शाब्दबोधप्रक्रिया

[[शाब्दबोधप्रक्रिया Source: EB]]

[

?0ॐ
?0श्री
?2एन. आर. कुमार
?2(भाट्टमीमांसकमते) शाब्दबोध प्रक्रिया।

अद्यकेन्र्दीनय संकृतविद्यापीठयन्त्रारोपण प्रकोष्ठे पाराणसीपनय संपूर्णानन्दसंस्कृतविश्व - विद्यालये पूर्वमीमांसाविभागाध्यक्षपदं अधितिष्ठन्तः श्रीकष्णन् महाशयाः सन्निहिताः तिष्ठन्ति। तेषां योग्यतापरिचयः सङ्ग्रहेण क्रियते।
सप्तमे वयसि उपनयनसंस्कारान्तरं नावल्पाक्कं श्री रामानुजताता चार्य सुताः कण्णन् महाशयाः कृष्णयजुर्वेदे चतुश्शास्त्र पण्डितानां ज्ञानानुष्ठानवैराग्यादिभिः महर्षितुल्यानां श्री अय्यादेवनाथताताचार्याणां सकाशे क्रमान्तं अध्यजीगपन्। महात्मभिः पूज्यपादैः श्रीमत्यर महंसपरिव्रा चकाचार्यैः कान्चीकामकोटिपीठाधीश्वरैः जगद्गुरूभि - प्रवर्तितायां वेदविद्वत्यपरीक्षायां प्रथमश्रेण्यां उत्तीर्णाः। तत्रैव चतुस्संहस्त्ररुप्यकं पारितोषिकमपि तव्यम्। चतुस्सप्ततितमे संवत्सरे मद्रपुरीयविश्वविद्यालये न्याय शिरोमणिपरीक्षायां प्रथमश्रेण्यां उत्तीर्णाः। तत्रैव वर्ष द्वयानन्तरं मीमांसाशिरोमणि - परीक्षायामपि प्रथमत्रेण्यां विजयः लब्धः। एवं विशिष्टाद्वैवतेदान्तपरीक्षया मपि प्रथमश्रेण्यां उत्तीर्णाः। एकोनाशीतिसंवत्सरे तिरूपतिस्थकेन्द्रीयसंस्कृतविद्यापीठे विद्यावरिथिकक्षांप्रविश्यत्रि अशोतिनवशतयुतसहस्त्रतमे संवत्सरे अयं उपाथिः पी. एच्. डी. समानभूतः विद्यावारियिरित्युपाधिः अयं लब्धः। एतदर्थं स्वीकृतस्य शोधप्रबन्धस्य नाम न्यायमीमांसा शास्त्रानुसारेण विधिविशेषार्थविमर्श इति। अन्यच्च प्राचीनरीत्या न्यायशास्त्रे मीमांसाशास्त्रे च क्रोडपत्रादिप्रौढग्रन्थाः अय्याश्रोदेवनाथताताचार्याणां सकाशे अधीताः। तिरुमलैदेवस्थानद्वारा संचातित वेद शास्त्रागमाविद्वत्सदसि वेदे न्यायशास्त्रे विशिष्ठाद्वैत वेदान्त च ग्रीकण्णन् महाभागाः मूर्वोत्तरवादयोः प्रथमश्रेण्यां उत्तीर्णाः भूत्वा पारितोषिकमपि लब्यवन्तः। मैसूर राजकीयप्रौढकलाशालायां तथा तिरुनारायणपुर क्षेत्रे च (देशभाषायां भेलपदेट्टे इत्युध्यते) तत्रसमायां वेदे विशिष्टाद्वैतवेदान्ते च प्रथमपुरस्कारेण एते सत्कृता। एकोनाशीतितमे हायने वाराणीयसंपूर्णानन्दसंस्कृत विश्वविद्यालये पूर्वमीमांसाविभागाध्यक्षपदं अलङ्कृत्य तत्रैव अधुना कर्म कुर्वन्ति। मतत्रयसाधारणसभासु बह्नीषु धागं गृहीताः तत्रलत्र संमानिताश्च। तत्रावत् काञ्चीपुरं, रामेश्वरं तिरुमलै - देवस्थानं, मन्त्रालयः सारनाथ् तिरुपति केन्द्रीयसंस्कृतविद्यापीठं, वेङ्कटेश्वरविश्व - विद्यालयः, अहो बिलमठं, प्रयागक्षेत्रस्य गङ्गानाथ आ केन्द्रीयसंस्कृतविद्यापीठं, टी. टी. एतादृशेषु सं स्थानेषु एते सत्कृताः। एतैः वह्नि शोधपत्राणि प्रकाशितानि सन्ति। तत्र केचित् शोधलेखाः अधोनिर्दिष्टाः। (1) मीमांसकमते अपवर्गस्वरूपविचारः (2) निषेधमीमांसा (3) मीमांसकोक्तशब्दतत्वसमीक्षा (4) अध्ययनविधिमीमांसा (5) शरीरकलक्षणविचारः (6) शरीरलक्षणविचारः (7) अनुपलब्धेः प्रमाणान्तरत्व विमर्शः एतैः लिखितानां ग्रन्थानां विवरणम् :—- (1) यज्ञोपवीततत्वविमर्शः (2) भाट्टसारः (3) तत्वमुक्ताकलापः (अक्षरार्थव्याख्यासमेतः) इदं ग्रन्थदूवयमपि मुद्रणालये वाराणस्यां संपूर्णानन्दसंस्कृतविश्वविद्यालयद्वारा प्रकाशं उपयास्यति। अद्य श्रीकण्णन् महाभगाः भाट्टमीमांसकमते शाब्दबोधप्रक्रिया इत्यमुं विषयं आश्रित्य वाक्यार्थविचारं कुर्वन्ति। श्रीकण्णन् महाभागाः।
हरिः ओम्। श्रृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्स्तुष्टुवा सस्तनुभिः। व्यशेम देवहितं यदा युः। स्वस्तिन इन्द्रो वृद्धश्रवाः। स्वस्तिनः पूषा विश्ववेदाः। स्वस्तिनस्ता र्ख्यो अरिष्टनेमिः। स्वस्तिनो बृहस्पतिर्दधातु।
वर्धन्तु त्वा त्वा वर्धन्तु वर्धन्तु त्वा सुष्टुतयस्तुष्टुतयस्त्वा वर्धन्तु वर्धन्तु त्वा सुष्टुतयः। त्वा सुष्टुतयस्सुष्टुतय स्त्वात्वा सुष्टुतयो गिरो गिरस्सुष्टुतयस्त्वात्वा सुष्टुतयो गिरः। सुष्टुतयो गिरोगिरस्सुष्टुतयस्सुष्टुतयो गिरो मे गिरस्सुष्टुतयस्सुष्टुतयो गिरो मे। सुष्टुतय इति सु स्तुतयः। गिरो मेमे गिरो गिरो में यूयं यूयं में गिरो गिरो में यूयं। में यूयं मेमे यूयं पात पात यूयं मे मे यूयं पान। यूयं पातपात यूयं यूयं पात स्वस्तिभि स्वस्तिभिः पातयूयंयूयं पातस्वस्तिभिः। पात स्वस्तिभिः स्वस्तिभिः पात पात् स्वस्तिभिस्सदा सदा
स्वस्तिभिः पातपात स्वास्तिभिस्सदा। स्वस्तिभिस्सदा सदा स्वस्तिभिः स्वस्तिभि स्सदा नोनः सदा स्वस्तिभिस्स्वस्तिभिस्सदा नः। स्वस्तिभिरितिस्वस्तिभिः। सदा नो स्सदा सदानः न इति नः। हरिः ओम्।
[विशुद्धविज्ञानधनस्वरूपं विज्ञानविश्रयानबद्धदोत्मम्। दयानिधिं देहमृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये] श्लोक :- विशुद्धविज्ञानधनस्वरूपं विज्ञानविश्रायानबद्ध दीत्मम्।
?0दयानिधं देहमृगं शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥
महतो हर्षस्य अवसरः यदत्र तिरुपतिस्थकेन्द्रीयसस्कृतविद्यापीठे ध्वनियन्त्रारोपणद्वारा यश्च व्याकुरूते वाचं मश्च मीमांसतः अध्वरम्। तावुशो प्र?धितौ लोके पङ्क्तिपाव न पावनौ। इत्युक्तरीत्या अत्युस्तमं — पूर्वमीमांसाशास्त्रं संरक्षते इति। अस्यां योजानायां महयं विषय द्वयं निर्दिष्टमस्ति। तत्र भाट्मीमांसकमते शाब्दबोध प्रक्रियेति विषययवसख्य अधुना प्रस्तूयते।
?0"शाब्दबोधप्रक्रिया"
यन्त्ररोपेण दिवस -
16 - 6 - 87
डा. एन्. आर्. कुमार
शब्दजन्बोधः शाब्दबोधः। शब्दशब्देन पदसमूहरूपं वाक्यमुच्यते। तथाच, वाक्यप्रयोगानन्तरं श्रुतात् वाक्यात् जायमानः अनेकपदार्थसंसर्जावगोहो बोधः शब्द बोध इति व्यवह्नियते। तत्र मुख्यविशेष्यतया को भासते इत्यत्र विप्रतिपद्यन्ते तीर्थकराः।
प्रश्न :- (1) :- महाशयाः। भाट्मीमांसकः केन कारणेन शाब्दबोधे भावनायाः मुख्यविशेष्यत्वं अङ्गीकुर्वन्ति ?
साम :- (1) :- कार्यकारणभवलाघवं मूलयुक्तिं अवलम्बमानाः भाटमीमांसकाः (चैत्रः- पचति इत्यादौ) अधेयतासंबन्धेन चैत्र्?विशिष्ठा पाककर्मकमावना इत्येवं आख्यातार्थभावनाविशेष्यकः शाब्दबोध, इति कथयन्ति।
वैनयाकरणास्तु, निरूक्तमहाभाष्यादिवचनं प्रमाणीकुर्वन्तः तदुपोद्बलकयुक्तिजातञ्च निरूपयन्तः धात्वर्थ मुख्यविशेष्यकं बोधं प्रतिपन्नाः (कृत्या श्रयचैतनिष्ठः पाकः) इतिवर्णयन्ति।
नैयायिकास्तु चैत्रः पचति इत्यत्र पाकानुकूलकृतिमान् चैत्र इत्येवं प्रधमान्तमुख्यविशेष्यकशाब्दबोध इति वर्णयन्ति।
तदिह भाट्टरहस्यादिग्रन्थोक्तरोत्या मीमांसकमतं विविध्य, प्रदर्श्यते। तण्डुल मित्यादीनि द्वितीयाद्यन्त पदानि विनाक्रियापदं निराकाङ्क्षबोधं न जनयन्ति, इत्यविवादम्। अतो ज्ञायते क्रियापदं तण्डुलं इत्यादि द्वितीयान्तादिपदार्थस्य विशेष्यसमर्पकमिति।
तण्डुलमित्यादिपदोत्तरद्वितीयाद्यर्थश्च प्रातिपदिकार्थस्य विशेष्यः। प्रकृतिप्रत्ययौ सहार्थं ब्रूतः तयोस्तु प्रत्ययः प्राधान्येन इति व्युत्पत्तेः। तिडन्तधटक्यातौरर्थस्यापि आख्यातार्थ एव विशेष्यः। निरूक्तव्युत्पत्तेः। आख्यातस्य च काल, संख्या, कृत्यपरपर्यायभावना चेति सन्ति बहवोऽर्थाः। तेष्वपि भावनैव विशेष्यः। तत्रैव आख्यातार्थकालसंख्यादिकं विशेषणतया भासते। भावप्रधानं आख्यातं इति स्मृतिः।
प्रश्न :- (2) :- भावप्रधानं आख्यातं इति स्मृतौ भावशब्देन किं भावना अभिधीयते ? उत धात्वर्थः अथवा कर्तृत्वादयो धर्माः ?
