धर्मधातुनामस्तवः
वं कारं वज्रसत्त्वं च वज्रासनसदास्थितम्।
वारुणमण्डलव्यापि वैरोचन नमोऽस्तु ते॥
१॥
अकारमादिस्वभावमाकाशे व्यापितं तथा।
अर्कनीलसमस्तेज अक्षोभ्यश्री नमोऽस्तु ते॥
२॥
रकारं लक्ष्मीस्वभावं नानारत्नमनेकधा रं व्यापितं च पृथ्वीं रत्नसंभव नमोऽस्तु ते॥
३॥
अकारमस्थिरं भावं पद्मनागसमप्रभम्।
अग्नितेजःसमाधिस्थं अमिताभ नमोऽस्तु ते॥
४॥
अकारं तत्स्वभावं च गन्धवाहसमप्रभम्।
अकारविश्ववज्रं च अमोधसिद्धि नमोऽस्तु ते॥
५॥
धकारं धर्मस्वभावं धर्मसंघस्वरूपकम्।
धात्वष्टकं कीर्तितं च धर्मधातु नमोऽस्तु ते॥
६॥
सकारं सर्वसम्पत्तिः सर्वमङ्गलमर्थनम्।
सर्वसिद्धिस्त्वमेवाथ सिद्धिवज्र नमोऽस्तु ते॥
७॥
श्री धर्मधातुनामस्तवः समाप्तः।