०३

क्षोभस्फुरितचूडेन्दुखण्डप्रकरविभ्रमाः ।
ताण्डवाडम्बरे शम्भोरट्टहासाः पुनन्तु वः ॥ १ ॥

विविच्यमानगम्भीरमूलग्रन्थाकुलान्प्रति ।
इतोऽप्यतः परं व्याख्या सङ्क्षेपेण निगद्यते ॥ २ ॥

क्रमप्राप्तार्थालङ्कारलक्षणाय तृतीयपरिच्छेदारम्भः । तत्र विभागोपयुक्तं सामान्यलक्षणमाह—

अलमर्थमलङ्कर्तुं यव्द्युत्पत्त्यादिवर्त्मना ।
ज्ञेया जात्यादयः प्राज्ञैस्तेऽर्थालङ्कारसञ्ज्ञया ॥ १ ॥

“अलमर्थमिति” । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्जातेरवच्छेदकः प्रकारः । आदिशब्दाद्विविधशक्तिप्रतिबन्धादयो विभावनाद्यवच्छेदास्त्रयोविंशतिः । “अर्थालङ्कारसञ्ज्ञयेति” । अर्थशोभानिवृत्तिहेतुर्विच्छित्तिरर्थालङ्कार इति स्फुटलक्षणम् ॥

जातिर्विभावना हेतुरहेतुः सूक्ष्ममुत्तरम् ।
विरोधः सम्भवोऽन्योन्यं परिवृत्तिर्निदर्शना ॥ २ ॥

विभागान्दर्शयति—“जातिरिति” ॥

भेदः समाहितं भ्रान्तिर्वितर्को मीलितं स्मृतिः ।
भावः प्रत्यक्षपूर्वाणि प्रमाणानि च जैमिनेः ॥ ३ ॥

प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यभावाख्यानि जैमिनेः प्रमाणानि षट् । तेनैव क्रमेण लक्षणान्याख्यातुं प्रत्यक्षपूर्वाणीत्युक्तम् । साहित्यस्य सर्वपरिषद्यत्वन्नानादर्शनरीत्युपजीवनमुचितमेव ॥

नास्त्येवासवर्थालङ्कारो यः स्वरूपं नाश्रयत इति प्राथम्यं जातेरेवेत्याह—

तेषु—

नानावस्थासु जायन्ते यानि रूपाणि वस्तुनः ।
स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जातिं प्रचक्षते ॥ ४ ॥

“तेष्विति” । कालकृतो विशेषोऽवस्था । तामधिकृत्य जायन्ते वस्तुस्वरूपव्यभिचारिण्युत्पद्यन्ते । नन्वेवं ‘य एते यज्ज्वानः प्रथितमहसो येऽप्यवनिपा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भगवती ॥’ इत्यादावपि जातित्वं स्यादित्यत आह—“स्वेभ्यः स्वेभ्य इति” । स्वभावभूतानीत्यर्थः । कविप्रतिभामात्रप्रकाशनीयरूपोट्टङ्कनं जातिरिति लक्षणम् । लौकिकविकल्पविषयोऽपि प्रतिभया भासत एव । यदाह— ‘रसानुगुणशब्दार्थचिन्तास्तिमिचचेतसः । क्षणं विशेषस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः । स हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैलोक्यवर्तिनः ॥’ इति ॥

उक्तमेव विशेषमभिसन्धायाह—

अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते ।
जायमानप्रियं वक्ति रूपं सा सार्वकालिकम् ॥ ५ ॥

“अर्थव्यक्तेरिति” । वस्तुस्वरूपोल्लेखनरूपार्थव्यक्तिरर्थगुणेषूक्ता । तत्र सार्वकालिकं रूपमुपजनापायान्तरालव्यापकमित्यर्थः । अत्र तु जायमानमागन्तुनिमित्तं समवधानप्रभवं व्यभिचरितमित्यर्थः । विच्छित्तिप्रकारयोरसङ्करात्पृथक्शोभार्पणाच्च युक्तो व्यतिरेकस्तेन स्वभावोक्तिरेवार्थव्यक्तिरिति यत्केनचिदुक्तं तदपास्तम् । अत एव जात्यन्तरप्रकाराणामपि पृथगलङ्कारता स्यादिति न युक्तमवान्तरवचसैव व्याघातात् । न हि सामान्यविशेषयोर्विभागो भवति ॥

स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः ।
ते संस्थानादयस्तेषु सा विशेषेण शोभते ॥ ६ ॥