समा :- (2) :- अत्रेदं प्रतिपाद्यते। धात्वर्थः केवलश्शुद्यो इत्यभिधीयते इत्यनेन भावशब्देन धात्वर्थस्येव ग्रहपात् भाव प्रधानमाख्यातं इति स्मृत्या कथं भावनामुख्य विशेष्यकत्वलाभ इति। न चेयं स्मृतिः आख्यातार्थभावनायाः भावशब्दितयात्वर्थनिरूपितविशेष्यत्वमात्रं बोधयितुं प्रवृत्ता, न तु काला द्यनेकार्वानां मुख्यविशेष्यत्वबोधनार्थमिति वाच्यम्। प्रकृतिप्रत्ययो सहार्थं ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन इति स्मृत्येव सामान्यतः भावनायाः धात्वर्थनिरूपितविशेष्यत्वसिद्ध्या भावप्रधानं इति स्मृतेस्तदर्थत्वेवैयर्ध्यापातात्। एवञ्च भावप्रधानमाख्यातं इति स्मृतिगतभावपदेन धात्वर्थस्येव गृहीतुमुचिततया कथं भावनामुख्यविशेष्यकत्वलाभ इति। चेन्न।
प्रकृतिप्रत्ययो सहार्थं ब्रूतः तयोस्तु प्रत्ययः प्राधान्येन इत्यनुशासनेन प्रत्ययार्थभावनाविशेष्यकत्वप्रतीत्या तद्विरन्दधार्थकल्पनाया अयुक्तत्वात्, नात्र् भावपदस्य धात्वर्त्यत्वं संभवति। अपि तु भवनापरत्वमेवेति तस्या
मुख्यविशेष्यत्वसिद्धिः।
किञ्च, भवपदं वैयाकरणैख धात्वर्थे परिभाषितम्। सापि परिभाषा व्याकरणशास्त्रेऽपि सर्वत्र न प्रवर्तते। किन्तु ‘भावेघञ्’ त्रैव इत्यत्रैः न तु तस्य भावस्त्वतलौ इत्यत्र। निरूक्तस्मृतिगतं भावपदं धात्वर्थपरं इत्यत्र नास्ति प्रमाणम्। तस्मात् णिजन्तभूधातोः अच् प्रत्यायान्तत्वव्युत्पत्या भवनानुकूलव्यापाररूपा भावनैव भावपदेनोध्यते। आख्यातार्थेषु भावनाकालसंख्या दिषु कस्य प्राधान्यं कस्य गुणत्वं इति विचिकिल्यायां भावप्रधानमाख्यातं इति स्मृतिः भावनातिरिक्ताख्यातार्थं प्रति आख्यातार्थभावनायाः एव प्राधान्यं ब्रूते। इत्यं च धात्वर्थादीनां विशेष्यभूता भावनैव वाकयजन्यबोधे मुख्यविशेष्यतया भासते।
एतावता प्रबन्धेन केवलं तण्डुलं इत्यादि द्वितीयान्तपदाप्रयोगे क्रियापदसाकाङ्क्षत्वेपनङ्क्रिनया पदाध्याहारस्य आवश्यकतया क्रियापदस्य द्वितीयान्तपदार्थविशेष्य समर्पकत्वमुखेन भावनामुख्यविशेष्यकशाब्दबोधः प्रत्यपादि।
यदुक्तं आख्यातस्य कालसंख्याद्यनेकार्थेषु सत्स्वपि तेषु भावप्रधानमाख्यातं इति स्मृतो भावशब्देन धात्वर्थव्यतिरिक्तभावनाया एव मुख्यविशेष्यतया अभिधानात् चैत्रः पचति इत्यादौ भावनामुख्यविशेष्यक एव शाब्दबोधः, न तु प्रथमान्तमुख्यविशेष्यकः धात्वर्थमुख्यविशेष्यको वेति। तत्रेयं जिज्ञासा - ‘भावप्रधानमाख्यातं’ इति स्मृत्या भवनानया यदि मुख्यविशेष्यत्वं ब्रूयात्, तदा आख्यातार्थेषु, कस्य गुणत्वंः कस्य प्राधान्यंः इति जिज्ञासायां, आख्यातार्थसंख्याद्यपेक्ष या भवनायाः प्राधान्यं बोधयति इयं स्मृतिः इति वक्तुं शक्यतेः तदेव न सङ्गछते। तथासति ‘चैत्रः पचति’ इत्यत्र आख्यातार्थ संख्यायाः भावनायां स्वाश्रयसमवेतत्वरूपपरम्परा संबन्धनैव अन्वयस्य, चैत्रेण ओदनः पच्यते इत्यत्र स्वाश्रयोदनवृत्ति विक्लत्तिजनकपाकानुकूलत्वसबन्धेन अन्वयस्य च वाच्यतया, तत्र तत्र संबन्धाधिक्येन शाब्दबोधस्य अधिकविषयतया गौरवापत्तेः।
यद्पत्र प्रथमार्थस्येव मुख्यविशेष्यत्वं, तदा न गौरवं भवति। चैत्रः पचति इत्यादौ पाकानुकूलकृतिमान् एकत्वाश्रयः चैतः, इत्येवकेवलेन आश्रयतासंबन्धेनैव संखयाः प्रथमान्तार्थे, अन्वयोपपत्तेः। इत्यं च ‘भावप्रधानं इति स्मृतो भावपदेन कर्तृत्वादयो धर्मा एव यथायोग्यं तत्रतत्र उच्यन्तेः न तु भावनेति, लाधवात् प्रथमान्तार्थमुख्यविशेष्यकः शाब्दबोध एव युक्तः, न भावनामुख्यविशेष्यक इति।’
समाधानम्—भावनायां आख्यातार्थसंख्यायाः स्वाश्रय समवेतत्वसंबन्धेन अन्वयाभ्युपगमः अपि शाब्द बोधस्य अधिकविषयतया गौरवं न वक्तुं युज्यतेः यतोडि नैयायिकैरपि ‘चैत्रेण सुध्यते’ इत्यत्र भावाख्यातस्थले प्रथमान्तपदाभावात्, सुध्यते इत्यस्य स्वापः क्रियते इति विवरणाच्च भावाख्यातेनापि भावना बोध्यते इत्यङ्गीकारात्, भवनायामेव संख्यायाः स्वाश्रयादिधटित परम्परासंबन्धेनान्वयात्, तदनुसारेण अन्यत्राणि तधान्वयोपपत्ते।
यदि तत्र चैत्रादिपदोत्तरं एकवचनं साधुत्वार्थ इत्युच्?येतः तदा प्रकृतः अपि समानमिति अनुभवानुसारेणैव तत्र तत्र शाब्दबोधस्य इष्यमाणतया गौरवाभावेन न भावनामुख्यविशेष्यकशाब्दबोधानुपपत्तिः।
उक्तञ्च शिरोमणिभट्टाचार्यैः आख्यातवादे - - ‘चैत्रेण सुष्यते’ ‘गगनेन स्थीयते’ इत्यादौ प्रथमान्त पदाभावात्, धात्वर्थस्य भावनायां विशेषणतयैव अन्वयस्य व्युत्पन्नत्वात् भावनाविशेष्यविरहात् अनन्वितैव संख्या’ इति। अत्र भावनाविशेष्यविरहात् इत्यनेन भाव ना विशेष्यकबोधस्तत्र, न तु भावनाविशेषणकेतर विशेष्यको बोध इति लभ्यते। अन्यथा, भावनायाः अबोधादित्येव ब्रूयुः। युज्यते चायं बोध :- ‘भावप्रधानमाख्यातं’ इति स्मृतेः। इत्यं च भावाख्यातस्थले भावनामुख्यविशेष्यकशाब्दबोधस्य नैयायिकैरप्यभ्युपगमात्ः तभ्यायेन चैत्रः पचति इत्यादावपि भावनामुख्यविशेष्यकत्वं निराबाधं इति भावः।
प्रश्न :- चैत्रः पण्डितश्चैत्रः ‘इत्यादिप्रयोगे क्रियाभावात्, कथं भावनामुख्यविशेष्यकशाब्दबोधः घटते ?
समा :- अथ चैत्रः इत्नयादिप्रथमान्तपदस्य क्रियापदाकाङ्क्षायां प्रमाणाऽभावेन प्रथमान्तार्थस्य क्रियाविशेषणत्वं नास्तीत्याशङ्क्य समाधीयते ‘चैत्र’ इत्येतावन्मात्रेक्तौ, न निराकावङ्क्षशाब्द बोधो जायते। किं करोतिः इत्याद्याकाङ्क्षाया नियमेनोत्पादात्।
न च चैत्र इत्येतावन्मात्रस्य निराकाङ्क्ष शाब्दबोधाजनकत्वेऽपि, चैत्रः पण्डितः इति वाक्यात् पण्डिताभिन्न
चैत्र इति निराकाङ्क्षबोधः जायत एव प्रथमान्तार्थस्य क्रियासाकाङ्क्षत्वे प्रमाणाभावात् न भावनामुख्यविशेष्यक शाब्दबोधसिद्धिरिति बाध्यम्। ‘अस्तिर्भवन्ती परः प्रथमपुरुषः अप्रयुज्यमानोऽप्यस्ति’ इति कात्यायनस्मरणस्यैव एताद्विषये प्रभाणत्वात्।
यद्यपि निरूक्तानुशासनविरहेऽपि तत्र तत्र योग्यतानुसारेणैव क्रियापदं अध्याहर्तुं शक्यते, तथापि वेदे अस्त्यध्याहारनियमार्थत्वात् उक्तानुशासनस्य। अथवा, लोके प्रायः सर्वेषु वाक्येषु क्रियापदविशिष्टतयैव प्रयोगदर्शनात्, तदनुरोधेन केवलस्य चैत्रः’ इत्यस्य वा, चैत्रः पण्डित, इत्या देर्वा प्रथमान्तपदप्रयोगस्याऽपि क्रियापदसाकाङ्क्षत्वेन प्रथमान्तार्थस्यक्रियाविशेषणत्वमेव वक्तुमुचितंः न तु मुख्यविशेष्यत्वम्। इत्यं च प्रथमान्तार्थमुख्यविशेष्यकत्वभ्रमनिरास एव ‘अस्तिर्भवन्ती’ इत्याद्यनुशासनस्य फलं इति ध्येयम्।
प्रश्न :- ‘(4) :- अस्तिर्भवन्ती परः इति कात्यायनस्मृत्या, त्वं पण्डित’ इत्यत्र क्रियापदाध्याहारासिद्धेः कथं तत्र भावनामुख्यविशेष्यको बोधो भवति ?
समा :- (4) :- ?पण्डितश्चैत्र इत्यत्र अस्तिर्भवन्ती त्याद्यनुशासन बलात् यतो हि प्रथम पुरूषे अस्तिपदस्य अध्याहर्तुंयोग्यत्वेन कथञ्चित्, तत्र क्रियाध्याहारसंभवेऽपि, त्वं पण्डितः’ इत्यादौ, तदयोगयतया अध्याहारासंभवात्, ‘युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। इति सूत्रेण युष्मच्छब्दयोगे, असीति क्रिया पदाध्याहारसंभवेऽपि अप उपदर्शितकात्यायनवचनस्य तत्र अप्रमाणत्वात् न भवनामुख्यविशेष्यकशाब्द बोधः सङ्गच्छते 2 यद्यपि, ‘अस्तिर्भवन्ती परः’ इत्यत्र अस्मिपदं धातुमात्रस्य, भवन्तीपदं च लकारमात्रस्य उपलक्षकं इतयङ्गीकृत्य, त्वं पण्डित इत्यत्र निरुक्तवचनबलात्क्रियापदं अध्याहर्तुं शक्यतेः तथापि न विधौ परः शब्दार्थः’ इति न्यायेन अस्तिर्भवन्तीत्यादि विधायक वाकये लक्षणाया अयुक्तत्वात्, प्रकृते अस्तिपदेन न धातुमात्रं लक्षणया अभिधातुं शक्यते। अतश्च, ‘त्वं पण्डित’ इत्यत्र क्रियापदाध्याहारे प्रमाणाभावात् कथं भावनामुख्यविशेष्यक शाब्दबोधः उपद्यते।
नैयायिकैः ‘क्तः कर्तरी’ त्यादिसूत्रे स्पृष्टतया कर्तृवाचकत्वश्रवणेऽपि तस्य यथा उपलक्षणत्वमभ्युपगम्य लाप्यवात् आख्यातस्नय कृतिवाचकत्वमिष्यते तथैव अस्तिर्भवन्ती त्याद्य शासनस्याऽपि धातुमात्रोपलक्षकत्वोपपत्तेः।
यक्ष्यो ययोस्ममो दोष इति न्यायात्। इत्यञ्च नैयायिकानांमतेऽपि अनुशासनविशेषस्य लक्षणं विना निर्वाहानुपपत्तेः न विद्यौ परश्शब्दार्थ इति न्यायविरोधस्य मतद्वयेऽपि तुल्यत्वेन प्रकृते अस्तिर्भवन्तीत्यादि कात्या यनवचनस्यैव उपलक्षणविद्यया तत्र तत्र योग्यक्रियापदाध्याहारे प्रमाणत्वसंभवेन अहं पण्डित इत्या दौ भावनामुख्यविशेष्यकः शाब्दबोद्यो निराबाधः।
ननु उक्तानुशासनबलात्, ‘चैत्र’ इत्यादि प्रथमान्तपदानां अस्तिपदसाकाङ्क्षत्वः अपि, ‘अहं पण्डिताः’ ‘त्वं पण्डिताः’ इत्यादौ प्रथमपुरूषभिन्नस्थले, प्रथमान्तस्नय क्रियापदसाकाङ्क्षत्वे प्रमाणाभाव इति चेत्ः अत्र ब्रूमः एकं च समाधानं इदानां अस्माभिः प्रत्यपादि। अपरं समाधानं प्रतिपाद्यते। प्रातिपदिकार्थप्रकार कशाब्दबुद्धि त्वावच्छिनं प्रति विशेष्यतासंबन्धेन सुब्जन्योप स्थितिः कारणम् लिङ्गसंख्याव्यतिरिक्तसुवर्थ प्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति क्रियापदजन्योपस्थितिः कारणं, इति क्लप्तकार्यकारणग्भावोरेव तत्र क्रियापद साकाङ्क्षत्वे प्रमाणत्वात्।
अहं पण्डितः, त्वं ?पण्डितः’ इत्यादौ च निरूक्तकार्यकारणभावबलेन क्रिया पदमध्याह्त्य प्रथमाप्रकृत्यर्थः प्रथमाथे प्रथमार्थश्च क्रियायां विशेषणतया भासतेः इत्येव अङ्गीक्रियते। अतश्च तत्र सुब्जन्यो पस्थितेः लिङ्गसंख्याव्यतिरिक्तार्थस्नय च सद्भावात् प्रथमान्त प्रातिपदिकार्थप्रकारक एव शाब्दबोधः न तु तद्विशेष्यक इति भवः।
प्रश्न :- (5) :- प्रथमायाः संख्यातिरिक्तार्थः वर्तते वा ? न वा ?
