देशनास्तव

देशनास्तव नमो बुद्धाय॥

सर्वदोषरहितं गुणाकरं त्वाम् उपेत्य शरणं जगद्गुरुम्।
वैद्यराजम् असमं सदातुरो देशयामि निजदोषविक्रियाम्॥१॥

स्रोतसीव सरितः सुदुस्तरे दुर्वितर्कितविचारितोर्मिणि।
क्लेशनक्रमाकरौघसंकुले स्वे ऽपि चेतसि न शान्तिर् अस्ति मे॥२॥

रागवारिधिमहोर्मिसंकुले संश्रयेयम् अशुभाप्लवं यदि।
शुष्ककक्षम् इव तत्र निर्दहन् द्वेषवह्निर् उपहन्ति मे मनः॥३॥

द्वेषवह्निपरितापशान्तये भावयामि यदि मैत्रचित्तताम्।
तत्र सर्वजनसौख्यलालितं स्नेहपङ्कम् अवगाहते मनः॥४॥

स्नेहपङ्कमलिनं विशुद्धये क्षालयानि तद् उपेक्षया यदि।
तत्र सर्वजगदर्तिहारिणी लोकनाथ करुणापि हीयते॥५॥

भावयामि करुणां यदि प्रभो खेद एव मम जायते महान्।
शान्तये ऽस्य मुदितां भजामि चेद् उद्धतं भवति चञ्चलं मनः॥६॥

(1) संविजे यदि मुदः प्रशान्तये तत्र चित्तम् अलसं विसीदति।
उद्यमेन यदि नीतम् उन्नतिं गोचरीभवति मानवैरिणः॥७॥

तस्य शात्रुर् इव सर्वशून्यता तत्र शाम्यति परार्थम् आदरः।
संवृतिं यदि परार्थम् आददे तत्र भास्यति मनो धनाशया॥८॥

अल्पितं च विभवार्जने मनः सर्वदोषमदिरां च पायितम्।
मोहितं च मदमोहनिद्रया सर्वम् एव च हतं समीहितम्॥९॥

दातुम् इच्छति मनो यदापि मे मत्सरेण बलिनातिभूयते।
तं विधूय यदि नाम दीयते दीर्घरात्रम् अनुतप्यते तदा॥१०॥

श्रद्धया यदि पुनः प्रसादितं तत्फले पतति पारलौकिके।
निःस्पृहीकृतम् अनित्यसंज्ञया निर्निमित्तम् अलसं विषीदति॥११॥

बन्धुभूतम् अपि सर्वजन्मसु प्रेक्ष्य लोकम् अतिदुःखपीडितम्।
नाथ यद्य् अपि परार्थम् ईहते ग्रस्यते विवशम् आत्मसंज्ञया॥१२॥

आत्मदृष्टिम् अनुयात्य् अहंकृतिः सा ममेति कुरुते परिग्रहम्।
तत्र मानमदमन्मथादयः पीडयन्ति कुपिता इवारयः॥१३॥

(2) क्लेशजालम् अभितः समुद्यतं मारसैन्यम् इव भैरवं तदा।
कृष्णपक्षरजनी विजृम्भते कालरात्रिर् इव दारुणा तदा॥१४॥

वेद्मि पापम् अनुतापदुःसहं दुःखजन्मपरिणामदारुणम्।
व्याचरामि च तथापि तत् स्वयं किं नु कष्टतरम् अस्त्य् अतो ऽधिकम्॥१५॥

वारितं यदि परापकारतो मानसं विविधदुःखहेतुकम्।
क्षोभ्यते तद् असिपत्त्रनिष्ठुरैर् दुर्जनैर् अनपकारवैरिभिः॥१६॥

क्षन्तुम् इच्छति मनो यदापि मे नह्यते तदुपनाहबन्धनैः।
तन् निरोधपरिपिण्डितोद्धतं द्वेषवह्निपरिशोषनिष्ठुरम्॥१७॥

चण्डदृष्टिविषजुष्टकोटरं वर्जयन्ति विहगास् तरुं यथा।
गोपितं प्रतिघविक्रियं तथा वर्जयन्ति कुशला ममाशयम्॥१८॥

