11 एकादशः सर्गः

एकादशः सर्गः स्वर्ग की हीनता ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः।
बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः॥१॥

सोऽनिष्टनैष्क्रम्यरसो म्लानतामरसोपमः।
चचार विरसो धर्मं निवेश्याप्सरसो हृदि॥२॥

तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः।
इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः॥३॥

कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः।
परमाचार्यविष्टब्धो ब्रह्मचर्यें चचार सः॥४॥

संवृतेन च शान्तेन तीव्रेण मदनेन च।
जलाग्नेरिव संसर्गाच्छशाम च शुशोष च॥५॥

स्वभावदर्शनीयोऽपि वैरूप्यमगमत् परम्।
चिन्तयाप्सरसां चैव नियमेनायतेन च॥६॥

प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः।
वीतराग इवातस्थौ न जहर्ष न चुक्षुभे॥७॥

तं व्यवस्थितमाज्ञाय भार्यारागात् पराङ्मुखम्।
अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम्॥८॥

अहो सदृशमारब्धं श्रुतमस्याभिजनस्य च।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः॥९॥

अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः।
यदियं संविदुत्पन्ना नेयमल्पेन हेतुना॥१०॥

व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते।
प्रबलः प्रबलैरेव यत्नैर्नश्यति वा न वा॥११॥

दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत्।
विनिवृत्तो यदि [च] ते सर्वथा धृतिमानसि॥१२॥

दुष्करं साध्वनार्येण मानिना चैव मार्दवम्।
अतिसर्गश्च लुब्धेन ब्रह्मचर्यं च रागिणा॥१३॥

एकस्तु मम संदेहस्तवास्यां नियमे धृतौ।
अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे॥१४॥

आर्जवाभिहितं वाक्यं न च मन्तव्यमन्यथा।
रूक्षमप्याशये शुद्धे रुक्षतो नैति सज्जनः॥१५॥

अप्रियं हि हितं स्निग्धमस्निग्धमहितं प्रियम्।
दुर्लभं तु प्रियहितं स्वादु पथ्यमिवौषधम्॥१६॥

विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः।
मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सताम्॥१७॥

तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया।
त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्युपेक्षितुम्॥१८॥

अप्सरोभृतको धर्मं चरसीत्यभिधीयसे।
किमिदं भूतमाहोस्वित् परिहासोऽयमीदृशः॥१९॥

यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम्।
औद्धत्यमथ वक्तृणामभिधास्यामि तद्रजः॥२०॥

श्लक्ष्णपूर्वमथो तेन हृदि सोऽभिहतस्तदा।
ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखोऽभवत्॥२१॥

ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम्।
बभाषे वाक्यमानन्दो मधुरोदर्कमप्रियम्॥२२॥

आकारेणावगच्छामि तव धर्मप्रयोजनम्।
यज्ज्ञात्वा त्वयि जातं मे हास्यं कारुण्यमेव च॥२३॥

यथासनार्थं स्कन्धेन कश्चिद् गुर्वीं शिलां वहेत्।
तद्वत्त्वमपि कामार्थं नियमं वोढुमुद्यतः॥२४॥

तिताडयिषया दृप्तो यथा मेषोऽपर्सति।
तद्वदब्रह्मचर्याय ब्रह्मचर्यमिदं तव॥२५॥

चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया।
धर्मचर्या तव तथा पण्यभूता न शान्तये॥२६॥

यथा फलविशेषार्थ बीजं वपति कार्षकः।
तद्वद् विषयकार्पण्याद् विषयांस्त्यक्तवानसि॥२७॥

आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया।
दुःखमन्विच्छति भवांस्तथा विषयतृष्णया॥२८॥

यथा पश्यति मध्वेव न प्रपातमवेक्षते।
पश्यस्यप्सरसस्तद्वद् भ्रंशमन्ते न पश्यसि॥२९॥

हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम्।
किमिदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः॥३०॥

संसारे वर्तमानेन यदा चाप्सरसस्त्वया।
प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा॥३१॥

