लोकनाथस्तोत्रम्

लोकनाथस्तोत्रम् कल्पादिके भवसि को हि ममागभाव सर्वस्वसार करुणामय विश्वमूर्ते।
कार्यादिके प्रणमतीति समन्तकं त्वां श्रीलोकनाथ तव पादयुगं नमेऽहम्॥

१॥

आकृष्णकेन रजसा विनिवर्तमान- श्चायासि सौम्य सकलः प्रतिवासरे च।
हेमस्वरूपरथकेन समुज्ज्वलेन श्रीलोकनाथ तव पादयुगं नमेऽहम्॥

२॥

ब्रह्मा त्वमेव हि स विप्रकुलप्रसिद्धो विष्णुश्च वैष्णवमते वरधर्मकेतुः।
सर्वज्ञकोऽसि विमते प्रभवोऽव्ययश्च श्रीलोकनाथ तव पादयुगं नमेऽहम्॥

३॥

बौद्धान्वये भवसि वज्रकसूर्यरूपो योगेश्वरो हि शुभयोगकमार्गकेषु।
गङ्गाधरो भवभयस्य विनाशकारि श्रीलोकनाथ तव पादयुगं नमेऽहम्॥

४॥

कारुण्यभावहृदयः सहजः सरोचि- र्विच्छिन्नकल्मषचयो गुणसागरश्च।
चिन्तामणिस्त्वमसि लोकगुरुः कृपेश श्रीलोकनाथ तव पादयुगं नमेऽहम्॥

५॥

बन्धूकवर्ण बहुरूप विशालनेत्र सर्वप्रसूतिकृतनिष्कृतिकः सुदन्त।
त्वं पद्मपाणि विमलोत्तम मित्ररूपः श्रीलोकनाथ तव पादयुगं नमेऽहम् ॥

६॥

तव बहुलचरित्रं कः समर्थोऽस्ति वक्तुं तदपि मुखरभावैः स्तूयसे त्वं मयात्र।
यदपि पदमशुद्धं सर्वमेतत् क्षमस्व स्तुतिरिति कुसुमस्रक् भक्तिमात्रार्चनं स्यात्॥

७॥

श्रीमदार्यावलोकितेश्वरभट्टारकस्य स्तोत्रं समाप्तम्।