अश्मनीव रविरश्मितापिते भस्मनीव परिशोषधूषरे।
वर्त्मनीव सिकताभ्रसंकुले धर्मवृष्टिर् अफला ममाशये॥१९॥

आत्मदुःखम् अविचिन्त्य दारुणं मद्धितार्थम् इव यः समुद्यतः।
क्षान्तिदानपरमोपकारिणं लोकनाथ न सहे तम् अप्य् अहम्॥२०॥

(3) विद्विषन्न् अपि च विद्रवन्न् अपि प्रस्फुरन्न् अपि च पीडयन्न् अपि शिक्षयत्य् अविरतं स तादृशो मादृशं न च गुरुर् विभाति मे॥२१॥

प्रार्थनीयम् अधिगम्य दुर्लभं क्षान्तिलाभपरमं महोत्सवम्।
क्षान्तिशील यदि नाम न क्षमे क्षान्तिहेतुर् अपरो ऽस्ति को मम॥२२॥

क्लेशराक्षसगृहीतम् आकुलं सज्वरं स्वहितम् अप्य् अनादृतम्।
वीक्ष्य लोकम् अवलोकनाक्षमं द्वेष एव करुणा न मे प्रभो॥२३॥

आत्म कर्मफलभाजनं जनं वेद्मि सर्वम् अवशं विनश्वरम्।
कल्पयामि च परं कृतागसं पश्य मोहतिमिरस्य जृम्भितम्॥२४॥

दोषवारिधिर् अहं न च क्षमे दोषलेशम् अपि नाथ कस्यचित्।
क्षन्तुम् अन्यगुणसम्पदो ऽपि यन् नोत्सहे तद् इदम् अद्भुतं परम्॥

२५॥

प्रावृषीव परितः समुद्यताः क्लेशमेघनिवहा मुहुर्मुहुः।
कुर्वते मनसि मे समागमं त्यक्तलज्जम् अलसं धिग् अम्भसाम्॥२६॥

उत्सहे यदि विजेतुम् ओजसा क्लेशजालम् उदितं समाधिना।
स्त्यानमिद्धतिमिरं विजृम्भते वर्धते च शयनासनस्पृहा॥२७॥

(4) रागपाशविवशीकृतं मनो द्वेषदग्धम् अभिमानखण्डितम्।
सर्वदोषशरशक्तितोमरैश् चर्यमाणम् अभितो विमुह्यति॥२८॥

लब्धसंज्ञम् उपनह्य तिष्ठति त्रस्यति प्रतिहतं विषीदति।
मायया शठतया च वञ्चितं विक्लवं भ्रमति मारगोचरे॥२९॥

यद् यद् एव शमथावलम्बनं तत्र तत्र मुहुर् अर्पितं मनः।
क्लेशपाशविवशं ततस् ततः कृष्यते विषयलोभरज्जुभिः॥३०॥

वीर्यम् उद्वहति जातम् उद्धतं तत् परित्यजति जायते लयः।
दुर्लभास्य समयुक्तियुक्तता किं करोतु मम चित्तम् आकुलम्॥३१॥

प्रज्ञया चरति जातम् उद्धतं धारणां भजति जायते लयः।
दुर्लभास्य युगनद्धवाहिता किं करोतु मम चित्तम् आकुलम्॥३२॥

यत्नतो वहति जातम् उद्धतं तन् मृदू भवति जायते लयः।
दुर्लभा प्रतिपद् अस्य मध्यमा किं करोतु मम चित्तम् आकुलम्॥३३॥

दह्यमानम् अपि दोषकाननं ध्यानदावदहनैर् मुहुर्मुहुः।
आत्मदृष्टिदृढमूलम् अर्पितं प्रावृषीव परितः प्ररोहति॥३४॥

(5) क्लेशकर्मफलमात्रसंततिं पश्यतो यद् अपि सा निर्वर्तते।
चित्तसंततिर् अपि प्रहीयते दूर एव जगदर्थम् उद्यमः॥३५॥