तृप्तिर्नास्तीन्धनैरग्नेर्नाम्भसा लवणाम्भसः।
नापि कामैः सतृष्णस्य तस्मात् कामा न तृष्तये॥३२॥

अतृप्तौ स कुतः शान्तिरशान्तौ च कुतः सुखम्।
असुखे च कुतः प्रीतिरप्रीतौ च कुतो रतिः॥३३॥

रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः।
प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः॥३४॥

न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषणैः।
एकस्त्वं [यत्र]तत्रस्थस्तया रत्याभिरंस्यसे॥३५॥

मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति।
तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च॥३६॥

संपत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा।
कामेषु हि सतृष्णस्य न शान्तिरुपपद्यते॥३७॥

कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते।
वियोगान्नियतः शोको वियोगश्च ध्रुवो दिवि॥३८॥

कृत्वापि दुष्करं कर्म स्वर्गे लब्ध्वापि दुर्लभम्।
नृलोकं पुनरेवैति प्रवासात् स्वगृहं यथा॥३९॥

यदा भ्रष्टस्य कुशलं शिष्टं किंचिन्न विद्यते।
तिर्यक्षु पितृलोके वा नरके चोपपद्यते॥४०॥

तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि।
भ्रष्टस्यार्तस्य दुःखेन किमास्वादः करोति सः॥४१॥

श्येनाय प्राणिवात्सल्यात् स्वमांसान्यपि दत्तवान्।
शिविः स्वर्गात् परिभ्रष्टस्तादृक् कृत्वापि दुष्करम्॥४२॥

शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एंव यः।
स देवत्वं गतः काले मान्धाताधः पुनर्ययौ॥४३॥

राज्यं कृत्वापि देवानां पपात नहुषो भुवि।
प्राप्तः किल भुजंगत्वं नाद्यापि परिमुच्यते॥४४॥

तथैवेलिविलो राजा राजवृत्तेन संस्कृतः।
स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे॥४५॥

भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः।
कर्मभिर्द्यामभिक्रीय तत्क्षयात् पुनरत्यजन्॥४६॥

असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः।
श्रियं समनुशोचन्तः पातालं शरणं ययुः॥४७॥

किं च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः।
महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम्॥४८॥

संसदं शोभायित्वैन्द्रीमुपेन्द्रश्चेन्द्रविक्रमः।
क्षीणकर्मा पपातोर्वीं मध्यादप्सरसां रसन्॥४९॥

हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये।
इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः॥५०॥

तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम्।
किं पुनः पततां स्वर्गादेवान्ते सुखसेविनाम्॥५१॥

रजो गृण्हन्ति वासांसि म्लायन्ति परमाः स्रजः।
गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने॥५२॥

एतान्यादौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम्।
अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम्॥५३॥

सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम्।
यच्च दुःखं निपततां दुःखमेव विशिष्यते॥५४॥

तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम्।
विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु॥५५॥

अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः।
कर्मणोऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते॥५६॥

मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः।
सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान्॥५७॥

यदा चैश्वर्यवन्तोऽपि क्षयिणः स्वर्गवासिनः।
को नाम स्वर्गवासय क्षेष्णवे स्पृहयेद् बुधः॥५८॥

सूत्रेण बद्धो हि यथा विहंगो व्यावर्तते दूरगतोऽपि भूयः।
अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनरेति लोकः॥५९॥

कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद् वन्धनं।
तद्‍वद् द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्वाकृषते गां पुनः॥६०॥

अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि।
अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम्॥६१॥

तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्-पितृषु च।
यत्त्राणं निर्भयं यच्छिवममरजरं निःशोकममृतं तद्धेतोर्ब्रह्मचर्यं चर जहि हि चलं स्वर्गं प्रति रुचिम्॥६२॥

सौन्दरनन्द महाकाव्ये “स्वर्ग की हीनता” नाम एकादश सर्ग समाप्त॥