“स्वरूपमिति” । आश्रयविशेषहेतुविशेषव्यतिरिक्तोऽवच्छेदकप्रकारः स्वरूपम् । एतदेव विभजते—“ते संस्थानादय इति” । ननु किमनेन प्रपञ्चेन पूर्वाभिहि- तरूपमात्रस्यैव जातित्वादित्यत आह—“तेषु सेति” । विशेषेण शोभाहेतुरेव ह्यलङ्कारः । अस्ति चात्र तथाभाव इति भावः ॥

तत्र स्वरूपं द्विधा । शरीरावयवसन्निवेशलक्षणमतादृशं च । आद्यमपि बुद्धि- कारितमतथाभूतं च । तदेतदाह—

तत्र स्वरुपं संस्थानमवस्थानं तथैव च ।
वेषो व्यापार इत्याद्यैःप्रभेदैर्बहुधा स्थितम् ॥ ७ ॥

“तत्र स्वरूपमिति” । आदिपदेन वृक्षादिस्वरूपपरिग्रहः ॥

मुग्धाङ्गनार्भकस्तिर्यङ्गीचपात्राणि चाश्रयः ।
देशः कालश्च शक्तिश्च साधनानि च हेतवः ॥ ८ ॥

शक्तिः पदार्थानां सामर्थ्यम् । साधनानि कर्त्रादीनि षट् ॥

तेषु संस्थानं यथा—

‘स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्ययोनिम् ॥ १ ॥’

अत्र धनुर्धरेणैवमङ्गानि सम्यग्बुद्धिपूर्वकं स्थापनीयानीति संस्थानमिदं जातिभेदः ॥

“अत्र धनुर्धरेणेति” । तदुक्तम्—‘अपाङ्गे दक्षिणां मुष्टिं वामां विन्यस्य मस्तके । पादमाकुञ्चयेद्वामं लक्ष्ये निश्चललोचनः ॥’ इति । अत्र सर्वस्यैव धनुर्धरस्यैवंविधशरीरावयवसन्निवेशो भवति न कामस्यैवेति नाश्रयविशेषो विवक्षितः । एवमुत्तरत्रापि ॥

अवस्थानभेदेन यथा—

‘पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतिविरलवलिव्यक्तगौरान्तराला- स्तिस्त्रो वः पान्तु लेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥ २ ॥’

अत्र स्त्रियाः शूलप्रोल्लासनादौ व्यापारे बुद्धिकारितमपि शरीरावस्थानमीदृशं जायत इतीदमवस्थानं नाम जातिभेदः ॥

“पादावष्टम्भेति” । उल्लसद्बाहुमूलमिति प्रोल्लसनक्रियाविशेषणम् । सरलितवपुष इति मध्यभागविशेषणम् । अत एव वलीनां विश्लेषो मिथो विभागः उपरिशरीराकर्षणात्कञ्चुकप्रान्तापसरणम् । मुसलोल्लासनादौ दृष्टमिदमबुद्धिजमेव नारीणां रूपमिति भगवतीविषये प्रतिबिम्बनमतिस्फुटमेव । तदाह—“आदाविति” ॥

वेषो यथा—

‘छणपिट्ठधूसरत्थणि महुमअअम्बच्छि कुवलआहरणे ।
‘कस्स कअ चूअमञ्जरि पुत्ति तुए मण्डिओ गामो ॥ ३ ॥

[क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे ।
कस्यकृते चूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥]

अत्र वसन्तोत्सवे ग्रामतरुणीनामयं वेषो जनमनःप्रमोदाय जायत इति वेषो नामायं जातिभेदः ॥

“अत्र वसन्तोत्सव इति” । यद्यप्यत्र कालः पात्रं चास्ति तथापि ‘संवाल्लणमउलिझविवरउराहइअम्बिरइअउण तालङ्कम् । सिटिलाअन्तं सवणा अरम्भिसारेह एक्कावि ॥’ इत्यादौ न सङ्करः कादाचित्कस्त्वसौ गुण एव वेषस्य कथं रञ्जकतेत्यवशिष्यते । तत्राह—“जनमनःप्रमोदायेति” । रुच्यर्थित्वमुत्पत्तीनां प्रतिपक्षगतानामक्षुण्णत्वादिति भावः ॥

व्यापारो यथा—

‘अग्रे गतेन वसतिं परिगृह्य रम्या- मापात्य सैनिकनिराकरणाकुलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरा- दुद्बाहुना जुहुविरे मुहुरात्मवर्ग्याः ॥ ४ ॥’

अत्र तादृशि व्यापारे व्यापृतानामीदृशमेव स्वरूपं जायत इति व्यापारनामायं जातिभेदः ॥

