वाग्वाणीस्तोत्रम्

वाग्वाणीस्तोत्रम् सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम्।
कण्ठस्थां पद्मयोनिं च ह्रींकारसुप्रियां सदा॥

१॥

मतिदां वरदां चैव सर्वकामप्रदायिनीम्।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम्॥

२॥

ऐं ह्रीं मन्त्रप्रियां चैव कुमतिध्वंसकारिणीम्।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम्॥

३॥

मोक्षप्रदां सुनित्यां सुवरदां शोधनप्रियाम्।
आदित्यमण्डले लीनां प्रणमामि जिनप्रियाम्॥

४॥

ज्ञानाकारां जगद्दीपां भक्तपाशविनाशिनीम्।
इति सम्यक् स्तुता देवी वागीशेन महात्मना॥

५॥

आत्मानं दर्शयामास शरदिन्दुसमप्रभा।
सरस्वत्युवाच वरं वृणीष्व भदन्त यत्ते मनसि वर्तते॥

६॥

बृहस्पतिरुवाच प्रसन्ना यदि मे देवी दिव्यं ज्ञानं प्रदीयताम्।
सरस्वत्युवाच स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः॥

७॥

लभन्ते परमं ज्ञानं मम तुल्यपराक्रमम्।
कवित्वं मत्प्रसादेन तथा च विपुलं यशः॥

८॥

त्रिसन्ध्यं प्रयतो भूत्वा यः स्तोत्रं पठते नरः।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥

९॥

ॐ ऐं वाग्वादिनि मम जिह्वायां एं ह्रीं मन्त्रसरस्वति स्वाहा।
बृहस्पतिकृतं श्रीवाग्वाणीस्तोत्रं समाप्तम्।