समा :- (5) :- अथ उक्तस्थले प्रथमायाः संख्यातितिक्तार्थवत्वा भावात् संख्यायाश्च चैत्रादिप्रकृत्य?र्थविशेषणतयैव अन्वयात् प्रथमाप्रकृत्यर्थः कस्मिन् प्रथमार्थे विशेषणतया अन्वेतीति चेत्, अत्र वदामः। ‘प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा’ इत्यनुशासनेन प्रथमायाः संख्यातिरिक्तार्थवत्त्वावगमात्। संख्यावाचिका प्रथमा प्रातिपदिकार्थे प्रातिपदिकेन विवक्षिते तदुत्तरं प्रथमां भवति, इति अर्थवर्णनेवैरुप्यापत्तेः। तस्मात् प्रातिपदिकार्थ एव प्रथमर्थः। न तु संख्या।
प्रश्न :- (6) :- प्रथमायाः प्रातिपदिकार्थवाचकत्वे प्रकृतिप्रयोगस्य किं प्रयोजनम् ?
समा :- (6) :- प्रथमायाः प्रातिपदिकार्थवाचकत्वे, तदा प्रकृतेः कः उपयोगः, इत्यत्र इदानीं समाधीयते। प्रातिपदिकेनैव प्रकृत्यर्थ लाभात् किमर्थं प्रकृत्यर्थ वाचकत्वं प्रथमायाः स्वीक्रियतेः साधुत्वार्थं इति वक्तुं न शक्यते। अतः चैत्र पदस्पय स्वोत्तरप्रथमायाः चैत्ररूपार्थ विशेषतात्पर्यग्राहकत्वं इत्यङ्गीकर्तव्यम्। प्रथमायाः प्रातिपदिकार्थत्वं च उद्देश्यतावच्छेदक विधेयतावच्छेदकयोः भेदाभावेन प्रकृतिप्रत्ययार्थयोः अभेदसंसर्गेण पदस्परान्वयस्य अव्युत्पन्नत्वे न प्रथमार्थ एव चैत्रदिः आख्यातार्थभावनायां प्रकारतया भासते, इत्यङ्गीकारात् न काचिदनुपपत्तिः।
वस्तुतस्तु उपदर्शितरीत्या चैत्रादिपदस्नपय स्वोत्तरप्रथमायाः प्रतिपदिकार्थतात्पर्यग्रहकत्व कल्पने वैयर्ध्यापत्तेः। प्रकृतिप्रत्यययोः अन्वयदौर्धट्या त्त्या च। अभिहिते प्रथमा इत्यनुशासनबलात् लिङ्गसंख्याव्यतिरिक्तकर्तृत्वमेव प्रथतार्थः। तच्च आधेयतासंबन्धेन प्रकृत्यर्थचैत्रत्वावच्छिन्नन्वितं सत् भावनायां अन्वेतीति न काचिदनुपपत्तिः।
न च कर्तृत्वादेः आख्याताभिहितस्य भावनायां अन्वितत्वात् पुनः प्रथमया कर्तृत्वबोधनं व्यर्थं इति वाच्यम्। आख्यातेन चैत्रदिवत्तितया कर्तृत्वाबोधनात्, तथा कर्तृत्वबोधाय प्रथमया कर्तृत्वाऽभिधानस्य आवश्यकत्वात्।
न च प्रथमान्तपदेन चैत्रवृत्तित्वेन कर्तुत्व बोधनात् आख्यातेन सामान्यतः कर्तृत्वबोधः विफल इति वाच्यम्। यद्वृत्किरकत्वं स्वान्वयिक्रियाप्रतिपादेकन पदेन वृत्या प्रतिपाद्यते, क्त्वं प्रथमाप्रयोजकं अभिहितत्वं, इति भाट्टदीपिकायां खण्डदेवाचार्यैः कथनात् प्रथमायाः साधुत्वाय आख्यातेन सामान्यतः कर्तृत्वाभिधानस्य आवश्यकत्वात्।
कर्तृत्वं च अखण्डो धर्मः न कृतिमत्वम्। तथासति चैत्रैण पाकः क्रियते, इत्यत्र चैत्रेण पाकः इत्येता वतैव पाके चैत्रकर्तृकत्वबोधसंभवात्, ‘क्रियते’ इति पदप्रयोगः अनर्थकः स्यात्। अखण्डस्य कर्तृत्वस्य तृतीयाबोध्यत्वे तु, कृतिसाध्यत्वबोधनाय ‘क्रियते’ इति प्रयोगः सार्थकः भवेत्।
एवञ्च सुबन्तपदानां स्वार्थविशेष्यसमर्पकं क्रियापदम्। तत्रापि धात्वर्थस्य आख्यातार्थोविशेष्यः। तयोस्तु प्रत्ययः प्राधान्येन इति व्युत्पत्ते। आख्यातार्थेषु भावनैव विशेष्यः। ‘भावप्रधानमाख्या तम्’ इति निरूक्तस्मृतेः। इत्यञ्च वाक्यजन्यशाब्दबोधे भावनैव मुख्यविशेष्यतया भासते।
अपि च ओदनं पचति इत्यत्र प्रथमान्तपदाभावेन भावनाप्रकारकशाब्दबोधा संभवेन सामग्रीवशात् भावनाविशेष्यकबोधे बाधकाभावः। एवञ्च भावनायाः कुत्रचित् मुख्यविशेष्य तया भानस्य सिद्धत्वात्, सर्वत्रैव बोधे तस्या एव मुख्यविशेष्यतया भानं युक्तम्।
प्रश्न : (7) भानं युक्तं, इत्यनन्तर पठनीयं ?
श्रीमद्भिः यदुक्तां लिङ्गसंख्याव्यतिरिक्त सुबर्थप्रकारक शाब्दबुद्धित्वावच्छिन्नं प्रति क्रियापदजन्योपस्थितेः कारणत्वेन र्लिङ्गसंख्याव्यतिरिक्तस्य प्रतिपदिकार्थस्य कर्तृत्वस्य वा प्रथमार्थत्व संभवात् तादृशकार्यकारण भावानुसारेण अहं पण्डितः त्वं पण्डितः इत्यादौ क्रियापदाध्या हारप्रयोजकानुशासनाभावेऽपि कार्यकारण भावलाधवमनुसृत्य भावनामुख्यविशेष्यकत्वो पपत्तिरिति तत्रेदं जिज्ञास्यते। प्रातिपदिकार्थस्य प्रातिपदिकार्थस्य प्रातिपदिकेनैव लाभात् सुप् प्रत्ययस्य तत्र शक्तिकल्पनायाः अयुक्तत्वात् अनन्यलभ्यः शब्दार्थः इति न्यायात् न प्रथमायाः प्रातिपदिकार्थ वाचकत्वं संगच्छते। यद्यपि यथत्र चैत्रादिपदोत्तर प्रथमायाः प्रातिपदिकार्थवाचकत्वे चैत्रादिपदं तात्पर्यग्राहकमेव न वाचकमिति ना त्र अनन्य लभ्यश्शब्दार्थ इति न्यायस्य प्रवृत्तिरित्युच्येत तदा अनन्तानां प्रातिपदिकानां व्यर्थत्वापरपर्याय तात्पर्यग्राहकत्वकल्पनापत्या गौरवं स्यात्। डण्वं प्रथमायाः कर्तृत्ववाचकत्वमपि न युज्यते उक्तार्थानामप्रयोगः इति न्यायेन आख्याताभिहित कर्तृत्ववाचकत्वस्य प्रथमाविभक्तौ कल्पयितुम युक्तत्वात्। आख्यातेन सामान्यतः कर्तृत्?वबोधनः अपि चैत्र वृत्तित्वेन कर्तृत्वबोधार्थे प्रथमाविभक्त्या कर्तत्वाभिधानमावश्यकमित्यपि न युक्तम आख्यातार्थस्य कर्तृत्वस्य प्रथमान्तार्थे अन्वयेनैव चैत्रवृत्तिकर्तृत्वस्य लाभात्। इत्यञ्च प्रथमाविभक्तेः लिङ्गसंख्याव्यतिरिक्तार्थवस्यकत्वस्यैव वक्तुमशक्यत्वेन लिङ्गसंख्या व्यतिरिक्त सुबर्थप्रकारक शाब्दबुद्धित्वरूप कार्यतावच्छेदकस्याप्रसिद्ध या ताद्शकार्यकारणभावबलेन अहं पण्डित इत्यादौ
योग्य क्रियापदा ध्याहारस्थासं भाविततया भावनामुख्यविशेष्यकत्वं शाब्दबोधस्य कथं धटते इति।
अत्र समाधानम् - - -
प्रातिपदिकार्थ लिङ्गपरिमाण वचनमात्रे प्रथमा। इति सूत्रेण प्रथमा विधीयते तत्र प्रातिपदिकार्थे प्रथमा संख्यार्थे प्रथमा इत्येवमापिरूपेण सूत्रार्थवर्णने वैरूप्यन स्यात्। यद्यत्र प्रातिपदिकार्थे प्रथमा इत्येवंप्रकारेण अर्थः नाङ्गीक्रियेत तदा संख्यावाचिका, प्रथमा प्रातिपादिकार्थे प्रातिपादिकेन विवक्षिते तदुन्तरं प्रथमा भवति इति चार्थवर्णने वैरूप्यापत्तेः। तस्मात् प्रातिपदिकार्थस्य प्रथमार्थत्वमवश्यमभ्युपगन्तव्यम्। अन्यथा सूत्रार्थ वर्णने क्लेशापत्तेः अनन्यलभ्यश्शब्दार्थ इति न्यायस्तु नात्रप्रवर्तते प्रकृति प्रत्ययपोरूभयोरपि प्रातिपदिकार्थवाचकत्वानभ्युपगमात् एवञ्च अक्लेशेन सूत्रार्थवर्णनाय प्रातिपदिकस्य व्यर्थत्वाप स्पर्याय तात्पर्यग्राहकत्वकलपनेऽपि बाधकाभावात्। एवमत्र प्रथमायाः लिङ्गसंख्याव्यतिरिक्तकर्तृत्ववाचकत्वमपि अवश्यमेष्टव्यम् अन्यथा यद्वृत्तिकारकत्वं स्वान्वयि क्रियाव्रतिपादकेन पदेन वृत्या प्रतिपाद्यते तत्वं प्रथमाप्रयोजकत्व" मित्येवं प्रथमाप्रयोजकत्वस्य तत्र तत्र खण्डदेवाचार्यैः निष्कृष्टत्वात् आख्यातेन सामान्यतः कर्तृत्वबोधनः अपि विशिष्य चैत्रवृत्तित्वेन अबोधने प्रथमायाः असाधुतापत्तेः। इत्यञ्च यैः प्रथमायाः नियमेन संख्यावाचकत्वमिष्यते। तेषां पक्षे अन्यन्यलभ्यः शब्दार्थ इति न्यायमवांल्ब्य कार्थेत्यादिसूत्रार्थवर्णनक्लेशः।
प्रश्नः :- (8) :- भावनामुख्यविशेष्यकत्वे कार्यकारण भावलाधवातिरिक्तं मीमांसाशास्त्रप्रवर्तकानां पूर्वाचार्याणां वचनरूपं किञ्चित्प्रमाणं वर्तते वा ? न वा ?
