नरकोद्धारस्तोत्रम्
दारिद्रयपङ्कसंमग्नं संसाराख्यमहोदधौ।
प्रतिज्ञातं समुत्पादे त्राहि मां हि तथागत॥
१॥
तिमिरागारसंविष्टमनर्थदुःखवेदिनम्।
बन्धुवर्गैः परित्यक्तं त्राहि मां हि तथागत॥
२॥
मातापितृभगिन्यादि पुत्रदारसुहृज्जनाः।
इन्द्रजालसमा दृष्टास्त्राहि मां हि तथागत॥
३॥
मया अरिजनस्यार्थे सुकृतं कर्म दुष्कृतम्।
एकाकी तं हि भोक्ष्यामि त्राहि मां हि तथागत॥
४॥
जीर्णकूपे महाघोरे अनवगाहसागरे।
अन्धीभूतोऽस्म्यहं नाथ त्राहि मां हि तथागत॥
५॥
जीर्णनौकासमारूढो महासागरलंघने।
दुर्लङ्घ्यं च मया दृष्टं त्राहि मां हि तथागत॥
६॥
धर्माधर्म न विज्ञातं गम्यागम्यं न वेदितम्।
अचेतनोऽस्म्यहं नाथ त्राहि मां हि तथागत॥
७॥
मातृघातादिकं पञ्चानन्तर्यं वा मया कृतम्।
पच्यामि नरके घोरे त्राहि मां हि तथागत॥
८॥
कृतं मया स्तूपभेदं संघकार्यं विनाशितम्।
कृता मया सत्त्वहिंसा त्राहि मां हि तथागत॥
९॥
इहलोके सुखैर्हीनं परलोके न वेदनम्।
वेष्टितं कर्मसूत्रेण त्राहि मां हि तथागत॥
१०॥
काशपुष्पं यथाऽऽकाशे भ्रमते वायुना हतम्।
ईदृशं जीवितं लोके त्राहि मां हि तथागत॥
११॥
अटवी कंटकाच्छन्ना बहुवृक्षसमाकुला।
पन्थानं नात्र पश्यामि त्राहि मां हि तथागत॥
१२॥
अनपराधाः कुपितेन मयाऽकाण्डे हता मृगाः।
राजहत्यां तदा मन्ये त्राहि मां हि तथागत॥
१३॥
नरके पच्यमानस्य कश्चित् त्राता भविष्यति।
गच्छामि शरणं कस्य त्राहि मां हि तथागत॥
१४॥
वैद्यानां वैद्यराजस्त्वं सर्वव्याधिचिकित्सकः।
लोकनाथ भवत्राता त्रैलोक्ये सचराचरे॥
१५॥
नरकोद्धारस्तोत्रं समाप्तम्।