11 कामविगर्हणो नामैकादश सर्गः

CANTO XI अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम्।
स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद॥१॥

नाश्चर्यमेतद्भवतो विधानं जातस्य हर्यङ्ककुले विशाले।
यन्मित्रपक्षे तव मित्रकाम स्याद्‍वृत्तिरेषा परिशुद्धवृत्तेः॥२॥

असत्सु मैत्री स्वकुलानुवृत्ता न तिष्ठति श्रीरिव विक्लवेषु।
पूर्वैः कृतां प्रीतिपरंपराभि- स्तामेव सन्तस्तु विवर्धयन्ति॥३॥

ये चार्थकृच्छेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः।
मित्राणिः तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात्॥४॥

एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति।
अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम्॥५॥

सुहृत्तया चार्यतया च राजन् खल्वेष यो मां प्रति निश्चयस्ते।
अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र॥६॥

अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः।
बन्धून् प्रियानश्रुमुखान्विहाय प्रागेव कामानुशुभस्य हेतून्॥७॥

नाशीविषेभ्यो हि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः।
न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एव॥८॥

कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके।
आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः॥९॥

कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं बत मर्त्यलोके।
कामैः सतृष्णस्य हि नास्ति तृप्ति- र्यथेन्धनैर्वातसखस्य वन्हेः॥१०॥

जगत्यनर्थो न समोऽस्ति कामै- र्मोहाच्च तेष्वेव जनः प्रसक्तः।
तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थम्॥११॥

समुद्रवक्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य।
लोकस्य कामैर्न वितृप्तिरस्ति पतिद्भिरम्भोभिरिवार्णवस्य॥१२॥

देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्समग्रांश्चतुरोऽपि जित्वा।
शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः॥१३॥

भुक्त्‍वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे।
दर्पान्महर्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात॥१४॥

ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवी वशमुर्वशी ताम्।
लोभादृषिभ्यः कनकं जिहीर्षु- र्जगाम नाशं विषयेष्वतृप्तः॥१५॥

बलेर्महेन्द्रं नहुषं महेन्द्रा- दिन्द्रं पुनर्ये नहुषादुपेयुः।
स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु॥१६॥

चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तोऽपि भुजङ्गदीर्घाः।
यैर्नान्यकार्या मुनयोऽपि भग्नाः कः कामसंज्ञान्मृगयेत शत्रून्॥१७॥

उग्रायुधश्चोग्रधृतायुधोऽपि येषां कृते मृत्युमवाप भीष्मात्।
चिन्तापि तेषामशिवा वधाय सद्‍वृत्तिनां किं पुनरव्रतानाम्॥१८॥

आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव।
सद्‍भ्यश्च गर्हा नियतं च पापं कः कामसंज्ञं विषमाददीत॥१९॥

कृष्यादिभिः कर्मभिरर्दितानां कामात्मकानां च निशम्य दुःखम्।
स्वास्थ्यं च कामेष्वकुतूहलानां कामान्विहातुं क्षममात्मवद्भिः॥२०॥

ज्ञेया विपत्कामिनि कामसंप- त्सिद्धेषु कामेषु मदं ह्युपैति।
मदादकार्य कुरुते न कार्य येन क्षतो दुर्गतिमभ्युपैति॥२१॥

यत्नेन लब्ध्वाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः।
तेष्वात्मवान्याचितकोपमेषु कामेषु विद्वानिह को रमेत॥२२॥

अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम्।
लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२३॥

अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म।
कुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२४॥

अस्थि क्षुधार्ता इव सारमेया भुक्त्‍वापि यान्नैव भवन्ति तृप्ताः।
जीर्णस्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२५॥

ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम्।
तेषु प्रविद्धामिषसनिभेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२६॥

यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः।
हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२७॥

गिरौ वने चाप्सु च सागरे च यान् भ्रंशमर्छन्ति विलङ्घमानाः।
तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२८॥

तीव्रैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति।
स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥२९॥

यानर्जयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा।
अङ्गारकर्षूप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥३०॥

विनाशमीयुः कुरवो यदर्थ वृष्ण्यन्धका मेखलदण्डकाश्च।
सूनासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥३१॥

सुन्दोपसुन्दावसुरौ यदर्थ- मन्योन्यवैरप्रसृतौ विनष्टौ।
सौहार्दीवश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥३२॥

येषां कृते वारिणि पावके च।
क्रव्यात्सु चात्मानमिहोत्सृजन्ति।
सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात्॥३३॥

कामार्थमज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि।
कामार्थमाशाकृपणस्तपस्वी मृत्युं श्रमं चार्छति जीवलोकः॥३४॥

गीतैर्हियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति।
मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थ विषयाः फलन्ति॥३५॥

कामास्तु भोगा इति यन्मतिः स्या- द्भोगा न केचित्परिगण्यमानाः वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः॥३६॥

इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव।
वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः॥३७॥

निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय।
तथासनं स्थानविनोदनाय स्नानं मृजरोग्यबलाश्रयाय॥३८॥

दुःखप्रतीकारनिमित्तभूता- स्तस्मात्प्रजानां विषया न भोगाः।
अश्नामि भोगानिति कोऽभ्युपेया- त्प्राज्ञः प्रतीकारविधौ प्रवृत्तः॥३९॥

यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत्।
दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसंज्ञाम्॥४०॥

कामेष्वनैकान्तिकता च यस्मा- दतोऽपि मे तेषु न भोगसंज्ञा।
य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति॥४१॥

गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्युसुखाय धर्मे।
चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते॥४२॥

द्वन्द्वानि सर्वस्य यतः प्रसक्ता- न्यलाभलाभप्रभृतीनि लोके।
अतोऽपि नैकान्तसुखोऽस्ति कश्चि- न्नैकान्तदुःख पुरुषः पृथिव्याम्॥४३॥

दृष्ट्वा विमिश्रां सुखदुःखतां मे राज्यं च दास्यं च मतं समानम्।
नित्यं हसत्येव हि नैव राजा न चापि संतप्यत एव दासः॥४४॥

आज्ञा नृपत्वेऽभ्यधिकेति यत्स्या- न्महान्ति दुःखान्यत एव राज्ञः।
आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति॥४५॥

राज्ये नृपस्त्यागिनि बव्हमित्रे विश्वासमागच्छति चेद्विपन्नः।
अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः॥४६॥

यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव।
तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः॥४७॥

राज्ञोऽपि वासोयुगमेकमेव क्षुत्संनिरोधाय तथान्नमात्रा।
शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय॥४८॥

तुष्ट्यर्थमेतच्च फलं यदीष्ट- मृतेऽपि राज्यान्मम तुष्टिरस्ति।
तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः॥४९॥

तन्नास्मि कामान् प्रति संप्रतार्यः क्षेमं शिवं मार्गमनुप्रपन्नः।
स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मा ब्रूहि प्रतिज्ञां खलु पालयेति॥५०॥

न ह्यस्म्यमर्षेण वनं प्रविष्टो न शत्रुबाणैरवधूतमौलिः।
कृतस्पृहो नापि फलाधिकेभ्यो गृह्‍णामि नैतद्वचनं यतस्ते॥५१॥

यो दन्दशूकं कुपितं भुजङ्गं मुक्त्‍वा व्यवस्येद्धि पुनर्ग्रहीतुम्।
दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान्स पुनर्भजेत॥५२॥

अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय चाढ्यः।
उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय॥५३॥

भैक्षोपभोगीति च नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः।
इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि॥५४॥

लक्ष्म्यां महत्यामपि वर्तमान- स्तृष्णाभिभूतस्त्वनुकम्पितव्यः।
प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखै प्रतिगृह्यते च॥५५॥

एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव।
ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव॥५६॥

अहं हि संसारशरेण विद्धो विनिःसृतः शान्तिमवाप्तुकामः।
नेच्छेयमाप्तुं त्रिदिवेऽपि राज्यं निरामयं किं बत मानुषेषु॥५७॥

त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम्।
अनर्थ इत्येव ममात्र दर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः॥५८॥

पदे तु यस्मिन्न जरा न भीर्न रूङ् न जन्म नैवोपरमो न चाधयः।
तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया॥५९॥

यदप्यवोच परिपाल्यतां जरा नव वयो गच्छति विक्रियामिति।
अनिश्चयोऽय चपलं हि दृश्यते जराप्यधीरा धृतिमच्च यौवनम्॥६०॥

स्वकर्मदक्षश्च यदान्तको जगद् वयसु सर्वेष्ववश विकर्षति।
विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना॥६१॥

जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाशिवः स्थितः।
प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्ष प्रति को मनोरथः॥६२॥

अतो युवा वा स्थविरोऽथवा शिशु- स्तथा त्वरावानिह कर्तुमर्हति।
यथा भवेद्धर्मवतः कृतात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा॥६३॥

यदात्थ चापीष्टफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति।
नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रियया यदिष्यते॥६४॥

परं हि हन्तुं विवशं फलेप्सया न युक्तरूप करुणात्मनः सतः।
क्रतोः फलं यद्यपि शाश्वतं भवे- त्तथापि कृत्त्वा किमु यत्क्षयात्मकम्॥६५॥

भवेच्च धर्मो यदि नापरो विधि- र्व्रतेन शीलेन मनःशमेन वा।
तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम्॥६६॥

इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम्।
तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं बत यन्न दृश्यते॥६७॥

न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः।
लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः॥६८॥

इहागतश्चहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः।
प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथा मम तत्त्वनिष्ठुरम्॥६९॥

अवेन्द्रवद्दिव्यव शश्वदर्कवद् गुणैरव श्रेय इहाव गामव।
अवायुरार्यैरव सत्सुतानव श्रियश्च राजन्नव धर्ममात्मनः॥७०॥

हिमारिकेतूद्भवसंभवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम्।
हिमारिशत्रुक्षयशत्रुघातने तथान्तरे याहि विमोक्षयन्मनः॥७१॥

नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोतु भवानविघ्नतः।
अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः॥७२॥

स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरमाश्रमं ययौ।
परिव्रजन्तं तमुदीक्ष्य विस्मितो नृपोऽपि वव्राज पुरि गिरिव्रजम्॥७३॥

इति बुद्धचरिते महाकाव्ये कामविगर्हणो नामैकादश सर्गः॥११॥