्। धर्माणां निःस्वभावत्वंधर्मधातुर् विभाव्यते॥
<43>पश्यते शृणुते घ्रातिस्वादते स्पृशतीति च। धर्मान् विजानते योगीएवं निष्पन्नलक्षणम्॥
<44>चक्षुः श्रोत्रं च घ्राणं चजिह्वा कायो मनस् तथा। षडायतनं विशुद्धम्एतत् तत्त्वस्य लक्षणम्॥
<45>(१०)चित्तम् एव द्विधा दृष्टंलोकि लोकोत्तरं च यत्। आत्मग्राहेण संसारःप्रत्यात्म तथाता हि तत्॥
<46>रागक्षयो हि निर्वाणंद्वेषमोहक्षयश् च यत्। तस्य बोधाय बुद्धत्वंशरणं सर्वदेहिनाम्॥
<47>अस्मिं कलेवरे सर्वंज्ञानम् अज्ञानम् एव च। बध्यते स्वविकल्पेनमुच्यते स्वपरिज्ञया॥
<48>बोधिर् न दूरे नासन्नेन गता नापि वागता। न दृश्यते दृश्यते चैव(११)अत्रैव क्लेशपञ्जरे॥
<49>उक्तं च सूत्रवर्गेषुविहरत्य् आत्मचिन्तकः। प्रज्ञादीपविहारेणपरमां शान्तिम् आगतः॥
<50>न बोधेर् दूरं सञ्ज्ञी स्यान्न सासन्ना च सञ्ज्ञिनः। षण्णां हि विषयाभासोयथाभूतं परिज्ञाया॥
<51>यथादकेन सम्मिश्रंक्षीरम् एकत्र भाजने। क्षीरं पिबन्ति हंसा हिउदकं च तथा स्थितम्॥
<52>एवं हि क्लेशसम्मिश्रंज्ञानम् एकत्र भाजने। पिबन्ति योगिनो ज्ञानम्अज्ञानं स्फोरयन्ति ते॥
<53>अहं ममेति वा ग्राहोयावद् बाह्यो विकल्प्यते। दृष्टे विषयनैरात्म्ये(१२)भवबीजं निरुध्यते॥
<54>बुद्धो हि परिनिर्वातिशुचिर् नित्यशुभालयः। कल्पयन्ति द्वयं बालाअद्वयं योगिनां पदम्॥
<55>दुष्करैर् विविधैर् दानैःशीलैः सत्त्वार्थसङ्ग्रहैः। सत्त्वोपकारक्षान्त्या चधातुपुष्टिर् इयं त्रिधा॥
<56>वीर्यं च सर्वधर्मेषुध्याने चित्तं प्रचारितम्। प्रज्ञायाम् अचलं नित्यंबोधिपुष्टिर् इयं पुनः॥
<57>उपायसहिता प्रज्ञाप्रणिधानैर् विशोधिता। बलेषु सुष्ठितं ज्ञानंधातुपुष्टिश् चतुर्विधा॥
<58>मा भोधिसत्त्वान् तु वन्देति(१३)अतिदुर्भाषितं कृतम्। बोधिसत्त्वम् अजीवं तु———- <59>—————————————- <60>———-सन्निधायात्र चिन्तयेत्। गुडशर्करखण्डानाम्उत्पत्तिस् तत्र जायते॥
<61>रक्षिते बोधिचित्ते हिसन्निधायात्र चिन्तयेत्। अर्हत्प्रत्येकबुद्धानाम्उत्पत्तिस् तत्र जायते॥
<62>यथा शाल्याङ्कुरादीनांरक्षां कुर्वन्ति कार्षिकाः। तथाश्रयाधिमुक्तानां(१४)रक्षां कुर्वन्ति नायकाः॥
<63>यथा कृष्णचतुर्दश्यांदृश्यते चन्द्रविग्रहम्। तथाग्रयानाधिमुक्तानांदृश्यते बुद्धविग्रहम्। <64>यथैव बालचन्द्रस्यदृष्टा वृद्धिः क्षणे क्षणे। तथा भूमिप्रविष्टानांदृष्टा वृद्धिः क्षणे क्षणे॥
