द्वादशकारनयस्तोत्रम्नमः शाक्यमुनये बुद्धाय(1)उपायकौशल्यकृपालुशाक्य-वंश्यं हतान्याहतमारसेनम्। सुवर्णमेरूपमचारुकाय-मेनं हि शाक्याधिपतिं नमामि॥
आदौ समुत्पादितबोधिचित्तोयो ज्ञानपुण्योभयसंभृतः सन्। उदारलीलाभिरिहाद्य कालेजातं जगन्नाथमहं स्तवीमि॥१॥
(2)देवान् विनाय्याथ विनीतकालंज्ञात्वाऽवतीर्यापि च देवलोकात्। कुक्षिं विशन्तं गजवद् हि माया-देव्या विलोक्यैव कुलं नमामि॥२॥
(3)जनिं भजन्तं खलु लुम्बिनीवनेशाक्यात्मजं वै दशमासपूर्तौ। ब्रह्मेन्द्रवन्द्यं वरलक्षणं चबोधेः कुले तं नियतं नमामि॥३॥
नृसिंहमङ्गे मगधे च शिल्पंप्रदर्शयन्तं बलिनं कुमारम्। निगृह्य चाहंकृतिनः समस्तान्अतुल्यकर्मान्तकरं नमामि॥४॥
(4)धर्मानुवृत्त्यै जगतो ह्यवद्य-हान्यायुपाये कुशलत्वपूर्वम्। अन्तःपुरे यः कृतसंनिवासःतं राज्यरक्षाप्रवणं नमामि॥५॥
निःसारतां सांसृतिकीं विलोक्यत्यक्त्वा गृहं व्योमपथेन गत्वा। प्रव्राजयन्तं निजमात्मना तंविशुद्धचैत्याभिमुखं नमामि॥६॥
(5)मत्वोद्यमेनैव हि बोधिसिद्धिंवर्षाणि षड् दुष्करचारिणं तम्। नैरञ्जनान्ते खलु वीर्यपारंध्यानोत्तमप्राप्तमहं नमामि॥७॥
अनादिकं सार्थयितुं प्रयासम्,बोधिद्रुमान्मागधिकाद् अधस्तात्। पर्यङ्कबद्धं ह्यचलाभिबोधिम्सम्बोधिसम्प्राप्तिकरं नमामि॥८॥
(6)शीघ्रं जगत् कारुणिकोऽवलोक्यवाराणसीत्यादिवरस्थलेषु। विनेयकान् वर्तितधर्मचक्रंप्रवेशयन्तं त्रिनये नमामि॥९॥
षट् तीर्थ्यशास्तॄनथ निग्रिहीतुंयो देवदत्ताद्यपरान् कुदृष्टीन्। वाराणसीयेऽदमयद् हि मारं,मुनिं जयन्तं समरे नमामि॥१०॥
(7)गुणैः प्रदर्श्य त्रिभवेऽतुलार्हंश्रावस्तिके प्रातिहार्यम् महद् यः। सुपूजितो देवमनुष्ययोनिभिः। तं शासनस्यर्द्धिकरं नमामि॥११॥
कुसीदिनः प्रेरयितुं सुशीघ्रं,प्रवित्रकौशीनगरीयभूमौ। त्यक्त्वामरं वज्रसमानकायंनमामि यातं परिनिर्वृतिं तम्॥१२॥
(8)सम्यक्तया सन्तमपि ह्यमर्त्यं,पुण्यं लभेरन्निति भाविसत्त्वाः। विकृत्य तत्कालमनेकधातून्अष्टांशधातून् ददतं नमामि॥१३॥
एवं प्रकारैर्भगवत् प्रशास्तृ-लीलासमासस्तुतिजातपुण्यैः। (9)समस्तसत्त्वाचरणं ह्यपीदंयथैव भूयात् सुगतस्य चर्या॥१४॥
(10)