14 चतुर्दशः सर्गः

चतुर्दशः सर्गः आदि-प्रस्थान अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम्।
भोजने भव मात्राज्ञो ध्यानायानामयाय च॥१॥

प्राणापानौ निगृण्हाति ग्लानिनिद्रे प्रयच्छति।
कृतो ह्यत्यर्थमाहारो विहन्ति च पराक्रमम्॥२॥

यथा चात्यर्थमाहारः कृतोऽनर्थाय कल्पते।
उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते॥३॥

आचयं द्युतिमुत्साहं प्रयोगं बलमेव च।
भोजनं कृतमत्यल्पं शरीरस्यापकर्षति॥४॥

यथा भारेण नमते लघुनोन्नमते तुला।
समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः॥५॥

तस्मादभ्यवहर्त्तव्यं स्वशक्तिमनुपश्यता।
नातिमात्रं न चात्यल्पं मेयं मानवशादपि॥६॥

अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति।
अवच्छन्न इवाल्पोऽग्निः सहसा महतेन्धसा॥७॥

अत्यन्तमपि संहारो नाहारस्य प्रशस्यते।
अनाहारो हि निर्वाति निरिन्धन इवानलः॥८॥

यस्मान्नास्ति विनाहारात् सर्वप्राणाभृतां स्थितिः।
तस्माद् दुष्यति नाहारो विकल्पोऽत्र तु वार्यते॥९॥

न ह्येकविषयेऽन्यत्र सज्यन्ते प्राणिनस्तथा।
अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम्॥१०॥

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी।
क्षुद्विघातार्थमाहारस्तद्वत् सेव्यो मुमुक्षुणा॥११॥

भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा।
भोजनं प्राणयात्रार्थं तद्वद् विद्वान्निषेवते॥१२॥

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ।
पुत्रमांसानि खादेतां दम्पती भृशदुःखितौ॥१३॥

एवमभ्यवहर्त्तव्यं भोजनं प्रतिसंख्यया।
न भूषार्थं न वपुषो न मदाय न दृप्तये॥१४॥

धारणार्थं शरीरस्य भोजनं हि विधीयते।
उपस्तम्भः पिपतिषोर्दुबलस्येव वेश्मनः॥१५॥

प्लवं यत्नाद् यथा कश्चिद् बध्नीयाद् धारयेदपि।
न तत्स्नेहेन यावत्तु महौघस्योत्तितीर्षया॥१६॥

तथोपकरणैः कायं धारयन्ति परीक्षकाः।
न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया॥१७॥

शोचता पीड्यमानेन दीयते शत्रवे यथा।
न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये॥१८॥

योगाचारस्तथाहारं शरीराय प्रयच्छति।
केवलं क्षुद्विघातार्थं न रागेण न भक्तये॥१९॥

मनोधारणया चैव परिणाम्यात्मवानहः।
विधूय निद्रां योगेन निशामप्यतिनामयेत्॥२०॥

हृदि यत्संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव।
गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः॥२१॥

धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि।
नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया॥२२॥

आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः।
परेभ्यश्चोपदेष्टव्याः संचिन्त्याः स्वयमेव च॥२३॥

प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः।
चार्या दृष्टिश्च तारासु जिजागरिषुणा सदा॥२४॥

अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः।
अविक्षिप्तेन मनसा चंक्रम्यस्वास्व वा निशि॥२५॥

भये प्रीतौ च शोके च निद्रया नाभिभूयते।
तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम्॥२६॥

भयमागमनान्मृत्योः प्रीतिं धर्मपरिग्रहात्।
जन्मदुःखादपर्यन्ताच्छोकमागन्तुमर्हसि॥२७॥

एवमादिः क्रमः सौम्य कार्यो जागरणं प्रति।
वन्ध्यं हि शयनादायुः क प्राज्ञः कर्तुमर्हसि॥२८॥

दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव।
क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद् भयम्॥२९॥

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि॥३०॥

तस्मात्तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि।
अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुषु॥३१॥

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा॥३२॥

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया।
प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः॥३३॥

यामे तृतीये चोत्थाय चरन्नासीन एव वा।
भूयो योगं मनःशुद्धौ कुर्वीथा नियतेन्द्रियः॥३४॥

अथासनगतस्थानप्रेक्षितव्याहृतादिषु।
संप्रजानन् क्रियाः सर्वाः स्मृतिमाधातुमर्हसि॥३५॥

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः।
धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः॥३६॥

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः।
चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति॥३७॥

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा॥३८॥

अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति।
निर्णेता दृष्टिरहितो विषमेषु चरन्निव॥३९॥

अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखा।
यद्भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणम्॥४०॥

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः।
विकीर्णा इव गा गोपः स्मृतिस्ताननुगच्छति॥४१॥

प्रनष्टममृतं तस्य यस्य विप्रसृता स्मृतिः।
हस्तस्थममृतं तस्य यस्य कायगता स्मृतिः॥४२॥

आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते।
यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः॥४३॥

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम्।
प्रनष्टममृतं यस्य स दुःखान्न विमुच्यते॥४४॥

तस्माच्चरन चरोऽस्मीति स्थितोऽस्मीति चाधिष्ठितः।
एवमादिषु कार्येषु स्मृतिमाधातुमर्हसि॥४५॥

योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व।
कायस्य कृत्वा हि विवेकमादौ सुखोऽधिगन्तुं मनसो विवेकः॥४६॥

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम्।
स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम्॥४७॥

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे।
चित्तं निषेद्धुं न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात्॥४८॥

अनीर्यमाणस्तु यथानिलेन प्रशान्तिमागच्छति चित्रभानुः।
अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिमुपैति चेतः॥४९॥

क्वचिद्भुक्त्वा यत्तद् वसनमपि यत्तत्परिहितो वसन्नात्मारामः क्वचन विजने योऽभिरमते।
कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः परेषां संसर्गं परिहरति यः कण्टकमिव॥५०॥

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः।
ततः पीत्वा प्रज्ञारसममृतवत्तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत्॥५१॥

वसञ्शून्यागारे यदि सततमेकोऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव।
चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्‍क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखम्॥५२॥

सौन्दरनन्द महाकाव्ये “आदि-प्रस्थान” नाम चतुर्दश सर्ग समाप्त॥