समा :- (8) :- तद्भूतानां क्रियार्थेन समाम्नायः अर्थस्य ?तन्निमित्तत्वात् इति सूत्रमेव भावनामुख्यविशेष्यकत्वे प्रमाणम्। तथाहि :- तद्भूतानां - तेषु पदार्थेषु विद्यमानानां पदानां क्रियार्थेन भावनार्थेनसमाम्नायः- उच्चारणम्। अर्थस्य - वाक्यार्थस्य। तन्निमित्तत्वात् पदार्थनिमित्तत्वात् इति।
पदाभिहिताः पदार्थाः आकाङ्क्षादिसध्रीचीनाः वाक्यार्थं बोधयन्ति इति (समुदितसूत्रार्थः) अत्र सूत्रे क्रियया इत्युक्ते, क्रियाशब्दितधात्वर्थेन सह पदार्थान्वयः इति घीः स्यात्, ‘सा-माभूत् इति क्रयार्थेनेत्युक्तम्। अन्यथा धात्वर्थस्य क्रियापद मात्रेण लाभे, अर्थपदनिर्देशस्य सूत्रे वैयर्ध्यापत्तेः। तस्मात् आख्यातार्थ एव मुख्यविशेश्यः न प्रथमान्तपदोपस्थाप्यार्थः इति भावः।
प्रश्न :- (9) :- भोः। कण्णन् महाभागाः। किं प्रथमान्तार्थमुख्यविशेष्यकत्वपक्षे कार्यकारण भावे लाघवं ? अथवा भावनामुख्यविशेष्यकत्ववादिपक्षे - वा लाघवम्ः कथयन्तु भवन्तः।
समा :- (9) :- अथ कार्यकारणभावलाघवं अनुसृत्य, प्रथमान्तमुख्यविशेष्यक शाब्दबोध एव अङ्गीकर्तव्यः इत्याक्षेपस्य समाचानं सयुक्तिकं वर्ण्यते। तत्र प्रथमं नैयायिकमतं प्रस्तूयते। तिङुपात्तसंख्यायाः प्रथमान्तपदोपस्थाप्ये चैत्रपदार्थे अन्वयः, चैत्र इव मैत्रो गच्छति ‘इत्यत्र इवशब्दार्थसादृश्यविशेषणीभूते चैत्रादौ तादृशसंख्यायाः अन्वयाभावात्, तिङुपात्तसंख्या अन्यविशेषणीभूतप्रथमान्तपदोपस्थाध्ये अन्वेतोति फलितम्। एवञ्च आख्यातार्थभावनाया अपि - आश्रयतासंबन्धेन तत्रैवान्वयः युक्तः। कलादिव्यतिरिक्ताख्यातार्थप्रकारकशाब्द बुद्धि त्वावच्छिन्नं प्रति अन्यविशेषणीभूतप्रथमान्त पदजन्योपस्थितिः विशेष्यतासंबन्धेन कारणं, इतिकार्यकारणभावकल्पने लाघवात्।
इथं च चैत्रः पचति’ इति वाक्यात्, पाकानुकूलकृतिमान् एकत्वविशिष्टः चैत्रः इति प्रथमान्तार्थमुख्यविशेष्यक एव बोधः स्वीकर्तु उचितः इति नैयायिका भिप्रा यः।
?0?2अत्र भाट्टाः
आख्यातार्थकृतौ आधेयतासंबन्धेन आख्यातार्थवर्तमानादिकालान्वयस्येव प्रथमान्तार्थचैत्रादेरपि तेनैव संबन्धेन अन्वयस्यापि वक्तुं शक्यतया आख्यातार्थकृतेः प्रथमान्तार्थे विशेषणतयैव भाने नियामकाभावात् निरूक्तकार्यकारणभावः निग्रमाणकः। किञ्च, तिङुपात्तसंख्यायाः प्रथमान्तार्थे अन्वयात् तदनुरोधेन भावनापि तत्रैवान्वये लाघवं इति यदुक्तं, तदपि न साधीयः। चैत्र इति सुबेक वचनात्, एकत्वस्य शीघ्रं उपस्थितत्वात्, तस्य चैत्रे अन्वयेनैव निराकाङ्क्षत्वात् तिङुपश्यित संख्यान्वये आकाङ्क्षाविरहात्।
न च ‘चैत्रो मैत्रश्च गच्छतः’ इत्यत्र सुपा द्वित्वस्य अनुपस्थितेः आख्यातोपात्तद्वित्वस्य प्रथमान्तार्थे
अनव्यः आवश्यक इति वाच्यम्। तत्र आख्यातेन द्वित्ववत् चैत्रादि पदोत्तरसुपा प्रत्येकं एकत्वमपि बोध्यते। ततश्च एकत्वान्वयानुभवस्य द्वित्वान्वयानुभवस्य वा अशाब्दत्वं, वक्तव्यम्। तत्र च सुबुपात्तैकत्वान्वयबोध एव शाब्दः, न पदान्तरोपस्थापितद्वित्वान्वयानुभावः इत्येव कल्पयितुं उचितम्। सुबुपात्तैकत्वस्यसमा नपदोपात्तत्वात्।
अपि च आख्यातार्थसंख्याभावनोभय साधारण्येन कालाद्यतिरिक्ताख्यातार्थनिष्ठप्रकारतानिरूपित विशेष्यतासंबन्धेन आख्यातपदजन्यशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनामपदजन्या न्याविशेषणीभूतार्थ विशेष्यकोपस्थितिः विशेष्यतांसबन्धेन कारणं इति कार्यका रणभातः न संभति।
‘चैत्रो न पचित’ इत्यत्र भवद्भिः पाकानुकूलकृत्यभाववान् एकत्वविशिष्टः चैत्रः इत्याकारकबोधस्य स्वीकारात्, तत्र च नञर्थाभावस्य भावनाविशेष्यत्वात् प्रथमान्तार्थस्य संख्या विशेष्यत्वा च्च। चैत्रः पचति इत्यत्र आख्यातोपात्त संख्यापेक्षया चैत्रपदोत्तरसुबेकवचनात् एकत्वस्य झटिति उपस्थितत्वात् तादृश एकत्वस्य चैत्रे अन्वयादेव संख्याविषयकाकाङ्क्षायाः शान्तत्वात् तिङुपस्थितसंख्यायाः न प्रथमान्तार्थे, अन्वयः, तादृशस्थले आख्यातस्य संख्याभिन्नकालादिवा चकत्वमेव स्वीक्रियते। ततश्च कालादिव्यतिरिक्ता ख्यातार्थसंख्याप्रकारकशाब्द प्रथमान्तपदजन्योपस्थितिः कारणं, इत्येता दृशकार्यकारणभावस्य असंभवेन न प्रथमान्तमुख्य विशेष्यक शाब्दबोधसिद्धिः। तत्र किञ्चित् विचार्यते - प्रथमान्तपदजन्योपस्थिति कार्यतावच्छेदकं किं भावनान्वयबुद्धित्वं। (अर्थात् भावनाप्रकारकबुद्धित्वं उत संख्यान्वयबुद्धित्वं) इति विचार्यं प्रथमतः। तत्र आख्यातार्थभावनानवगाहिनः आख्यातार्थ संख्याबोधस्य कुत्राप्यनुदयेन भावनान्वयबुद्धित्वमेव प्रथमान्तपदजन्योपस्थितिकार्यतावच्छेदकं इति वक्तव्यम्। प्रथमान्तपदानुपस्थाप्ये च न संख्यान्वयबोधो भवति। व्याप्यधर्मावच्छिन जनकसामग्र्या कार्ये जननीये व्यापकथर्मावच्छिन्नजनकसामग्र्या अपेक्षणात्। संख्यान्वय बोधत्वव्यापक भावनान्वय बुद्धित्वावच्छिन्नजनिकायाश्च प्रथमान्तपदजन्योपस्थितैः तत्रा भावात्।
एवञ्च नियमेन चैत्र इत्यादि प्रथमान्तपदसत्वे असत्त्वे वा आख्यातार्थसंख्याप्रकारकबोधस्य व्यापके भावनाप्रकारकबोधानुसारेण अवश्याभ्युपगन्तव्यतया, तदनुरोधेन कालादिव्यतिरिक्ता ख्यातार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितिः कारणं, इत्येतादृशकार्यकारण भावसिद्धेः लाघवात् प्रथमान्त मुख्यविशेष्यक एव शाब्दबोधः अङ्गीकर्तव्यःः नु तु भावना मुख्यविशेष्यक इति चैत् ब्र अत्र वदा मः।
आख्यातान्तपदप्रयोगस्थले, आख्यातार्थ भावनानवगाहिसंख्याबोधस्य अनुदेयऽपि चैत्रः पचति इत्यत्र प्रथमान्तपदसत्त्वे, विभक्त्यपर्थसंख्या बोधस्यैव जायमानतया, तत्र संख्यायाः चैत्रादौ अन्वयेनैव निराकाङ्क्षत्वात्, तिङुपस्थितसंख्यान्वये आकाङ्क्षाविरहात्।
अत एव चैत्रः पचति इत्यादौ आख्यातैक वचनजन्यैकत्वोपस्थितिः न शाब्दबोधे हेतुः, मानाभावात्। आख्यातं विनापि सुबेकचचनात् एकत्वबोधसंभवात् इति निष्कर्षानुसारिणां आशयः गदाधर भाट्टचार्यैः प्रपञ्चितो व्युत्पत्तिवादे।
इत्थं च यत्र प्रथमान्तपदं नास्ति तत्र आख्यातेनैव संख्याभावनयोः बोधः दृश्यते यत्र च प्रथमान्तपदमात्रस्य प्रयोगः, तत्र केवल सुपा संख्याबोधः, यत्र चोभयं तत्र प्रथमा?विभक्तयैव बोधः इत्येवं अनुभवानुसारेण संख्याबोधस्याङ्गीकारात् क्रियापदाध्याहारवादिनां मीमांसकानां पक्षएवं संख्यान्वयबुद्धित्वस्य भावनाप्रकारकबुद्धित्वस्य च व्याप्यन्यापकभावस्य वक्तुं शक्यत्वेन, चैत्रः पचति इत्यत्र उभयस्यापि सत्वात् कार्यकारणभावलाघवानुरोधेन प्रथमान्तपदजन्योपस्थितेरकारणत्वात्, नात्र प्रथमान्तमुख्यविशेष्यकत्वं सिद्ध्यति।
एवं यदि कालादिव्यतिरिक्तनिपातासमभिव्याह्ताख्यातार्थ निष्ठ प्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिं प्रति ता दृशप्रथमान्तपदजन्योपस्थितेः कारणत्वस्वीकारात्, “चैत्रो न पचति” इत्यत्र प्रथमान्तार्थस्य भावनाविशेष्यत्वविरहेः अपि न क्षतिरि त्युच्येत, तदा, निपातसमभिव्या ह्ताख्यातार्थसंख्याः प्रथमान्तार्थे अन्वयो न स्यात् ; तत्स्थलीयसंख्यान्वयबोधस्य प्रथमान्तपदजन्योपस्थितिकार्यता वच्छेदकानाक्रान्तत्वेन सामग्रीविरहात्।
अथ तत्र निपातसमभिव्याह्ताख्यातार्थसंख्या निष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधे प्रथमान्तपदजन्योपस्थितिः कारणं, तादृशाख्यातार्थ भावनाप्रकारता निरूपितविशेष्यतासंबन्धेन शाब्द बोधे,
निपातपद जन्योपस्थितिः कारणं इति कल्पनया संख्याविशेष्यत्वं प्रथमान्तार्थस्य भावनाविशेष्यकत्वं च अभावस्य उपपादयितुं शक्यं इति उच्येतः तदा, अनेककार्यकारणभावकल्पननया गौरवं स्यात्। एवञ्च, तत्तत्स्थलानुरोधात् अन्यादृश कार्यकारणभावकल्पनायाः आवश्यकत्वेन अनेक कार्यकारणभावकल्पनागौरवं न कथमपि नैयायिकानां पक्षे परिहर्तुं शक्यते।
किञ्च अन्याविशेषणीभूतप्रथमान्त पदार्थे, कालाद्यतिरिक्ताख्यातार्थान्वयोऽपि न सङ्गच्छते। “चैत्र एव पचति” इत्यत्र चैत्रे एव आख्यातार्थसंख्याभावनयोरुभयोरपि अन्वयात् चैत्रस्य च एवकारार्थान्योगव्यवच्छेदैकदेशे भेदे प्रतियोगितया विशेषणत्वात्। अत्र हि चैत्रान्यः पाकानुकूलकृत्यभाववान् इति शाब्दबोधस्य अङ्गीकारेण अन्याविशेषणीभूतप्रथमान्तार्थे आख्यातार्थान्वय इति नियमानुपपत्तेः
यदि च धात्वथान्तिवताख्यातार्थस्य प्रथमान्तार्थस्य च वारद्वयं बोधे प्रवेश अङ्गीकृत्य चैत्रः पाकानुकूलकृतिमान्, चैत्रान्यः पाकानुकूलकृत्य भाववानरं इत्येवं बोधः इष्यते तदा, मुख्यविशेष्यस्य चैत्रस्य तदान्यस्य च भेदेन वाक्यार्थभेदात् वाक्यभेदापत्तेः।
यद्यपि नैयायिकैः अत्र चैत्रान्यावृत्तिपाकानुकूलकृतिमान् चैत्रः, इत्येवं बोधमङ्गीकृत्य, वाक्यभेद परिहारः कर्तु शक्यते, तथापि चैत्रपदार्थस्य आदीभेदादि विशेषणत्वेन अन्याविशेषणत्वानुपपत्तेः।
