15 पञ्चदशः सर्गः

पञ्चदशः-सर्गः वितर्क-प्रहाण यत्र तत्र विविक्ते तु बद्‍ध्वा पर्यङ्कमुत्तमम्।
ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः॥१॥

नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा।
कुर्वीथाश्चपलं चित्तमालम्बनपरायणम्॥२॥

सचेत् कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः।
क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः॥३॥

यद्यपि प्रतिसंख्यानात् कामानुत्सृष्टवानसि।
तमांसीव प्रकाशेन प्रतिपक्षेण ताञ्जहि॥४॥

तिष्ठत्यनुशयस्तेषां छन्नोऽग्निरिव भस्मना।
स ते भावनया सौम्य प्रशाम्योऽग्निरिवाम्बुना॥५॥

ते हि तस्मात् प्रवर्तन्ते भूयो वीजादिवाङ्कुराः।
तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः॥६॥

अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम्।
तस्मात्तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव॥७॥

अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः।
बहुसाधारणाः कामा वर्ह्या ह्याशीविषा इव॥८॥

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये।
भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये॥९॥

तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम्।
कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति॥१०॥

चलानपरिनिष्पन्नानसाराननवस्थितान्।
परिकल्पसुखान् कामान्न तान्स्मर्तुमिहार्हसि॥११॥

व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः।
प्रसाद्यं तद्विपक्षेण मणिनेवाकुलं जलम्॥१२॥

प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यमेव च।
विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव॥१३॥

निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते।
हन्ति पांसुभिरात्मानं स स्नात इव वारणः॥१४॥

दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः।
आर्यः को दुःखमपरं सघृणो धातुमर्हति॥१५॥

दुष्टेन चेह मनसा बाध्यते वा परो न वा।
सद्यस्तु दह्यते तावत् स्वं मनो दुष्टचेतसः॥१६॥

तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यमेव च।
न व्यापादं विहिंसां वा विकल्पयितुमर्हसि॥१७॥

यद्यदेव प्रसक्तं हि वितर्कयति मानवः।
अभ्यासात्तेन तेनास्य नतिर्भवति चेतसः॥१८॥

तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि।
यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये॥१९॥

संवर्धन्ते ह्यकुशला वितर्काः संभृता हृदि।
अनर्थजनकास्तुल्यमात्मनश्च परस्य च॥२०॥

श्रेयसो विघ्नकरणाद् भवन्त्यात्मविपत्तये।
पात्रीभावोपघातात्तु परभक्तिविपत्तये॥२१॥

मनःकर्मस्वविक्षेपमपि चाभ्यस्तुमर्हसि।
न त्वेवाकुशलं सौम्य वितर्कयितुमर्हसि॥२२॥

या विकामोपभोगाय चिन्ता मनसि वर्तते।
न च तं गुणमाप्नोति बन्धनाय च कल्पते॥२३॥

सत्त्वानामुपघाताय परिक्लेशाय चात्मनः।
मोहं व्रजति कालुष्यं नरकाय च वर्तते॥२४॥

तद् वितर्कैरकुशलैर्नात्मानं हन्तुमर्हसि।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव॥२५॥

अनभिज्ञो यथा जात्यं दहेदगुरु काष्ठवत्।
अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा॥२६॥

त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत्।
त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेदशुभं तथा॥२७॥

हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम्।
मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम्॥२८॥

तद् बुद्धवा प्रतिपक्षेण वितर्कं क्षेप्तुमर्हसि।
सूक्ष्मेण प्रतिकीलेन कीलं दार्वन्तरादिव॥२९॥

वृद्‍ध्यवृद्‍ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति।
स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये॥३०॥

संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा।
को जनः स्वजनः को वा मोहात् सक्तो जने जनः॥३१॥

अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस्तव।
अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति॥३२॥

विहगानां यथा सायं तत्र तत्र समागमः।
जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च॥३३॥

प्रतिश्रयं बहुविधं संश्रयन्ति यथाध्वगाः।
प्रतियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः॥३४॥

लोके प्रकृतिभिन्नेऽस्मिन्न कश्चित् कस्यचित् प्रियः।
कार्यकारणसम्बद्धं वालुकामुष्टिवज्जगत्॥३५॥

बिभर्ति हि सुतं माता धारयिष्यति मामिति।
मातरं भजते पुत्रो गर्भेणाधत्त मामिति॥३६॥

अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा।
तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात्॥३७॥