आश्रयेषु मुग्धयुवतिर्यथा—

‘सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुप्फं ति ।
मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआइम् ॥ ५ ॥’

[सखीभिर्मण्यमाना स्तनयोर्लग्नं कुसुम्भपुष्पं ते ।
मुग्धवधूर्हस्यते प्रोञ्छन्ती नखव्रणानि ॥]

अत्र मुग्धवध्वाश्रितक्रियास्वरूपभणनादियं मुग्धाङ्गनाश्रिता जातिः ॥

अर्भकाश्रिता यथा—

‘आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलं रुदन् ।
गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ॥ ६ ॥’

अत्रार्भकाश्रितव्यापारस्वरूपोक्तेरियमर्भकाश्रिता जातिः ॥

“अग्रे गतेनेति” । अत्रोद्बाहुनेति यद्यप्यवस्थानमस्ति तथापि तत्परिहारेणोदाहरणभसङ्कीर्णम् । ‘सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुप्फं ति । मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआहम् ॥’ इत्यत्रैकस्याः कदाचिद्वितर्कायेदमपि वाक्यं बहूनां तु नेति बहुवचनस्वरसः । कुसुम्भकेसराण्युच्चेतुं वारंवारमसौ क्षेत्रं प्रविशतीति सम्भावना । मुग्धा अपरिशीलिताभिमानिकसुखा वधूः प्रथमपरिणीता । प्रस्फोट्यमानामपि त्वया नापसरतीत्यहो तव सौकुमार्यमिति चाटुगर्भं हसितम् । अत एव प्रियतमा तस्यानुबन्धो वर्तमाननिर्देशेन व्यज्यते । एवदग्रिमोदाहरणव्याख्याने क्रियाव्यापारग्रहणमुपलक्षणतो न व्यापारसङ्करः । अन्ये त्वाहुः आश्रयावच्छेदेन बहिर्भावोऽत्र भेदहेतुरिति ॥

तिर्यगाश्रया यथा—

‘लीढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः ।
एतस्मिन्मदगन्धवासितवटः सावज्ञतिर्यग्वल- त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ ७ ॥’

अत्र सिंहस्वरूपभणनादियं तिर्यगाश्रया जातिः ॥

“लीढेति” । व्यस्तं विगतरुधिरम् । सावज्ञं तिर्यक् वलन्ती ये सृक्किणी ताभ्यामाहता इति सम्बन्धः । यथैकत्र कुञ्जे स्वपतः स्वरूपं तथान्यत्रापीति बहुवचनरहस्यम् । अत एव न देशहेतुशङ्का । “अत्र सिंहेति” । मदवासनया विशेषितत्वादिति भावः ॥

नीचाश्रया यथा—

‘भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्धुष्यते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोच्य चिरं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ ८ ॥’

अत्र हीनपात्रहालिकस्वरूपोक्तिरीयं नीचाश्रया जातिः ॥

“भद्रं त इति” । करुणाकार्पण्यव्यञ्जकविशेषशालिनी । गर्वायते अगर्ववानेव गर्ववान्भवति । भृशादौ लक्षत्वादेर्मत्वर्थलक्षणत्वात् ॥

अथ हेतवः । तेषु देशो यथा—

‘इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरदरदनारुग्णरवः ।
लताकुञ्जे यासामुपनादि रतक्लान्तशबरी- कपोलस्वेदाम्भः परिचयनुदो वान्ति मरुतः ॥ ९ ॥’

अत्र विन्ध्याद्रेरीदृशेषु प्रदेशेष्वित्थम्भूता वायवो वान्तीति हेतुत्वेनोक्तत्वाद्देशस्य देशहेतुर्जातिरियम् ॥

“इमास्ता इति” । देशविशेषमुद्दिश्य मरुतां विधानमुद्देश्यस्य च विधौ हेतुभावः । वंशीवनानां दुष्प्रवेशतया मरुतां मन्दीभावो द्विरदैस्तरुभङ्गादवकाशलाभे प्रगल्भ- त्वमतः क्लमस्वेदापनयनसामर्थ्यमेतत्सर्वमाह—“अत्र विन्ध्याद्रेरिति” ॥

कालहेतुर्यथा—

‘कम्पन्ते कपयो भृशं जलकृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव- त्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ १० ॥’

