रक्षाकाल (कर) स्तवः
ॐ नमो लोकनाथाय
मया कृतानि पापानि कायवाकचित्तसंचयैः।
तत्सर्वं हर मे नाथ रक्ष मां लोकनायक॥
१॥
नेपाले द्वादशाब्देषु अनावृष्टिर्महाभयम्।
नरेन्द्रदेवं संस्थाप्य रक्ष मां लोकनायक॥
२॥
मर्त्यभूमौ च पाताले दुःखिनो बहुलौकिकाः।
सुखवृद्धिकरस्तेषां रक्ष मां लोकनायक॥
३॥
यत्र यत्र गतस्तत्र सर्वसत्त्वानुकम्पया।
समुद्धरसि पापेभ्यो रक्ष मां लोकनायक॥
४॥
संसारे व्यापितोऽहं तु कथं पारं प्रयास्यते।
त्वमेव शरणं तत्र रक्ष मां लोकनायक॥
५॥
सर्वदेवमयस्त्वं हि सर्वबुद्धमयस्तथा।
सर्वसिद्धिमयश्चैव रक्ष मां लोकनायक॥
६॥
सदा कृपामयस्त्वं हि सदा रक्षामयोऽसि च।
सदा प्रज्ञामयस्त्वं हि रक्ष मां लोकनायक॥
७॥
येन येन कृतं कर्म तेन तेनैव धारितम्।
यद्यदिच्छां प्रदातासि रक्ष मां लोकनायक॥
८॥
सुखावतीं न संप्राप्तं यावद्धि सर्वसत्त्वकम्।
तावत्संसारगर्तेऽस्मिन् रक्ष मां लोकनायक॥
९॥
ज्ञानिनां ज्ञानरूपोऽसि दुःखिनां दुःखहारकः।
कामिनां कामरूपोऽसि रक्ष मां लोकनायक॥
१०॥
पूजनीयोऽसि लोकेश प्रणवस्य स्वरूपधृक्।
वन्दनीयः सदा त्वं हि रक्ष मां लोकनायक॥
११॥
भर्ति वा भर्तिको वापि मित्रं वा शत्रुकोऽपि वा।
सर्वत्र च दयायुक्तो रक्ष मां लोकनायक॥
१२॥
लोकनाथ जगत्स्वामिन् सुभक्तिकृतचेतसा।
त्वां नमामि पुनर्भूयो रक्ष मां लोकनायक॥
१३॥
अनेकदुःखभागस्मि भीष्मैर्वै कष्टसंकटैः।
दयस्व चावलोकेश मोचयस्व च मां क्षणात्॥
१४॥
सर्वदेक्षासुसम्पातं वर्तयन् कुरु मेऽक्षयम्।
अस्तु ते करुणा मह्यं भक्तिं चैवाचलां कुरु॥
१५॥
श्रीमदार्यावलोकितेश्वरभट्टारकस्य रक्षाकाल(कर)स्तवः समाप्तः॥