अहितो दृश्यते ज्ञातिरज्ञातिर्दृश्यते हितः।
स्नेहं कार्यान्तराल्लोकाश्छिनत्ति च करोति च॥३८॥

स्वयमेव यथालिख्य रज्येच्चित्रकरः स्त्रियम्।
तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः॥३९॥

योऽभवद् बान्धवजनः परलोके प्रियस्तव।
स ते कर्मथं कुरुते त्वं वा तस्मै करोषि कम्॥४०॥

तस्माज्ज्ञातिवितर्केण मनो नावेष्टुमर्हसि।
व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च॥४१॥

असौ क्षेमो जनपदः सुभिक्षोऽसावसौ शिवः।
इत्येवमथ जायेत वितर्कस्तव कश्चन॥४२॥

प्रहेयः स त्वया सौम्य नाधिवास्यः कथंचन।
विदित्वा सर्वमादीप्तं तैस्तैर्दोषाग्निभिर्जगत्॥४३॥

ऋतुचक्रनिवर्ताच्च क्षुत्पिपासाक्लमादपि।
सर्वत्र नियतं दुःखं न क्वचिद् विद्यते शिवम्॥४४॥

क्वचिच्छीतं क्वचिद् धर्मः क्वचिद् रोगो भयं क्वचित्।
बाधतेऽभ्यधिकं लोकं तस्मादशरणं जगत्॥४५॥

जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद् भयम्।
नास्ति देशः स यत्रास्य तद् भयं नोपपद्यते॥४६॥

यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति।
नास्ति काचिद् गतिर्लोके गतो यत्र न बाध्यते॥४७॥

रमणीयोऽपि देशः सन् सुभिक्षः क्षेम एव च।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते॥४८॥

लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः।
क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत्॥४९॥

दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा।
छन्दरागमतः सौम्य लोकचित्रेषु मा कृथाः॥५०॥

यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति।
जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे॥५१॥

अथ कश्चिद् वितर्कस्ते भवेदमरणाश्रयः।
यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा॥५२॥

मुहूर्तमपि विश्रम्भः कार्यों न खलु जीविते।
निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः॥५३॥

बलस्थोऽहं युवा वेति न ते भवितुमर्हति।
मृत्युः सर्वास्वस्थासु हन्ति नावेक्षते वयः॥५४॥

क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः।
स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते॥५५॥

निर्वृत्तः को भवेत् कायं महाभूताश्रयं वहन्।
परस्परविरुद्धानामहीनामिव भाजनम्॥५६॥

प्रश्वसित्ययमन्वक्षं यदुच्छ्‍वसिति मानवः।
अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम्॥५७॥

इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते।
स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः॥५८॥

गर्भात् प्रभृति यो लोकं जिघांसुरनुगच्छति।
कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव॥५९॥

प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि।
न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति॥६०॥

साम्ना दानेन भेदेन दण्डेन नियमेन वा।
प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते॥६१॥

तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि।
नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते॥६२॥

निःसारं पश्यतो लोकं तोयबुद्‍बुद्‍दुर्बलम्।
कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः॥६३॥

तस्मादेषां वितर्काणां प्रहाणार्थं समासतः।
आनापानस्मृतिं सौम्य विषयीकर्तुमर्हसि॥६४॥

इत्यनेन प्रयोगेण काले सेवितुमर्हसि।
प्रतिपक्षान् वितर्काणां गदानामगदानिव॥६५॥

सुवर्णहेतोरपि पांसुधावकौ विहाय पांसून् बृहतो यथादितः।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति॥६६॥

विमोक्षहेतोरपि युक्तमानसो विहाय दोषान् बृहतस्तथादितः।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्मावयवान् नियच्छति॥६७॥

क्रमेणाद्भिः शुद्धं कनकमिह पांसुव्यवहितं यथाग्नौ कर्मारः पचति भृशमावर्तयति च।
तथा योगाचारो निपुणमिह दोषव्यवहितं विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च॥६८॥

यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं सुवर्णं कर्मारो बहुविधमलङ्कारविधिषु।
मनःशुद्धो भिक्षुर्वशगतमभिज्ञास्वपि तथा यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च॥६९॥

सौन्दरनन्द महाकाव्ये “वितर्क-प्रहाण” नाम पञ्चदश सर्ग समाप्त।