?B अत्रेदमाकूतम् प्रथमान्तमुख्यविशेष्यकत्ववादिनां पक्षे, चैत्रो न पचतीत्यत्र आख्यातार्थ कृतेः नञर्थाभावे अन्वयं अङ्गीकृत्य, पाकानुकूल कृत्यभावनान् चैतः, इति शाब्दबोधभ्युगगमे, ‘चैत्र एव पचति’ इत्यत्र चैत्रपदार्थस्य एवकारार्थेक देशे भेदे प्रतियोगितया विशेषणत्वं अङ्गीकृत्य, चैत्रान्यः पाकानुकूलकृत्यभाववान् पाकानुकूलकृतिमान् चैत्रः चेति चैत्रान्यावृत्तिपाकानुकूलकृति मान् चैत्र्?: इति वा बोधाभ्युपगमे, अन्याविशेषणोभूत प्रथमान्तादोपस्थाप्ये कालाद्यतिरिक्ताख्यातार्थान्वय इति नियमः प्रथमान्तपदोपस्थाप्ये एव आख्यातार्थान्वय इति नियमश्च न सङ्गच्छते। आद्य आख्यातार्थस्य नञर्थाभाव एवान्वयात्। चैत्र एव पचतीत्यत्र द्वितीये, एवकारार्थेकदेशभूतभेदे विशेषणीभूत चैत्रपदार्थे अन्वयाच्च।
एवञ्च, निपातासमभिव्याह्त आख्यातार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितिः कारणं, तत्समभिव्याहारे तु निपातपदजन्योपस्थितिः कारणं, इत्येवं भिन्नभिन्न कार्यकारणभावकल्पनपया गौरवं स्यादिति, चैत्र कर्तृकापाकानुकूला कृतिः, चैत्रनिष्ठाभावप्रतियोगिनो चैत्रवृत्तिः चैत्रय चैत्रान्यावृतिश्च एककर्तृका पाकभावना, इत्येवं भावनामुख्य विशेष्यकएव शाब्दबोधः स्वीकर्तव्यः इति। अत्रेदं विचार्चते। चैत्रो न पचति इत्यत्र
यद्यपि भावनायाः न नञर्थे, संख्यायाख्य प्रथमान्तार्थे अन्वयेन कार्यकारणभावान्तरकल्पनाप्रयुक्तगौरवं वर्तते एवः तथापि, भावनामुख्यविशेष्यकवादिनां मते पचत्यपि चैत्रे, चैत्रो न पचतोति प्रयोगस्य आपत्तिः। चैत्रकर्तृकपाकभावनायाः मैत्रनिष्ठाभावप्रतियोगित्वेन विषयाबाधात्।
अथ एतद्दोषपरिजिहीर्षया नञः चैत्रनिष्ठाभावे आख्यातस्य वा कृत्यभावे लक्षणा स्वीक्रियते, आख्यातस्य कृत्यभावे लक्षणापक्षे नञ्पदं तात्पर्यग्राहकं इत्युच्येतः तदा नञः मुख्यार्थे संभवति, व्यर्थत्वा परपर्यायतात्पर्यग्राहकत्वं कल्पनोयं इति स एव दोषः।
नञः चैत्रनिष्ठाभावलाक्षणिकत्वे तत्तत्यदजन्य लक्ष्यार्थोपस्थितेः शाब्दबोध हेतुत्वं कल्पनीयम्। एवञ्च, मीमांसकानां आख्यातपदजन्यलक्ष्यार्थोपस्थितिः कारणं इति पृथक् कार्यकारण भावकल्पनायाः आवश्यकतया न लाघवावकाशः।
किञ्च, नञा केवलशक्यार्थबोधस्नय कुत्राप्यजननात्, नञोलवणाकथनमप्यसमञ्जसम्। नञ्समभिव्याहारस्थलेषु नञः मीमांसकेः लक्षकत्व पदान्तरगतलक्षणातात्पर्यग्राहकत्वयोः अन्यतरस्यैव प्रतिपादनात्। इत्यञ्च, भावनामुख्यविशेष्यकत्ववादिनां पक्षे इव (प्रथमान्तमुख्यविशेष्यकत्ववादिना पक्षेः अपि) न कस्यापि प्रयोगातिप्रसङ्गस्यअप्रसङ्गस्नय वा अभावात्, तत्पक्षे कार्यकारण भावलाघवस्याः अपि विशेषतोः अभावाच्च। चैत्रो न पचति इत्यादौ प्रथमान्तमुख्यविशेष्यक एव पाकानुकूलकृत्यभाववान् चैत्र इत्येवं शाब्दबोधोः अङ्गीकर्तव्य इति चेत्ः न।
यद्यपि भवदुक्तरीत्या भाट्टमीमांसकमते, चैत्रो न पचतिइत्यत्र सामान्यतः चैत्रकर्तृकापाकभावना
अभावप्रतियो गिनो, इति बोधाभ्युपगमे पचतयपि चैत्रे न पचतीति प्रयोगापत्तिः। तद्वारणार्थं नञः चैत्र्?निष्ठाभावे आख्यातस्य वा कृत्यभावे लक्षणायाः स्वीकारात् नञः व्यर्थत्वापरपर्यायतात्पर्यग्राहकत्वादिकं कल्पनीयं भवतीति चैत्रः पचतीति संप्रतिपन्नस्थलवत् वाक्यार्थनिर्वाहः न कर्तुं शक्यते, तथापि, नैयायिकवत् ‘चैत्रः पचतीति’ इत्यत्र आख्यातार्थप्रकारकशाब्दबोधं प्रति प्रथमान्त पदजन्योपस्थितिः कारणः ‘चैत्रो न पचति’ इत्यत्र तु निपातपदजन्योपस्थितिः कारणं, इत्येवं भिन्नभिन्न कार्यकारणभावः नास्माभिः कल्प्यते। नञर्थस्य चैत्र निष्ठाभावस्नय प्रतियोगितासंबन्धेन ‘चैत्रो न पचति’ इत्यत्र आख्यातार्थभावनायामेव इतरार्थान्वयवत् अन्वयस्वीकारात् नात्र विभिन्नकार्यकारणभावकल्पनाप्रयुक्तगौरवं वक्तुं युज्यतेः परन्तु नैयायिकानां पक्षे, नञः लक्षणा नास्ति। अस्माभिस्तु तत्र लक्षणा स्वीक्रियते, इत्येतावदन्तरमुभयोः। तत्र धात्वर्थादिप्रकारकशाब्दबोधं प्रति, आख्यातपदजन्यार्थोपस्थितेः कारणत्पस्य “चैत्रः पचति” इति स्थलानुसारेण क्लप्तत्वात्, तच्छरीरे प्रकृतस्थलानुसारेण, केवलस्य लक्ष्यार्थोप?स्थितेः इत्यंशस्य निवेशे ?नैयायिकवत् अत्यन्तं विलक्षणस्कार्य कारणभावस्यः कल्पनया गौपरवाभावात्। आख्यातस्य कृत्यभावे लक्षणापक्षे नञ्पदस्य तात्पर्यग्राहकत्वकल्पनं न दोषात् भवति। नैयायिके रिप ‘गभीरायां नद्यां धोषं’ इत्यादिस्थलेषु पदार्थेकदेशान्वयापत्तिभिया नदीपदस्य गभीरनदीतोरेलक्षणायां गभररपदस्य तात्पर्यग्राहकत्वाभ्युपगमात्।
इत्यं च स्थलविशेषे शाब्दबोधनिर्वाहापय उभाभ्यामपि तत्रतत्र पदानां अगत्या, व्यर्थत्वापरपर्यायतात्पर्यग्राहकत्वकल्पनायाः अङ्गीकारात् उभयोरपि पक्षयोः दोषाभावात्।
अतश्च भावनामुख्यविशेष्यकत्ववादिनां पक्षे कार्यकारणभावताघवस्य स्फुटत्वात् लक्षणायाश्च भिन्नकार्यकारणभावकल्पनाप्रेक्षया गौरवाभावाच्च न किञ्चिद्बाधकम्।
किञ्च, प्रौढिवादेनापि चैत्र एव पचति इत्यत्रद्वेधा शाब्दबोधो न संभवति। कुत इति चेत् चैत्र मैत्रयोः भिन्नभिन्नकर्माण व्यापृतत्वावस्थायां चैत्र मैत्रो कादृशो इति प्रश्ने चैत्रे पचति, मैत्रे च (क्रिडति) सति, चैत्रः पचति, मैत्र कीडति इत्येव उत्तरं दातव्यम्। इदानीं मैत्रे पाकानुकूल कृत्यभावस्य अबा(धितया) चैत्र एव पचति इत्यस्याप्युत्तरत्वापत्तेः।
यद्यत्र सामान्यतः चैत्रान्यस्मिन् पाकानुकूल कृत्यभावबोधस्येव ‘चैत्र एव पचति,’ इति वाक्यात् जायमानतया, विशिष्य, मैत्रे प्रातिस्विकरुपेण बोधानुदयात् नोक्तवाक्यस्य उत्तरत्वापत्तिः इत्युच्येत, तदापि कीदृशौ चैत्रतदन्यो इति प्रश्नस्नय उत्तरत्वापतत्तेर्दुर्वारत्वात्।
किञ्च, प्रथमा?न्तार्थविशेष्यकबोधस्वीकारे, चैत्रः कीदृश इति प्रश्ने, चैत्रः प्रचतीति वाक्यं अत्तरं स्यात्। तेन चैत्रविशेष्यकस्य पाकभावनाप्रकारकस्यबोधस्य जननात्।
न च भावनाविशेष्यकबोध पक्षेः अपि ‘चैत्रः पचति’ इति वाक्यं, कीदृशी कृति ? इति प्रश्नस्य उत्तरं कुतोन स्यात्, चैत्रकर्तृकपाककृतेः बोध कत्वात् इति वाच्यम्। स्त्रीलिङ्गविशिष्टकृतिविषयक प्रश्नस्य स्त्रीलिङ्गविशिष्टकृतिबोधकपदघटितमेव उत्तरवाक्यं भवितुमर्हति। आख्यातोपात्ता कृतिस्तु लिङ्गानन्वयिनीति न चैत्रः पचति इति वाक्यं उत्तरं भवति।
अनया च सरण्या प्रथमान्तार्थविशेष्यकत्व बोधपक्षे चैत्रः कीदृश इति प्रश्नोत्तरत्वापत्तिवारणं न संभवति। मुख्यविशेष्यस्य चैत्रस्य लिङ्गसंख्यादिविशिष्टस्यैव चैत्रः पचतीति वाक्येन बोधात्। तस्मात् आख्यातार्थभावनाप्रकारक प्रथमान्तार्थमुख्यविशेष्यकबोधा’ न सङ्गच्छते।
प्रश्न :- (9) भोः। भावनामुख्यविशेष्यकत्ववादिमते भावनायाः एकत्वेः अपि तत्र तत्र संबन्धभेदेन कार्यकारण्?ाभावभेदात् कार्यकारणभावे लाघविं अस्तीत्युच्यतेः तत्कथं भवति ?
समा - (9) अथ भावनायाः एकत्वेः अपि संबन्धभेदेन कार्यकारणभावानन्त्यं भवति। अतोः अत्र भावना मुख्यविशेष्यकशाब्दबोधवादिमते, न कार्यकारणभावलाघवं वर्तते, इत्याशङ्क्य समाधीयते। तथाहि - - - सर्वत्र विशेष्यभावनाया एकत्वेः अपि तत्र तत्र संबन्धानां विलक्षण्?ात्वात्, तत्तत्संसर्गक बोधे तत्तत्समभिव्याहारज्ञानस्य कारणता कल्पनीनया कार्यकारणभावानन्त्यं भवति। परन्तु भावनामुख्यविशेष्यकत्व वादिभिः तत्र तत्र प्रथमं संबन्धत्वेनैव संबन्धः संसर्गमर्यादया भासते। तदनु ता दृशसंबन्धः कः ? इति विश्?ोष्यजिज्ञासायां प्रमाणान्तरेण
संबन्धविशेषतात्पर्येः अवधृते संबन्धविशेषविषयकशाब्दबोधो जायते इत्यङ्गीकारात् नात्र विलक्षणसंबन्धभानप्रयुक्तकार्यकारणभावानन्त्यं वक्तुं शक्यते। यथा घटवत् द्रव्यं इति वाक्यात् मत्वर्थद्रव्य विशेष्यकः घटप्रकारकः शाब्दबोधो जायते, तत्र च संबन्धः संबन्धत्वेन संसर्गमर्यादया भासते, न तु विशिष्य संयोगसमवायत्वादिना। अत एव संयोगेन घटाभाववद्द्रव्यं इति ज्ञानदशायामपि घटवद्द्रव्यं इति वाक्यजबुद्धिरनुभवसिद्धा उपपद्यतेः एवमेव प्रकृतेः अपि वर्तमानकालवती भावना इति शाब्दबोधे, संबन्धविशेषः विशिष्य न संसर्गमर्यादया भासतेः अपि तु संबन्धत्वेनैव। तदन्तरं विशिष्य संबन्धावगतौ सत्यां विशेषे बोधः पर्यवस्यति। एवञ्च, संबन्धसामान्यसंसर्गककालप्रकारकभावनाविशेष्यकबोधे ता दृशशतिङ्समभिव्याहारज्ञानं कारणं इत्येक एव कार्यकारणभाव इति न तदानन्त्यम्।
एवं कर्त्राख्यातस्नय त कर्तरि, कर्माख्यातस्य कर्मणि च निरुढलक्षणा अभ्युपगन्तव्या। कुत इति चेत्, पचति इत्येतावान्मात्रश्रवणेः अपि पाककर्ता एको न वेति, संशयो नोदेति। उदेति च पाककर्ता क इति जिज्ञासा। एवञ्च, पचतीत्यतःयाककर्तृबोधं विना नैतदुभयं उपपादयितुं शक्यते। अतः कर्तृबोधाय आख्यातस्यकर्तरि लक्षणस्वीकार आवश्यकः। एवं चेत्, कर्तरि लकारविधयकमनुशासनमपि सङ्गतं भवति। ईदृशकतार्पि स्वनिष्ठकर्तृतानिरूपकत्व संबन्धेन भावनायामेव अन्वेति। इत्यमत्र कार्यकारणभावानन्त्य परिहारमुखेन भावनामुख्?यविशेष्यकशाब्दबोधःन्यरूपि।
प्रश्न :- (10) भोः। प्रथमान्?तपदासमभिव्याह्तस्थले ‘पचति’ इत्यत्र कथं शाब्दबोधः भवति ?
