अन्वयस्वरूपम्
- यो विशेषणतया ऽन्वितो ऽस्ति, तस्य पदार्थान्तरस्य +अन्वयो न भवति।
मीमांसकमतम्
- प्रातिपदिकार्थस्य विभक्त्यर्थकारके ऽन्वयः। कारकस्य कृताव् अन्वयः। धात्वर्थस्य कृताव् अन्वयः।
- रामः पद्भ्यां ग्रामं गच्छति। रामनिष्ठा पादकरणिका ग्रामकर्मिका गमनानुकूला वर्तमाना एकत्वविशिष्टा कृतिः।
धात्वर्थान्वय आर्थीभावनायां विधिवाक्येषु
- धात्वर्थस्य कृताव् अन्वयः।
- धात्वर्थः कदाचित् कर्मत्वेनान्वेति।
- “देवदत्तः पचति” = “देवदत्तः पाकं+++(→धात्वर्थः)+++ करोति+++(→प्रत्ययार्थः)+++।” प्रत्ययस्य कृतौ शक्तिः। धातोः पाके शक्तिः।
- “दध्ना जुहोति” = “दध्ना होमम्+++(→धात्वर्थः)+++ भावयति+++(→प्रत्ययार्थः)+++।”
- धात्वर्थः कदाचित् करणत्वेनान्वेति।
- “अग्निहोत्रं जुहुयात्” →+++(आर्थीभावना)+++ “अग्निहोत्रं जुहोति” = “अग्निहोत्रे-होमेण+++(→धात्वर्थः)+++ +ईप्सितं भावयति+++(→प्रत्ययार्थः)+++।”
- विधिवाक्यय् आख्यातार्थ-भावनायां यत् पुरुषेणा ऽभीष्टं, तत् कर्मत्वेनाऽन्वेति। (स्वर्गकामाधिकरणन्यायः।)
- “देवदत्त ओदनम् पचति” = “देवदत्त ओदनम् पाकेन+++(→धात्वर्थः)+++ करोति+++(→प्रत्ययार्थः)+++।” प्रत्ययस्य कृतौ शक्तिः। धातोः पाके शक्तिः।
- “अग्निहोत्रं जुहुयात्” →+++(आर्थीभावना)+++ “अग्निहोत्रं जुहोति” = “अग्निहोत्रे-होमेण+++(→धात्वर्थः)+++ +ईप्सितं भावयति+++(→प्रत्ययार्थः)+++।”
- क्वचिद् आश्रयत्वेन।
- “दध्ना +इन्द्रियकामस्य जुहुयात्” →+++(आर्थीभावना)+++ “होमम् आश्रित्य दधि +इन्द्रियरूपम् फलं सम्पादयति।”
- “आरोग्यम् अमुकेनौषधेन +++(पान-साधनी-भूतेन)+++ भावयेत्।” →+++(आर्थीभावना)+++ “पानमाश्रित्य +अमुकौषधम् आरोग्यं भावयति”।
अभिहितान्वयवादः
- मीमांसकेषु कुमरीलभट्टस्य मतम्।
- प्राथमिकबोधः - प्रथमं पदेभ्यः अर्थस्य अभिधानम्। पश्चात् तत्र अन्वयरचना।
- अध्याहारः शब्दानाम्, नार्थानाम्। शाब्दबोधात् पूर्वमेव भवति।
- पार्ष्ठिकभूतः - तत आकाङ्क्षा-योग्यता-संनिधि-वशात् पदार्थानां समन्वये तात्पर्यार्थः नाम अपरार्थः (वाक्यार्थः) उद्भवति।
- वाच्य-लक्षणादयः पदस्तरे एव।
उदाहरणम्
- रामः पद्भ्यां ग्रामं गच्छति। रामनिष्ठा पादकरणिका ग्रामकर्मिका गमनानुकूला वर्तमाना एकत्वविशिष्टा कृतिः।
- पद-पदांशाः - रामः, पादौ + तृतीया, ग्रामः + द्वितीया, गम् + ति।
- प्राथमिकबोधे– नाम - {एकत्वम् रामः पादौ ग्रामः गमनम् करणत्वम् कर्मत्वम् (कर्ता) वर्तमानत्वम्} इति पदार्थाः ज्ञाताः।
- पदार्थप्राप्तिर् एवम् - तृतीयायाः करणत्वम् , द्वितीयायाः कर्मत्वम् , गम् धातोः गमनम् , तिप्रत्ययस्य कृतिः(अर्थभावना), वर्तमानत्वम् , एकत्वम् (शक्यार्थाः), कर्ता (लक्ष्यार्थः)।
- पार्ष्ठिकबोधे ऽन्वयाः - {एकत्वम् रामः एकत्वम्}, {पादौ करणर्त्वम्} {ग्रामः कर्मत्वम् एकत्वम्} {गमनम् कृतिः वर्तमानत्वम्}।
अन्विताभिधानवादः
- मीमांसकेषु प्राभाकरपक्षः, आलङ्कारिकाश् च।
- अन्वयः पदानाम् एव भवति, न +अर्थानाम्।
- सर्वेषामेव पदानाम् इतरपदार्थान्वितस्वार्थे शक्तिः।
- युक्तिः - “गामानय” इति प्रथमश्रवणे हि गवानयन-रूपस्याऽन्वितस्याऽर्थस्य शब्द एव ज्ञातः। अतः पदानाम् एवान्वितार्थबोधघटकत्वं वाच्यम्, न तु पदार्थानाम् ।
- भाट्टप्रतियुक्तिः - ननु कि केवलपदार्थबोधः पदेभ्यो नास्त्येव ? अस्तीति ब्रूमः । पदानि तावत्पृथक् पदार्थान् स्मारयन्त्येव । न तु तावता विरमन्ति। स्मारितमेव तु स्वं स्वमर्थ पुनर् इतर-पदार्थाऽन्वितत्वेनाऽभिधायैव विरमन्तीति राद्धान्तः। अतः पदाभिधेय एवान्वितरूपो वाक्यार्थः, न तु पदार्थगम्यः ।
- वाच्यः एव वाक्यार्थः (= मीमांसकानां तात्पर्यार्थः)।
- अध्याहारो ऽर्थानाम्, प्रायेण न शब्दानाम्।
- यथा “द्वारम्।” इति वाक्ये द्वारम् इति पदम्। तस्य स्वार्थः प्रसिद्धः। अत्रेतरपदार्थान्वितस्वार्थो भवति - “पिधातव्यं द्वारम्”। तत्रार्थाध्याहारः। विद्यमानस्य द्वारशब्दस्यैवेयं “शक्तिर्” भवति।