03 संवेगोत्पत्तिर्नाम तृतीयः सर्गः

CANTO III ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि।
शुश्राव पद्माकरमण्डितानि गीतैर्निबद्धानि स काननानि॥१॥

श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम्।
बहिःप्रयाणाय चकार बुद्धि- मन्तर्गृहे नाग इवावरूद्धः॥२॥

ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य।
स्नेहस्य लक्ष्म्या वयसश्च योग्या- माज्ञापयामास विहारयात्राम्॥३॥

निवर्तयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य।
मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इति मन्यमानः॥४॥

प्रत्यङ्गहीनान्विकलेन्द्रियांश्च जीर्णातुरादीन् कृपणांश्च दिक्षु।
ततः समुत्सार्य परेण साम्ना शोभां परां राजपथस्य चकुः॥५॥

ततः कृते श्रीमति राजमार्गे श्रीमान्विनीतानुचरः कुमारः।
प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपमभ्यगच्छत्॥६॥

अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य।
गच्छेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच॥७॥

ततः स जाम्बूनदभाण्डभृद्भि- र्युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः।
अक्लीबविद्वच्छुचिरश्मिधारं हिरण्मयं स्यन्दनमारुरोह॥८॥

ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम्।
मार्गं प्रपेदे सदृशानुयात्र- श्चन्द्रः सनक्षत्र इवान्तरीक्षम्॥९॥

कौतूहलात्स्फीततरैश्च नेत्रै- र्नीलोत्पलार्धैरिव कीर्यमाणम्।
शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः॥१०॥

तं तुष्टुवुः सौम्यगुणेन केचि- द्ववन्दिरे दीप्ततया तथान्ये।
सौमुख्यतस्तु श्रियमस्य केचि- द्वैपुल्यमाशंसिषुरायुषश्च॥११॥

निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानाम्।
नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत्प्रणेमुः॥१२॥

ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम्।
दिदृक्षया हर्म्यतलानि जग्मु- र्जनेन मान्येन कृताभ्यनुज्ञाः॥१३॥

ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च।
वृत्तान्तविन्यस्तविभूषणाश्च कौतूहलेनानिभृताः परीयुः॥१४॥

प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च।
वित्रासयन्त्यो गृहपक्षिसङ्घा- नन्योन्यवेगांश्च समाक्षिपन्त्यः॥१५॥

कासांचिदासां तु वराङ्गनानां जातत्वराणामपि सोत्सुकानाम्।
गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च॥१६॥

शीघ्रं समर्थापि तु गन्तुमन्या गतिं निजग्राह ययौ न तूर्णम्।
ह्रियाप्रगल्भा विनिगूहमाना रहःप्रयुक्तानि विभूषणानि॥१७॥

परस्परोत्पीडनपिण्डितानां संमर्दसंक्षोभिकुण्डलानाम्।
तासां तदा सस्वनभूषणानां वातयनेष्वप्रशमो बभूव॥१८॥

वातायनेभ्यस्तु विनिःसृतानि परस्परायासितकुण्डलानि।
स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि॥१९॥

ततो विमानैर्युवतीकरालैः कौतूहलोद्‍घाटितवातयानैः।
श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः॥२०॥

वातायनानामविशालभावा- दन्योन्यगण्डार्पितकुण्डलानाम्।
मुखानि रेजुः प्रमोदोत्तमानां बद्धाः कलापा इव पङ्कजानाम्॥२१॥

तं ताः कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गामिव गन्तुकामाः।
ऊर्ध्वोन्मुखाश्चैनमुदीक्षमाणा नरा बभुर्द्यामिव गन्तुकामाः॥२२॥

दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च।
धन्यास्य भार्येति शनैरवोच- ञ्शुद्धैर्मनोभिः खलु नान्यभावात्॥२३॥

अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः।
त्यक्त्वा श्रियं धर्ममुपैष्यतीति तस्मिन् हि ता गौरवमेव चक्रुः॥२४॥

कीर्ण तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः।
तत्पूर्वमालोक्य जहर्ष किंचि- न्मेने पुनर्भावमिवात्मनश्च॥२५॥

पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः।
जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य॥२६॥

ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम्।
उवाच संग्राहकमागतास्थ- स्तत्रैव निष्कम्पनिविष्टदृष्टिः॥२७॥

क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहष्टः।
भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा॥२८॥

इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय।
संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः॥२९॥

रूपस्य हन्त्री व्यसनं बलस्य शोकस्य योनिर्निधन रतीनाम्।
नाशः स्मृतीनां रिपुरिन्द्रियाणा- मेषा जरा नाम ययैष भग्नः॥३०॥

पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिसृप्तमुर्व्याम्।
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः॥३१॥

इत्येवमुक्ते चलितः स किंचि- द्राजात्मजः सूतमिदं बभाषे।
किमेष दोषो भविता ममापी- त्यस्मै ततः सारथिरभ्युवाच॥३२॥

आयुष्मतोऽप्येष वयःप्रकर्षो निःसंशयं कालवशेन भावी।
एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैव लोकः॥३३॥

ततः स पूर्वाशयशुद्धबुद्धि- र्विस्तीर्णकल्पाचितपुण्यकर्मा।
श्रुत्वा जरां सविविजे महात्मा महाशनेर्घोषमिवान्तिके गौः॥३४॥

निःश्वस्य दीर्घं स्वशिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः।
तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्न इदं जगाद॥३५॥

एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च।
न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः॥३६॥

एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु।
उद्यानभूमौ हि कुतो रतिर्मे जराभये चेतसि वर्तमाने॥३७॥

अथाज्ञया भर्तुसुतस्य तस्य निवर्तयामास रथं नियन्ता।
ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे॥३८॥

यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः।
ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम॥३९॥

अथापरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम्।
दृष्ट्वा च तं सारथिमाबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव॥४०॥

स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्रित्य नरः क एषः॥४१॥

ततोऽब्रवीत्सारथिरस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः।
रोगाभिधानः सुमहाननर्थः शक्तोऽपि येनैष कृतोऽस्वतन्त्रः॥४२॥

इत्यूचिवान् राजसुतः स भूय- स्तं सानुकम्पो नरमीक्षमाणः।
अस्यैव जातो पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम्॥४३॥

ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः।
एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः॥४४॥

इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव।
इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण॥४५॥

इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भमुपैति लोकः।
विस्तीर्णमज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः॥४६॥

निवर्त्यतां सूत बहिःप्रयाणा- न्नरेन्द्रसद्मैव रथः प्रयातु।
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः॥४७॥

ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश वेश्म।
तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं पर्येषणं भूमिपतिश्चकार॥४८॥

श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तमात्मानमनेन मेने।
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः॥४९॥

भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रचारम्।
चलेन्द्रियत्वादपि नाम सक्तो नास्मान्विजह्यादिति नाथमानः॥५०॥

यदा च शब्दादिभिरिन्द्रियार्थै- रन्तःपुरे नैव सुतोऽस्य रेमे।
ततो बहिर्व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः॥५१॥

स्नेहाच्च भावं तनयस्य बुद्ध्वा स रागदोषानविचिन्त्य कांश्चित्।
योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञा इति वारमुख्याः॥५२॥

ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च।
व्यत्यस्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम्॥५३॥

ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः।
तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः॥५४॥

अथब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिह्रियते क एषः।
दीनैर्मनुष्यैरनुगम्यमानो यो भूषितश्चाप्यवरुद्यते च॥५५॥

ततः स शुध्दात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः।
अवाच्यमप्यथीमिमं नियन्ता प्रव्याजहारार्थवदीश्वराय॥५६॥

बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंज्ञस्तृणकाष्ठभूतः।
संवर्ध्य संरक्ष्य च यत्नवद्भिः प्रियप्रियैस्त्यज्यत एष कोऽपि॥५७॥

इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिदुवाच चैनम्।
किं केवलोऽस्यैव जनस्य धर्मः सर्वप्रजानामयमीदृशोऽन्तः॥५८॥

ततः प्रणेता वदति स्म तस्मै सर्वप्रजानामिदमन्तकर्म।
हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः॥५९॥

ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः।
अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण॥६०॥

इयं च निष्ठा नियता प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः।
मनांसि शङ्के कठिनानि नॄणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः॥६१॥

तस्माद्रथः सूत निवर्त्यता नो विहारभूमेर्न हि देशकालः।
जानन्विनाशं कथमर्तिकाले सचेतनः स्यादिह हि प्रमत्तः॥६२॥

इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयामास स नैव तं रथम्।
विशेषयुक्तं तु नरेन्द्रशासना- त्स पद्मषण्डं वनमेव निर्ययौ॥६३॥

ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम्।
विमानवत्स कमलचारुदीर्घिकं ददर्श तद्वनमिव नन्दनं वनम्॥६४॥

वराङ्गनागणकलिलं नृपात्मज- स्ततो बलाद्वनमतिनीयते स्म तत्।
वराप्सरोवृतमलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः॥६५॥

इति बुद्धचरिते महाकाव्ये संवेगोत्पत्तिर्नाम तृतीयः सर्गः॥३॥