समा :- (10) तत्र प्रथमान्तपदासमभिव्याह्तस्थले पचतीत्यादौ धात्वर्थः पाकः कर्मतासंबन्धेन भावनायां अन्वेति, न तु अनुकूलतासंबन्धेन। पचतीत्यस्य पाकं करोतीति विवरणदर्शनात्। आख्यातार्थसंख्यापि सामानाधिकरण्यसंबन्धेन तस्यामेवान्वेति। कालोः अपि आधेयतासंबन्धेन तत्रैवान्वेति। आख्यातलक्ष्यकर्तापि तत्रैव स्वनिष्ठकर्तृतानिरूपकत्वसंबन्धेनान्वेति। इत्यं च वर्तमानकालिकभावना कर्मत्वसंबन्धेन पाकविशिष्टा स्वनिष्टकर्तृतानिरूपकत्वसंबन्धेन कर्तृविशिष्ट, सामानाधिकरण्यसंबन्धन एकत्ववतो चेति शाब्दबोधः। ‘चैत्र’ ओदनं पचति इत्यत्र तु ओदनस्य कर्तत्वेनान्वितत्वात् पाकः करणत्वेन भावनायां अन्वेति। पाकेन ओदनं करोति इति विवरणात्।
न च पाकं प्रति कृतैः करणतया कृतिनिरूपितकरणत्वस्य पाके अयोगात् तस्य करणतया भावनान्वयो न युज्यत इति वाच्यम्। स्वनिष्ठकरणतानिरूपकौदनोद्देश्यकत्वसंबन्धेन पाकस्य भावनायां अन्वयस्वीकारात् करणत्वस्य संसर्ग घ्?ाटकत्वात् संसर्गत्वव्यवहारोपपत्तेः। ओदन पदोत्तरद्वितीनयायाः कर्मत्वं संख्या चार्थः। तत्र कर्मत्वे संख्या सामानाधिकरण्यसंबन्धे नान्वेति। समानपदोपात्तत्वात्। तथा प्रकृर्त्योः अपि तत्र आधेयतासंबन्धेनान्वेति। कर्मत्वं च स्वनिस्पकपाकानुकूलत्वसंसर्गेण भावनायां अन्वेति।
न च द्वितीयार्थकर्तत्वं निरूपकत्वेनसाक्षात् संबन्धेन धात्वर्थे एव अन्वेतु इति वाच्यम्। पाकं करोति, पाकेन ओदनं करोति इत्यादिविवरणात् धात्वर्थे करोत्यर्थभावनाकारकत्वस्य प्रतीयमानत्वात् तदनुसारेण द्वितीयार्थस्य परम्परासंबन्धेन भावनायामेव अन्वयः उचितः।
किञ्च, धात्वर्थसाधारण्येन कारकप्रकारक शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यता संबन्धेन लिङ्गानन्वयिपदजन्योपस्थितिः कारणं, इत्येक कार्यकारणभावकल्पने लाघवात् तदनुरोधेनापि कर्मत्वादीनां भावनायामेव योग्येन संबन्धेनान्वयो युक्तः। अन्यथा अनेककार्यकारण भावकल्पनागौरवात्।
एवं धान्वर्थपाकान्वयार्थं उपस्थितं भावनाविशेष्यत्वमिति तस्यैव कर्मत्वादिप्रकारतानिरूपितत्वं कल्पयितुं उचितम्ः न त्वनुपस्थितस्य धात्वर्थविशेष्यत्वस्य।
इत्यं च ‘चैत्र ओदनं पचति’ इत्यत्र चैत्रकर्तृका सामानाधिकरण्यसंबन्धेन एकत्वविशिष्टं यदोदनवृत्तिकर्मत्वं स्वनिरूपकपकानुकूलत्वसंबन्धेन तद्विशिष्टा स्वनिष्ठकरणतानिरूपकैदनो द्देश्यकत्वसंबन्धेन धात्वर्थ पाकविशिष्टा सामाधिकरण्य संबन्धेन एकत्ववती(च) वर्तमानकालिकभावनाप इति शाब्दबोधः। ‘चैत्रेण ओदनः पच्यते’ इत्यत्रतु सामानाधिकरण्येन एकत्वविशिष्टं यत् चैत्रवृत्तिकर्तृत्वं, स्वनिरूपकपानुकूलत्वसंबन्धेन तद्विशिष्टा एकत्व विशिष्टं यदोदनवृत्तिकर्मत्वं, स्वनिरुपकपाकानुकूलत्वसंबन्धेन तद्विशिष्टा, एकत्व विशिष्टं
यदोदनवृत्तिकर्मत्वं, स्वनिरुपकपाकानुकूलत्वसंबन्धेन तद्विशिष्टा, स्वनिष्ठकरणतानिरूपकौदनोद्देश्यकत्व संबन्धेन पाकविशिष्टा स्वाश्रयोदनवृत्तिविक्लत्तिजनकपाकानुकूलत्वस्यसामानाधिकरण्यसंबन्धेन एकत्वविशिष्टा च वर्तमानकालिक भावना इति तत्र शाब्दबोधः।
एवं, ‘चैत्रेण सुप्यते’ इति भावाख्यातस्थपले चैत्रकर्तृका एकत्यविशिष्टस्वापवती स्वापभावना इति शाब्द बोधः। भावाख्यातेनापि भावना बोध्यते मीमांसकैः स्वीक्रियते। तत्र कारणं चैत्रेण स्वापः क्रियते’ इति विवरणदर्शनमेवाधात्वर्थञ्वापोः अपि आख्यातार्थः भावे चाकर्मकेभ्यः ‘इत्यनुशासनात्। सोः अपि भ्?ावनायां अन्वेति। द्वितीयावारं स्वापबोधः अत्र साधुत्वार्थः।
इत्यं च भावाख्यतस्थले आख्यातस्नपय अनुशासनबलात् भावार्थवाचकत्ववत् ‘चैत्रेण स्वापः क्रियते’ इति विवरणबालात् भावनावाचकत्वस्यापि आवश्यकतया तत्रापि भावनामुख्यविशेष्यकशाब्दबोधः सिद्ध्यति।
प्रश्न :- (11) भोः कण्णन् महाशयाः। ‘चैत्रः पचति’ इत्यादौ धात्वर्थस्य साक्षात् अनुकूलत्वसंबन्धेन आख्यातार्थकृतौ अन्वयः, तथाकृतेश्च साक्षात् आश्रयतासंबन्धेन चैत्रपदार्थे अन्ययश्च मीमांसकेः नेष्यते। अत्र किं कारणं पस्यन्तु भवन्तः।
समा :- (11) अत्रेदं प्रतिपाद्यते - नैयायिकाः यथा, चैत्रःपचति’ इत्यादौ धात्वर्थस्य साक्षात्संबन्धेन (अनुकूलत्वसंबन्धेन) आख्यातार्थकृतो अन्वयः। तस्याश्च साक्षात् आश्रनयतासंबन्धेन चैत्र्पदार्थे अन्वयः, इत्येवं अनुभवानुसारेण व्युत्पत्तिभेदं अङ्गीकृत्य, तस्य तस्य पदार्थस्य योग्येन साक्षात्संबन्धेन स्वस्वविशेष्ये, अन्वयः इति कथयन्तिः, तथैव मीमांसकैरपि अन्वयस्य वक्तुं शक्यत्वेन ‘ओदनं पचति’ इत्यादावपि कर्मत्वस्य केवलनिरूपकत्वरूपसाक्षात्संबन्धेन धात्वर्थे पाके एव अन्वयसंभवात् तादृशसरणिं विहाय कर्मत्वस्य स्वनिरूपकपाकानुकूलतवसंबन्धेन भावनायां अन्वयः कुत उच्यते ? अक्लेशेन अन्वयसंभवे गुरूभूतसंबन्ध्?ोन भावनान्वयः अग्रान्थिकत्वसूचकश्च स्यात्। अतश्च मीमांसकानां मते संबन्धस्य गुरुत्वेः अपि कार्यकारणभावलाघवानुसारेण सर्वेषां भावनाः अन्वयः, इति कथनेःअपि अनुभवविरोधो भवतीति केषाञ्चित्यर्यनुयोगः अवशिष्यते। तत्र मीमांसकानां अभिसन्धिः निर्दिश्यते। तथाहि—
यदि अत्र साक्षात्संबन्धेनैव धात्वर्थादौजन्वयः इष्यते, तदा, नैयायिकैरपि राजपुरुष इति। समास स्थले, नामार्थयोरपि स्वस्वामिभावरूपभदसंबन्धेन पुरूषे अन्वयसंभवात्, तत्र पूर्वपदस्य राजसं?बन्धिनि लक्षणा न स्वीक्रियेत। इष्यते च तत्र नैयायिकैः राजसंबन्धिनि लक्षणा।
एवं ‘यजेत स्वर्गकामः इत्यादो यागै प्रतीयमानस्य स्वर्गसाधनत्वस्य मानसबोधविषयत्वं स्वीकृत्य क्लप्तव्युत्पत्तिबलात् इष्टसाधनयागानुकूलकृति मान् स्वर्गकामः इति प्रथमान्तमुख्यविशेष्यकशाब्दबोध स्वीकारोः अपि नैयायिकानां न संगच्छेत।
अत्र ?हि ‘यजेत’ इत्यत्र प्रकृतेः ‘धातो यागः अर्थः। विविधप्रत्ययस्य इष्टसाधनत्वं अर्थः। आख्यातस्य भावना अर्थः। आख्यातार्थकृतौ इष्ट साधनन्वस्य साक्षात्संबन्धेन अन्वयः न संभवति। यतो हि यागस्यैव स्वर्गरूपेष्टसाधनत्वात्। तस्यैव साक्षात् तादृशेष्टसाधनत्वा श्रयत्वेन, तस्य कृतौ साक्षादन्वया संभवात्। अतोः इष्टसाधनयागानुकूलत्वसंबन्धेनैव इष्टसाधनत्वरूपविध्यर्थस्य कृतौ अन्वयो वक्तव्यः। एवं सति, मीमांसकोक्तमार्गविलक्षणत्वं न स्यात्। एतैरपि ता दृशस्थले परंपरासंबन्धेनैव अन्वयाभ्युपगमात्। इत्यञ्च स्थलविशेषानुरोधेन नैयायिकैरपि गुरुभूतसंबन्धेन अन्वयाभ्युपगमात् कार्यकारण भावलाघवानुसारेण सर्वत्रैव तथान्वयाङ्गीकारे बाधकाभावात् उपदर्शितरीत्या अन्वयो नानुपपन्नः।
किञ्च, पचतीत्युक्ते, पाफं क्येति, ओदनं पचतीत्यत्र च पाकेन ओदनं करोति इति रीत्या विवरणदर्शनात् एकत्र धात्वर्थपाकस्नय कर्मत्व संबन्धेनान्वयः, अपरत्र स्वनिष्ठकरणतारिनिरूपकोदनोद्देश्यकत्वसंबन्धेन आख्यातार्थकृतौ अन्वयश्च इष्यते। एवमेव ‘पाकं करोति’ ‘पाकेन ओदनं करेति’ इतयादिविवरणदर्शनात् सर्वत्र प्रायशः)धात्वर्थस्य यथायोग्यं करोत्यर्थभावनाकारकत्वमिष्यतेः न तु निर्युक्तिकतया। अतोः अस्माकं मते नानुभवस्पय विरोधः।
यद्यत्र विवरणदर्शनं न स्यात्ः तदा अनुभव विरोधःवक्तुं शक्यतेः नैतदति। तस्मात् प्राति
पदिकार्थव्यतिरिक्तः सुबर्थलिङ्गसंख्यान्यतिरिक्तश्च सर्वोः अपि भावनायां अन्वेतीति, व्युत्पत्तिकल्पनालाघवस्य केनाप्यपलपितुं अशक्यत्वात् सर्वत्र भावनामुख्यविशेष्यक एव शाब्दबोध इति भाट्टानां निष्कर्षः। इत्यमत्र सपरिकरं सयुक्तिकञ्च भावनामुख्यविशेष्यकशाब्दबोधो न्यरुपि।
प्रश्न :- (12) भोः। कण्णन् महाशयाः ? भवतां व्याख्याने भावनायाः लक्षणं न प्रोक्तम्। अतः तल्लक्षणं प्रतिपादयन्तु। शाब्दो भावनाशाब्दीभावना इत्युच्यते खलु। अनेन किं अभिधीयते ?
