पश्चत्तापःभवन् धर्मरत्न मित्रचर्य। लक्ष्मीर् निरामयो दीर्घम् आयुश् च भवते भवेत्। रत्नत्रयानुभावेन शासनस्याभिवृद्धये॥१॥
याचे भवन्तं प्रस्तावं पिशितास्थिमये मम। शरीरे विशदीकर्तुं दौर्बल्यं जरया कृतम्॥२॥
भोजं भोजं पिशितं मे पाय्यं पाय्यं च शोणितम्। नेयं नेयं कृशत्वं मां शिश्लेष यक्षिणी जरा॥३॥
इन्द्रियाणां बलं नास्ति मम कुत्र गता स्मृतिः। वाताहतकदलीव वपुः सम्प्रति वेपते॥
४॥
(1)
मुहुर् मुहुर् वेपमानो नम्रपृष्ठशिरोधरः। दण्डपाणिर् वार्द्धको ऽयं प्रस्खलन् नित्यम् आचरेत्॥५॥
असह्यपीडनं हस्तपादेषु वरीवृत्यते। वारिणि बुद्बुदानीव स्यन्दन्ते स्वेदविप्रुषः॥६॥
यथेन्दुकान्तिः कृष्णे दृष्टिशक्तिर् अनुक्रमम्। क्षयत्य् उपचक्षुषापि नास्ति किं चित् प्रयोजनम्॥७॥
शाश्वस्यते यथा भस्त्रा निष्ठीवति क्षणं क्षणम्। जलोत्क्षिप्तो यथा मीनः पाणिर् भूयः प्रवेपते॥८॥
अहो यौवनलक्ष्मीर् मां कदा चित् पुनर् एति न। मुखरङ्गे ऽधुना वाणी न नृत्यति यथेप्सितम्॥९॥
(2)
गता मतिः च्युता शक्तिर् आयुर् याति दिनं प्रति। मृत्युर् आस्यं हि व्यादाय सम्मुखे मम तिष्ठति॥
१०॥
लेखनी लेखनागारे विश्रान्ता फलकोपरि। विप्रहीणा काव्यचिन्ता रेखेव रेखिता जले॥११॥
अश्रान्तं पठिता ग्रन्थाः शेरते पुस्तकालये। परामृशन्ति तान् अद्य कृमयो मूषिका अपि॥
१२॥
सर्वे क्षयान्ताः संसारे नैवात्मापि भवत्रये। मुनिप्रदिष्टकैवल्यम् अक्षयं हि कदा चन॥
१३॥
(3)
पश्चात्तापो वरीवर्त्ति स्मरतो यौवनस्य मे। शोशुच्यते हन्त - यथा भग्नपुच्छजरद्गवः॥
१४॥
आ जन्मनो ऽशितिसप्तवर्षिको जरया हतः। इतः परं कथं कुर्यात् पद्यबन्धं रसात्मकम्॥१५॥
(4)