(आर्य)तारास्तुतिः

(आर्य)तारास्तुतिः आचार्य चन्द्रदासकृता नमस्तारायै सुखदचक्रचारुचूडामणिरुचिरमरीचिसंचय- प्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके।
जगति चराचरेऽपि साचीकृतचकितकृपालुलोचने स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते॥

१॥

नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः।
विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम्॥

२॥

मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः स्खलदलिजालबहलकोलाहललितविलासलासिनः।
विचलितकर्णतालपवनाहतललितविलेपधूलयः पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः॥

३॥

मारुतघातजातरभसोच्छलदनलशिखाकदम्बक- प्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः।
उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः॥

४॥

चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिनः सपदि पुरो नरस्य तारेति मनागपि नामधारिणः।
स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुट- स्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति॥

५॥

क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मल- व्यतिकरकरकरवालविकरालमहाबलभुजार्गलः।
प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो भगवति भक्तिवन्तुमुपसर्पति तव न वनेऽपि तस्करः॥

६॥

योऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रहो ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः।
प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलि- स्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः॥

७॥

कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिला- स्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात्।
सरभसमकरनिकरखरनखरसुदुस्तरतोऽपि सागरात् तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि॥

८॥

सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा।
यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला॥

९॥

यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः संकटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः।
यदि तव नामकं हृदि करोति हि राक्षसैककः प्रौढवधूविधूतचामीकरखचितविचित्रचामरम्॥

१०॥

श्रीचन्द्रदासविरचिताऽर्यतारास्तुतिः समाप्ता।