समा :- (12) भवद्भिः साधु पृष्टम्। अधुना भावनायाः लक्षणमुच्यते। केयं भावना ? किंतस्याः स्वरूपम्, किं शाब्दीभावनामुख्यविशेष्यकशाब्दबोधः सर्वत्र भवति ? आहोस्वित् आर्थीभावनामुख्यविशेष्यक शाब्दबोधोवा ? इत्यादिविषयमधिकृत्य अत्र ?किञ्चित् प्रस्तूयते।
?0॥ ?2भावनास्वरूपप्रतिपादनम्?2 ॥
णिजन्ताद्भूव्यातोः अच्प्रत्यये कृते भावयति इति व्युत्पत्त्या भवनानुकूलव्नयापाररूपा कृतिः भावनाशब्देन प्रतिपा द्यते। सा च भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः। स्वर्गरूफलस्नय यागजन्यत्वात् भवितुः उत्पद्यमानस्य स्वार्गादेः भवनानुकूलः उत्पत्त्यनुकूलः भावयितुः उत्पादकस्य चैत्रमैत्रादेः व्यापारविशेषः आत्मगतप्रयत्नरूपः भावना। इयञ्च भावना शाब्दी आर्थी चे?ति द्विधा। तत्र शाब्दीभावनायाः स्वरूपं तावत् पुरुषप्रपवृत्त्यनुकूलः व्यापारविशेशः प्रेरणापरपर्यायः। ईदृशी च शाब्दी भावना लिङ्त्वांशेन उच्यते। लिङ्प्रवणे सति, अयं मां प्रवर्तयति, मत्प्रवृत्त्यनुकूलव्यापार वान् अयमिति नियमेन प्रतीयमानत्वात्।
यच्च यस्मात् प्रतीयते तत्तस्य वाच्यम्। यथा गोशब्दस्य गोत्वम्। लोकेतावत् परप्ररित प्रवृत्तिसामान्ये प्रवर्व्रर्तनाज्ञानं कारणम्। एव, ‘मामानय’, ‘अश्वं नय’ इत्येवं तेन तेन प्रयोजकव्द्ध्?ोन प्रेरितः स सव प्रयोज्यवृद्धः यत् कर्मसु प्रवर्तते इति, तत्र नूनं तस्यतस्य प्रयोज्यवृद्धस्य अयं मां प्रवर्तयति इति ज्ञानं आवश्यकं इति निश्चीयते।
अथ च तत्र ज्ञाने विषयीभवत्ः अयमिति नियोजकस्य मां इति नियोज्यस्य अत्रेति विषयस्य च भिन्नभिन्नत्वेन उल्लेखार्त न तेषु लिङ्श्रयणनियतप्रतीति विषयत्वमस्ति। या तु तत्र सर्वत्र ज्ञाने विषयभूताप प्रवर्तना तत्रैव तदस्तोति निर्शार्यते। तत्र लोके गामनयेत्यादौ ‘अयमत्र प्रवर्ततो’ इत्याकारकः पुरूषनिष्ठाभिप्रायविशेषो वा उत इच्छरूपो वा व्यापारविशेषः प्रवर्तनापदवाच्यः। वेदे तु एतद्वि लक्षणः। कुतः ज्ञानसमानाधिकरणाया इच्छायाः आत्मभात्रवृत्तित्वात् अनात्मनि लिङादिशब्दे वृत्त्यसंभवात्। अतोः अत्र तौकिकलिङ्वाक्यार्थ विलक्षणस्य व्यापारविशेषस्य शब्दनिष्ठत्वात् शाब्दी भानेति व्यपदिपश्यते।
यथाहुः भट्टपादाः - - -
‘अभिधाभावनामाहुः अन्यामेव लिङा दयः इति। इय - भावना साध्यसाधनेतिकर्तव्यतारुपांशत्रयोपेता। तत्र शाब्दीभावना याः साध्याकाङ्क्षायां आर्थीभावना साध्यत्वे - नान्वेति। साधनाकाङ्क्षायां लिङ्ज्ञनं करणत्वेनान्वेति। अर्थवादोदितप्राशस्त्यं इतिकर्तव्यतात्वेनान्वेति। अत्र लिङ्ज्ञानस्य प्रवर्तनारुपशाब्दीभावनाकरणत्वं न तदुत्नयादकत्व रूपम्। असंभवात्। नापि प्रवर्तनाज्ञानकरणत्वम्। ईदृशस्य करणत्वस्य सर्वशब्दज्ञानसाधारण्येन विशेषाभावात्, अनाकाङ्क्षितत्वाच्च। अतः अत्र तादृशप्रवर्तनाख्य भावनाभाव्यनिर्वतकत्वात्, लिङ्ज्ञानस्य करणत्वम्। यथा, लोके कुठारः उद्यमननिपातनादिकर्मीभूय, वृक्षे अभिधातमुत्पा द्य क्रियाद्वारा छेदनस्य निर्वर्तकः, तथैव प्रकृतेः अपि लिङादिज्ञानमपि प्रवर्तनाज्ञानकारणीभूयइष्टसाधनत्वानुमितिमुत्पाद्य अर्थिभावनानिर्वर्तकं भवति, इति तस्य शाब्दीभावनायां करणत्वेन अन्वयः उचितः।
एवं अत्र ‘न हि शाब्द अशाब्देनान्वेति’ इति न्यायात् लिङ्ज्ञानस्य अशाब्दत्वात्, कथमन्वयः इत्यत्र, तद्वाचकं पदं अध्याह्त्य वक्तव्यं इति प्राचीनमीमांसकानां अभिप्रायः।
एवं, विधिर्हि विधीयमानस्य इष्टसाधनस्वानुमापनेन प्रवर्तयन् तस्य (यागस्य) तात्कालिकदुःखजनकत्वेन द्वेधसंभावात् प्रवृत्त्यभावः तत्र प्रसजति, इति तादृशद्वेषनिवर्तनेन प्रवृत्तिनिर्वर्तनाय प्राशस्त्यज्ञानमपेक्षत इति तस्य शाब्दीभावनायां इति कर्तव्यतात्वेनान्वयः।
इतं च, आर्थीभावनाभाव्यक, प्राशस्त्यज्ञाने तिकर्तव्यताक लिङ्ज्ञानकरणिका शाब्दो भावना इति ‘यजेतं’
इत्यत्र लिङा प्रतिपाद्यते इति निष्कर्षः।
प्रश्न :- (13) भोः ? कण्णन् महाशयाः। आर्थीभावनापदेन किमभिधीयतेः अस्मिन् विषये नव्यमीमांसकानां प्राचीनमीमांसकानां च अभिप्रायभेदः अस्ति वा ? न वा ?
समा :- (13) आर्थीभावनाशब्देन स्वर्गेच्छाजनितयगादिविषयकप्रयत्नः अभिधीयते। अर्थः पुरूषार्थः स च यागः, तादृशयागभाव्यकत्वात् इयं भावना आर्थोभावनायदेन व्यवह्नियते।
अथवा, यथा पूर्वं शब्दनिष्ठत्यात् शाब्दीभावना इति व्यपदेशः, तद्वदेव प्रकृते, करोत्यर्थप्रयत्नरूपभावनायाः चैत्राद्यर्थनिष्ठत्वात् अस्याः आर्थीभावनेति नाम।
अत्र खण्डदेवभट्टाचार्यप्रभृत्यः नव्यमीमांसकाः यजेतेत्यत्र आख्यातश्रवणे यागे यतेतेति प्रतीतेः जायमानत्वात्, यश्च प्रयत्नपूर्वकं गमनादिकं करोति तस्मिन् देवदत्तः गमनं करोति इति करोतिप्रयोगदर्शनाच्च करोतेः प्रयत्नरूपार्थ्वाचकत्वं यागाद्यनुकूलप्रयत्नस्यैव आर्थीभावनापदवाच्यत्वं चेति कथयन्ति।
श्रीपार्थसारथिमिश्रास्तु अन्योत्यत्त्यनुकूलव्यापारत्वेन व्यापारसामान्यमेव आख्यातार्थः। व्यापार एव च अर्थीभावनापदवाच्यः। इत्यभि प्रयन्ति। अत्र तेषां अयमभिप्राय :- स्थोगच्छति इत्यत्र प्रयत्नस्य आर्थीभावनापदयाच्यत्वेरभस्य अचेतनत्वात् तत्र असंभवात्, तत्साधारण्येपन सर्वत्र प्रयत्नमात्रस्य आर्थीभावना पदवाच्यत्वं वक्तुं न शक्यते। व्यापारसामन्यं यदि आर्थीभावनापदेन उच्यतेः इत्यङ्गीक्रियेतः तदा प्रकृतेः अपि कथञ्चित् गमनादिरूप व्यापाराश्रयत्वस्य रथेः अपि वक्तुं शक्यत्वात् स एवार्थः सर्वानुगततया वक्तुं शक्यतेः अतश्च व्यापारसामान्यमेव आर्थीभावनापदेन व्यवह्नियते इति।
प्रश्न :- (14) शाब्दीभावनापदवाच्यार्थे मतभेदः अस्ति वा ? अलौकिकव्यापारविशेषस्य शाब्दी भावनापदवाच्यत्वं केन अङ्गीकृतम् ?