स्नेहमात्ररहितस्य योगिनः सर्वसत्त्वनिरपेक्षगामिनः।
चित्तसंततिर् उपैति निर्वृतिं दीपसंततिर् इवोपधिक्षयात्॥३६॥

बोधिचित्तम् अमृतं रसायनं यच् च सर्वजगदर्तिनाशनम्।
बोधिहेतुर् अविकल्पभावितं तत्र धावति विकल्प एव मे॥३७॥

स्वप्नरूपम् इव नैव गृह्यते केन चिज् जगति किं चिद् इत्य् अपि।
भावयन्न् अपि चरामि गोचरे बोध्यबोधकविकल्पविद्विषः॥३८॥

देहि दृष्टिम् अमलां मयि प्रभो पश्य वैशसम् इदं सुदारुणम्।
यत्र यत्र मम सारकल्पना तत् तद् एव पुरतो विशीर्यते॥३९॥

किं करोतु भगवान् इहाथवा पूर्वजन्मकृतदोष एव मे।
सर्वलोकतिमिरापहो रविर् नान्ध्यम् अन्धतमसाम् अपोहति॥४०॥

दीर्घकालिकनिदानसेविनस् तत्र चाविरतमूढचेतसः।
मीतपाणिचरणस्य कुष्ठिनः किं करोतु सकृद् ओषधं कृतं॥४१॥

(6) क्लेशतिक्तरससेकवासितं चित्तपादपम् अनादिकालिकम्।
स्वादुभावम् उपनेतुम् अक्षमाः किं भवन्तु गुणवारिबिन्दवः॥४२॥

सर्वदोषमयम् एव मे मनो बोधिहेमरसभूतम् अद्भुतम्।
तत् तद् एव गुणजातम् अर्पितं दोषभावम् उपनीय तिष्ठति॥४३॥

यद् यद् एव कथितं महौषधं तत् तद् एव मयि जायते विषम्।
युक्तिर् एव हि परं रसायनं सा च नास्ति यदि नास्ति निर्वृतिः॥४४॥

या तु निर्दहति दोषपूरणं नापि दोषम् अपरं प्रकुप्यते।
सा च युक्तिर् इति बुद्धिर् अस्ति मे कीदृशीति न पुनर् विनिश्चयः॥४५॥

आशयानुशयधातुवासनां दोषहेतुविपरीतयोजिताम्।
ध्यायतां तदुपदेशभावनां शान्तिर् अत्र नाचिराद् भविष्यति॥४६॥

सर्वदोषरहितस्य तायिनः सर्वधर्मपरमार्थवेदिनः।
चित्ररूपम् अपि ते निरूपितं सर्वदोषकलुषं व्यपोहति॥४७॥

तत् पुनस् तव पुरः स्थितं वपुः पश्यतां रुचिरलक्षणोज्ज्वलम्।
श्रोत्रपेयम् अमृतं च शृण्वतां क्लेशजालम् अखिलं विशीर्यते॥४८॥

(7) यत् पुनः परतरो ऽपि ते विभो धर्मकायसविता निरुत्तरः।
चिन्तितो ऽपि जगताम् अनुद्भवो हन्ति चैव तिमिरं तद् अद्भुतम्॥४९॥

यत्र तत्र शमथे व्यवस्थितो येन तेन परमेण चेतसा।
सर्वलोकसुखदो यथा तथा यो ऽसि सो ऽसि भगवन् नमो ऽस्तु ते॥

५० सर्वदोषमलिनात्मना मया सर्वदोषरहितस्य ते पुरः।
देशितः स्वकलुषो ऽघसंचयस् त्वं जगद्गुरुर् अतः परं प्रभुः॥५१॥

पुण्यम् अत्र यद् उपार्जितं मया तेन मारविजयश्रिया युताः।
भावनामयम् उपेत्य सत्पथं बुद्धबोधिम् उपयान्तु देहिनः॥५२॥

देशनास्तवः समाप्तः॥

कृतिर् इयं चन्द्रगोमिपादानाम् इति॥

(8)