<65>यथा हि पञ्चदश्यां वैपूर्णचन्द्रो हि जायते। तथा निष्ठागताभूम्यांधर्मकायो हि जायते॥
<66>अधिमुक्तिदृढं यस्यबुद्धे धर्मे च नित्यशः। उत्पादयति तच् चित्तम्अनिवर्त्यम् भवे भवे॥
<67>कृष्णाश्रयपरावृत्तिःशुक्लाश्रयपरिग्रहः। (१५)तदा तस्यावबोधेनमुदितेत्य् अभिधीयते॥
<68>मलिमं नित्यकालं हिरागाद्यैर् विविधैर् मलैः। मलाभावे च या शुद्धिःविमलेत्य् अभिधीयते॥
<69>निरोधात् क्लेशजालस्यप्रभाभ्राजविनिर्मला। अप्रमाणान्धकारस्यविगता तु प्रभाकरी॥
<70>शुद्धा प्रभास्वरा नित्यंसङ्गजैः परिवर्जिता। ज्ञानार्चिषैः परिवृताभूमिर् अर्चिष्मती मता॥
<71>सर्वविद्याकलाशिल्प-ध्यानानां च विचित्रता। दुर्जयानां हि क्लेशानांविजया तु सुदुर्जया॥
<72>तिसृणाम् अपि बोधीनांसङ्ग्रहः सर्वसम्पदाम्। उत्पादव्ययगम्भीराभूमिस् त्व् अभिमुखीभूता॥
<73>(१६)क्रीडते रश्मिजालेनचक्रव्यूहैः समन्ततः। त्रिलोकात् तीर्णपङ्कौघैर्दूरङ्गमा इति स्मृता॥
<74>बुद्धैः सन्ध्रियमाणोऽसौप्रविष्टो ज्ञानसागरे। अनाभोगवशिप्राप्तःअकम्प्या मारकिङ्करैः॥
<75>प्रतिसंवित्सु सर्वासुस योगी पारमीगतः। धर्मदेशन साङ्कथ्यैर्भूमिः साधुमती स्मृता॥
<76>कायं ज्ञानमयं राम्यम्आकाशम् इव निर्मलम्। सन्धारयति बुद्धानांधर्ममेघा समन्ततः। <77>आश्रयः सर्वधर्माणां(१७)चर्याफलपरिग्रहः। आश्रयस्य परावृत्तिर्धर्मकायोऽभिधीयते॥
<78>अचिन्त्यो वासनाद् मुक्तश्चिन्त्यः संसारवासनः। त्वम् अचिन्त्योऽसि सर्वेषांकस् त्वा विज्ञातुम् अर्हति॥
<79>सर्ववाग्विषयातीतंसर्वेन्द्रियम् अगोचरम्। मनोविज्ञानगम्योऽसियोऽसि योऽसि नमोऽस्तु ते॥
<80>क्रमेण समुदानीताबुद्धपुत्रा महायशाः। धर्ममेघेन ज्ञानेनशून्यं पश्यन्ति धर्मताम्॥
<81>यदा प्रक्षालितं चित्तम्उत्तीर्णं भवसागरात्। (१८)महापद्ममयं तस्यआसनं सम्प्रतिष्ठति॥
<82>अनेकरत्नपत्त्राभंलक्षणोज्ज्वलकल्पिकम्। अनेकैः पद्मकोटीभिःसमन्तात् परिवारितम्॥
<83>दशभिश् च बलैर् बालस्तिष्ठते बालचन्द्रवत्। क्लेशैर् मलिनसत्त्वानांन पश्यति तथागतम्॥
<84>यदा प्रेताः समन्तात् तुशुष्कं पश्यन्ति सागरम्। तथैवाज्ञानदग्धानांबुद्धो नास्तीति कल्पना। <85>सत्त्वानाम् अल्पपुण्यानांभगवान् किं करिष्यति। जात्य ………(१९)