साम :- (14) अधुना शाब्दीभावनाविषये मतभेदः प्रस्तूयते। यथा, प्रवर्तनात्वेन रूपेण इष्टसाधनतवमेव ?अभिधीयत इति इति पार्थसारधि मिश्राः। अत्र अभिधा भानामाहुः अन्यामेव लिङा दयः ‘इति भट्टपाद वचनं प्रमाणा कृत्य केचन प्रवर्तनेव विध्यर्थः इति कथयन्ति इष्टसाधनत्वस्य विध्यर्थत्वपक्षे भट्टपादवचनानुकूल्यंकथं भवति ? इति चेत्ः तत्र पार्थसरथि मिश्राः इत्यमब्रुवन् प्रवर्तना नाम प्रवृत्यनुकूलो व्यापारविशेषः। तत्र सर्वे पुरुषाः इदं मदिष्टसाधनं इति ज्ञात्वैव कर्म विशेषेप्रवर्तन्ते। तत्वन्यथा। यदि इष्टसाधनताज्ञानं नस्यात्, तदाकोःअपि न प्रवर्तते। तस्मात् प्रवृत्त्यनुकूलव्यापारविशेष इत्यनेन इष्टसाधनत्वमेवाभिधीयते इति पार्थसारथिमिश्राणा?मभिप्रायः। इत्यं च प्रवर्तनात्वेन रूपेण इष्टसाधनत्वमेवाभिधीयते तस्यैव विध्यर्थत्वं इति। लोके गामानय इत्यादिस्थले शिष्यस्य मवानयने प्रवृत्तिः केन कारणेन भवतीति चेत्ः आचार्यप्रेरणया अयमत्र प्रवर्ततां इति प्रेरणया प्रवर्तत इत्यनुभवः अस्माकं वर्तते। एतादृशप्रेरणायाः यजेत स्वर्ग कामः इत्यत्र वक्तुमशक्यत्वेन तत्र प्रेरणापरर्यायः पुरुषनिष्ठ अभिप्रायविशेषः नैव विध्यर्थः भवितुमर्हति इति अलौकिको व्यापारविशेष एव शाब्दीभावनापदेन वक्तव्यः इति न्यायसुधाकाराणां भट्टसोमेश्वरपादानां अभिप्रायः। अभिधेव प्रवर्तनापदवाच्येति। (भट्टपादाः।) प्रवृ?त्त्यनुकूलो व्यापारः प्रवर्तना। अपौरूपेये च वेदे प्रेषादेरसंभवात् कश्चिन् पुरुषप्रवृत्त्यनुकूलः व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेयप्रवर्तना सामान्यस्य विशेषमन्तरेण अपर्यवसानात्। तत्र कौः असौ व्यापारविशेष इत्यपेक्षयां, पात्वर्थगतं समीहितसाधनत्वमेवेति कल्प्यते। तस्यापि प्रवृत्त्यनुकूलत्वात्। सर्वो हि समीहितसाधनतां ज्ञात्वा प्रवर्तते। अन्यप्रेरितौ यदि इष्टसाधनतां न जानाति, तदा नैव प्रवर्तते। स्वतन्त्रप्रेरणावादेः अपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वीक्रियत एवं। अन्यथा, विधेः प्रवर्तकत्वानुपपत्तेः। अतश्च आवश्यकत्वात् कर्तुः समीहितसाधनत्वमेव विध्यर्थ इति मण्डनमिश्राः। तथाचोक्तं विधिविवेके - पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रर्वर्तकः। प्रवृतिधर्मं हेतु च प्रवदन्ति प्रवर्तनां, इति। इतमत्र शाब्दीभावनायां मतभेदमात्रमत्र प्रार्शि। तत्र कीदृशार्थस्वीकारं, आर्ता वार्तिकानुगुणत्वं अननुगुणत्वं भवति, कस्य च अर्थस्य
निदुष्टत्वं इत्यादयः विषया ग्रन्थगौरवभिया न विवेचिताः।
प्रश्न :- (15) भाः ? प्राच्यमीमांसकानां नव्यमीमांसा कानां च शाब्दाबोधस्य भावनामुख्यविशेष्यत्वं विषये यद्वैलक्षण्यं अस्ति तत् प्रकटीकुर्वन्तुः।
समा :- (15) आर्थीभावनामुख्यविशेष्यक एव शाब्दबोधः सर्वत्र भवतीति नव्यमीमांसकानां अभिप्रायः। तदेतदधिकृत्य इदानीं प्रस्तूयते। आर्थीभावनापि असंत्रयोपेता। तत्र यागः करणत्वेन संबध्यते कारणाकाङ्क्षायाम्। साध्याकाङ्क्षायां स्वर्ग, अन्वेति। इतिकर्तव्यप्राकाङ्क्षायां प्रायाजाद्यङ्गजातं अन्वेति।
इत्यं च स्वर्गादिभाव्यकयागादिकरणकप्रयाजादीतिकर्तव्यताकार्थीभावना, आर्थीभावनाभाव्यक?लिङ्ज्ञानकरणकप्राशस्त्यज्ञानेतिकर्तव्यताक शाब्दीभावनाप्रयोज्येति ‘यजेत स्वर्गकामः’ इत्यत्र आर्थीभावनामुख्यविशेष्यकः शाब्दबोधो भवतीति नव्यमीमांसकाः कथयन्ति। तथाचोक्तं भाट्टरहस्ये खण्डदेवाचार्यैः — ‘?तत्सिद्धं लिङा दिवाच्या शाब्दी भावना प्राशस्त्यज्ञानाद्यनुगृहीता इष्ट साधनत्वाद्याक्षेपमुखेन मुख्यविशेष्यभूतानां आख्यातार्थकृतौ अन्वेति’ इति।
अत्र संबन्धविशेष प्रदर्शन पूर्वकं शाब्दीभावनायाः आर्थीभावनायां अन्वयप्रकारः विशेषतः प्रत्यपादि भाट्टरहस्ये। तत्सर्वं अत्र ग्रन्थविस्तारभिया नेह वितन्यते।
प्राच्यमीमांसकास्तु ‘स्वर्गादिभाह्यकयागादिकरणकप्रयाजादीतिकर्तव्यताकार्थीभावनाभाव्यक लिङ्ज्ञानकरणकप्राशस्त्यज्ञानेतिकर्तव्यताका शाब्दी भावना’ इति शाब्दीभावनामुख्यविशेष्यक एव शाब्दबोध इति कथयन्ति। तदुक्तं आपदेवेन — न्यायप्रकाशे ‘तत्सिद्ध वक्ष्यमापार्थोभावनाभाव्यक लिङा दिज्ञानकरणिका प्राशस्त्यज्ञानेतिकर्तव्यताका शाब्दो भावना लिङ्त्वांशेन उच्यते इति। आर्थीभावनायाः मुख्यविशेष्यत्वं वदतां नव्यमीमांसकमूर्थन्यानां खण्डदेवाचार्याणामयमभिप्रायः—शाब्दबोधे शाब्दीभावना या मुख्यविशेष्यकत्वाङ्गोकारे तस्याः लोकवेदस्याधारण्यं न सङ्गच्छते। यतो हि लोके मामानयेत्यादौ अयमत्र प्रवर्ततां’ इत्याकारकः प्रेरणापरपर्यायः पुरूषनिष्ठः अभिप्राय विशेषः लिङर्थः। वेदे तु मीमांसकानां मते पुरुषाभावात् वेदस्यापौरुषेयत्वेन न पुरुषनिष्ठस्य अभिप्रायविशेषस्य लिङर्थत्वं संजाघटीति, लोकविलक्षणतयैव निङर्थस्य तत्र अङ्गीकर्तव्यतया भिन्नभिन्नस्थपलानुरोथेन भिन्नार्थस्येव शाब्दीभावनापदवाच्यत्वेन गौरवात् नात्र लोकवेदसाधारण्येन अनुगततया शाब्दीभावनामुख्यविशेष्यकत्वं संभवति शाब्दबोधस्येति आर्थीभावनाया एव शाब्दबोधे मुनख्यविशेष्यतया भानं युज्यत इति सुयक्तिकं भाटरहस्नये स्वाशयः प्रादर्शि खण्डदेवाचार्यैः।
अत एव भाट्टरहस्ये न्यायसुधाकृता श्रीभट्टसोमेश्वरेण विध्यर्थतया (शाब्दीभावना पदवाच्यत्वेन प्रदर्शिते पक्षे अलौकिकव्यापारविशैष एव) स्वस्यापि संमतिं युक्तं चैतत् इत्यादिना निरटङ्कि।
इत्यं च आर्थीभावनायाः मुख्यविशेष्यकत्वा भ्युपगमे, तस्याः लोकवेदसाधारण्यं संभवतीति, लाघवहेतुना, आर्थीभावनामुख्यविशेष्यक एव शाब्दबोधो भवतीति नवीनमीमांसकानांनिगूटा—भिसन्धिः।
प्राचीनमीमासंकानां श्रीपार्थसारथिमिश्रप्रभृतीनां तु आर्थीभावनायाः ‘यजेत’ इत्यत्र आख्यातांशेनप्रतिपादने तस्याः दर्शलकारसाधारण्येन शाब्दीभावनापदेन इष्टसाधनत्वादैख अभिधानात् तस्य लोकवेदसाधारण्येन लौकिकवैदिकलिङ्साधारणतया वाच्यत्वे संभवतीति शाब्दी भावनामुख्यविशेष्यकं एवं शाब्दबोधो भवतीत्यभिप्रायः। अत्रेदं विचार्यते।
नवीनानां पक्षे दशलकारसाधारण्येन सर्वप्रयोगानुगुणतया आर्थीभावनामुख्यविशेष्यक शाब्बोधो भवतीति तत्पक्षे महत्लाधवं स्फुट मस्ति। प्राचीनानां पक्षे तु केवलं लिर्ङ्थमात्रसाधारण्यमेवेति अस्वारस्यं वर्तते।
?0॥ ?2उपसंहारः?2 ॥
एतावता प्रबन्धेन भाट्टप्राभाकरमतभेदेन भाट्टपक्षे शाब्दबोधः (उदपादि) तत्र भावनामुख्यविशेष्यकशाब्दबोधे सङ्गह्य युक्तयः सौकर्यार्थ अत्र उपपाद्यन्ते। भाट्टाः भावनामुख्यविशेष्यकतववादिनः।
(1) भाट्टेष्वपि प्राचीनाः शाब्दीभावनामुख्यविशेष्यक एव शाब्दबोधः इति वदन्ति।
(2) नवीनास्तु आर्थीभावनामुख्यविशेष्यक शाब्दबोधं अभ्युपगच्छन्तीति तत्र अनयोः वैलक्षण्यम्।
(3) प्रथमाप्तमुख्यविशेष्यकशाब्दबोधं विहाय, मीमांसकैः भाट्टैः केन कारणेन भावनामुख्यविशेष्यकशाब्दबोधः अङ्गीक्रियत इत्यत्र कार्यकारण भावलाघवमेव प्रथमं निदानम्। यथा, चैत्रः पचतीत्?यत्र धात्वर्थप्रकारकशाब्द बोधं प्रति, आख्यातपदजन्योपस्थितेः यथा नैयायिकस्थेः नैयायिकैः कारणत्वं
स्वीक्रियते तथा आख्यातार्थप्रकारकशाब्दबोधं प्रति प्रथमान्त पदजन्योपस्थितेश्च कारणत्वं नैयायिकैः वक्तव्यम्। यतो हि नैयायिकैः चैत्रः पचति इत्यत्र पाकरूपधात्वर्थस्य आख्यातार्थेकृतौ अन्वयः। आख्याप्तार्थ कृतेश्च प्रथमान्त पदार्थे अन्वयः। इति कथयन्ति। तर्हि धात्वर्थप्रकारकशाब्दबोधं प्रति आख्यातपदजन्योपस्थिति कारणं इति एकं कार्यकारणभावः कल्पनीयो भवति। अपश्श्न कार्यकारणभावः आख्यातार्थ प्रकारकशाब्द बोधं प्रति प्रथमान्तपदजन्योपस्थितिः कारणम् इति। मीमांसकैस्तु, चैत्र इति प्रातिपदिकार्थस्यापि आधेयतासंबन्धेन भावनायामेव अन्वयस्वीकारात् कर्मत्वमेव अन्धया च एकस्याः आख्यातपदजन्योपस्थितैरेव कारणत्वं इति लाघवं तत्पक्षे वर्तत इति भावनामुख्यविशेष्यक शाब्दबोधः सिद्ध्यति।
(4) ‘भावप्रधानमाख्यातं’ इति स्मृतिः, तद्भूतानां क्रियार्थेन समाम्नायः, ‘इति सूत्रं च भावनामुख्य विशेष्यकत्वे मुख्यं प्रमाणं इति तेषामाशयः।’
(5) ‘अस्तिर्भवन्ती परः प्रथमपुरूषे प्रयुज्यमानोऽपि अस्ति’ इति कात्यायनस्मृत्या, पण्डितश्रेत्रः इत्यादौ क्रियापदाध्याहारसिद्ध्या सर्वत्रैव भावनामुख्य विशेष्यकशाब्दबोधः निरावाधः।
यदि तत्र योग्यतानुसारेण क्रिया पदाध्याहारसिद्धेः वचनमिदं व्यर्थमित्युच्येतः, तदा वेदे अस्तीतिक्रियापदाहारनियम एवास्य प्रयोजनम्।
अथवा, प्रातिपदिकार्थप्रकारकशाब्दबोधं प्रति विशेष्यतासंबन्धेन सुब्जन्योपस्थितिः कारणं, तथा, लिङ्गसंख्याव्यतिरिक्तसुबर्थप्रकारकशाब्दबोधं प्रति क्रियापदजन्योपस्थितिः कारणं इति क्लप्तकार्यकारणभावयोरिव क्रियापदाध्याहारे प्रमाणत्वम्।
(6) एवं लिङ्गसंख्याव्यतिरिक्तसुबर्थसाधनमुखेन, निरूक्त्कार्यकारणभावसिद्ध्या भावनामुख्यविशेष्यकत्वं अत्र सिद्यति इति।
(7) प्रथमायाः कर्तृत्वार्थकत्वप्रतिपादनमुखेन वा भावनामुख्यविशेष्य कत्वं सिद्ध्यति।
(8) ओदनं पचति ‘इत्यादो’ प्रथमान्तपदाभावात्, उभाभ्यामपि शाब्दबोधस्यैव अङ्गीव कर्तव्यतया भावनामुख्यविशेष्यक सर्वत्र तदनुसारेण भावनामुख्यविशेष्यकत्वं शाब्दबोधश्च सिद्ध्यति।
(9) अन्याविशेषणीभूतप्रथमान्त पदोपस्थाप्ये आख्यातार्थस्य अन्वयः इति तार्किकवचनस्य व्यभिचारात् अपि भावनामुख्यविशेष्यकत्वं युज्यते।
(10) संबन्धभेदप्रयुक्ततया कार्यकारणभावानन्त्यं इत्यस्य परिहारपूर्वकं भावनामुख्यविशेष्यकत्व स्य तत्र तत्र प्रतिपादितत्वात् तेनापिकारणेन भावना मुख्यविशेष्यकत्वहानिः नैव वक्तुं शक्यते।
(11) आख्यातस्य कर्तरि लक्षण आवश्यकीति, प्रतिपाद्य स्थलविशेषे भावनामुख्यविशेष्यकत्वं निरूपितम्।
(12) नेयायिकमते अनुभवानुसारेण तस्यतस्य पदार्थस्नय योग्येन स्वसमोपवर्तिपदार्थे साक्षात्संबन्धेन तत्रतत्रान्वयेबाधकं प्रदर्श्य, भावनामुख्यविशेष्यकत्वस्यापि स्थापितत्वात, सर्वत्रैव भावनामुख्यविशेष्यकशाब्दबोधः संप्रतिपन्नः। इत्यं च उपदर्शितयुक्तिभि भावनामुख्यविशेष्यको बोधो निराबाध इति सर्वमनवद्यम्।

]