+०१ वाक्य-बोधः

परिचयः

  • पदार्थांशा वाक्यार्थांशाश् चात्र दृश्यन्ताम्।

अङ्गानि

  • वाक्य-दोष-निवारणम् (अध्याहारः, अनुषङ्गः, विपरिणामः … )
  • पदच्छेदः
    • यथा - रामः पद्भ्यां ग्रामं गच्छति। पद-पदांशाः - रामः, पादौ + तृतीया, ग्रामः + द्वितीया, गम् + ति।
  • पदार्थोक्तिः।
  • पदानाम् अर्थ-क्रमस्य प्राप्तिः।
  • अन्वयः
    • उद्देश-विधेय-निश्चयः
  • आक्षेपः
  • समाधानम्

पदार्थ-बोधः

पदक्रमः

पाठक्रमः इति भिन्नः, अर्थ-क्रम इति भिन्नः कदाचित्।
विशिष्य षष्ठीविभक्तौ, उद्देश्य-विधेय-भावे च क्रमो ऽवधेयः।

प्राधान्यम्

व्यापार-प्राधान्यम्

इदं वैय्याकरणेषु प्रशस्तम्। अत्र शाब्दबोध एवम् भवति -

“रामः वनं गतवान् अस्ति।” =
“रामकर्तृक-वनकर्मक-भूतकालविशिष्ट-
गमन-व्यापारानन्तरवर्ति-भवनानुकूलव्यापारः।”

एवं निरीश्वर-मीमांसका अपि।

कर्तृ-प्राधान्यम्

अत्र कर्तृप्राधान्यं राजते। नैय्यायिकाः श्रीवैस्णवाश् च प्रथमान्त-कर्तृ-प्राधान्य-वादिनः।

“रामः वनं गतवान् अस्ति।” =

“वनकर्मक– भूत-काल-विशिष्ट-
गमन-व्यापारानन्तरवर्ति- भवनानुकूल-व्यापारस्य कर्ता रामः।”

“गन्धवती पृथिवी।”

गन्धवती = गन्धः अस्याम् अस्ति।
यथा ऽत्र “पृथिव्याम् गन्धो ऽस्ति” इतीष्टस्यार्थस्य निरूपणं विग्रहवाक्यसहित-प्रकृति-प्रत्ययादि-विवेकेन दर्शितः।

तद्-अभिव्यक्तिः वचोभिः -

पृथिवी-निष्ठ+-अधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।

तले पुस्तकम्।

तल-निष्ठाधिकरणता-निरूपकाधेयताश्रयः पुस्तकम्।

नव्य-न्यायाभिव्यक्ति-क्रमः

तलस्याधिकरणता-निष्ठत्वम् तल-ङि-प्रत्यययोर् अनन्तरत्वात् ज्ञेयम्।
पुस्तक-ङि-प्रत्यययोस् सामीप्यात् पुस्तकस्याधेयता ज्ञेया।

वाक्य-प्रकार-स्पष्टता

विधिवाक्ये विधित्वे सन्देहो न स्यात् - एकम् प्रति विधिः, अन्यम् प्रत्य् अनुवाद इति।
यथाह वेङ्कटनाथार्यश् चरमश्लोकाधिकारे -

एक-प्रयोगं ताऩे
अ-शक्तऩैप् पऱ्ऱ त्यागानुवादम् आय्
इतरऩैप् पऱ्ऱ त्याग-विधिय् आगै
एक-वाक्यत्तिल् घटियादु।