अत्र हेमन्तहेतुकतिर्यगाद्यश्रयव्यापारस्वरूपोक्तेरियं कालहेतुर्नाम जातिः ॥

“गोजाविकमिति” । ‘विभाषावृक्षमृग २।४।१२’ इत्यादिना पाक्षिक एकवद्भावः । “अत्र हेमन्तेति” । यद्यपि तिर्यगाश्रयेयं जातिः तथापि हेतोरधिकस्य प्रवेशात्पृथग्भावः । सङ्करस्तु न दुष्यति ॥

शक्तिर्यथा—

‘बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् ।
नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ ११ ॥’

अत्र रोमाञ्चबन्धादिषु प्रियास्पर्शप्रवृत्तेर्निमित्तस्योक्तत्वादियं शक्तिहेतुर्नाम जातिः ॥

“रोमाञ्चबन्धादिष्विति” । बध्नन्नित्यादौ शतृप्रत्ययेन कर्ताभिधीयते । स च सामानाधिकरण्यात्स्पर्श एव । स्पर्शत्वाविशेषे तु शक्तिरेव प्रयोजिका वाच्येत्यर्थः ॥

साधनहेतुर्यथा—

‘उपनिहितहलीशासार्गलद्वारमारा- त्परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर्वारिधाराः प्रतीच्छ- न्विशति वलितशृङ्गः पामरागारमुक्षा ॥ १२ ॥’

अत्र जायमानक्रियाहेतुभूतयोः कर्तृकर्मणोः साधनयोः स्वरूपवर्णनादयं साधनहेतुर्नाम जातिभेदः ॥

“उपनिहितेति” । अगारद्वारस्य हलीशावरुद्धतया दुष्प्रवेशत्वमत एव बहिश्चिरं विलम्बात् प्रत्येषणवेशनयोर्वर्तमानता । उपलक्षणं चेदम् । तेन करणादयोऽप्युदाहार्याः ॥

पक्षे स्वभावपर्यवसानमस्तीति जातेः किञ्चिदपकृष्टां विभावनां विभावयितुमाह—

प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् ।
यत्र स्वाभाविकं वापि विभाव्यं सा विभावना ॥ ९ ॥

शुद्धा चित्रा विचित्रा च विविधा सा निगद्यते ।
शुद्धा यत्रैकमुद्दिश्य हेतुरेको निवर्तते ॥ १० ॥

“प्रसिद्धेति” । प्रसिद्धस्पर्शहेतोर्विभाव्यतया प्रसिद्धग्रहणं नियमेन तद्भावापत्तिमूलत्वं चास्यास्तेन विरोधः । तथा हि ‘णमह अवट्ठिअतुङ्ग—’ इत्यादौ वर्धनजन्यमन्यदेव तुङ्गत्वमन्यच्च पारमेश्वरमाजानिकमिति तयोरभेदाध्यवसायः । एत- देवाभिसन्धाय काश्मीरकैरतिशयोक्तिरस्या मूलमुक्ता । यदिति निपातो यत्रार्थे । यद्यपि कारणाभावेऽपि कार्योत्पत्तिरित्येव लक्षणं तथापि महासञ्ज्ञाकरणप्रयोजनं किमित्याशङ्कायां द्वयं विभाव्यमाह । तदयमत्र सङ्क्षेपः—यथोक्ता तावद्विभावना । सा द्वयी । कारणान्तरपर्यवसिता, स्वभावपर्यवसिता चेति ॥

प्रत्येकं च शुद्धादिभेदात्षोढा सम्पद्यत इत्येतावतैव विभावना शरीरनिष्पत्तेः । यथा वर्णो वर्णेन करम्बितं चित्रं तथा विभावनापि विभावनया तादृशी चित्रेत्याह—

अनेको यत्र सा चित्रा विचित्रा यत्र तां प्रति ।
तयान्यया वा गीर्भङ्ग्या विशेषः कश्चिदुच्यते ॥ ११ ॥

“अनेक इति” । यथा च स्वरूपसम्पादकातिरिक्तविशेषप्रवेशाद्विचित्राः स्रग्दामादयस्तथेयमपीति दर्शयति—“विचित्रा यत्रेति” । तां विभावनाम् । तया विभावनया । अन्ययेति अलङ्कारान्तररूपया ॥

तत्र कारणान्तरविभावनायां शुद्धा यथा—

‘अपीतक्षीबकादम्बमसंसृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम् ॥ १३ ॥’

अत्रैकैकं कादम्बादिकमुद्दिश्य क्षीबतादेः पीतत्वादिरेकैकः प्रसिद्धहेतुर्व्यावर्तते । हेत्वन्तरं च शरत्प्रभावो विभाव्यते । सेयं शुद्धा नाम कारणविभावनायां बिभावना ॥

पीतं पानम् । सूक्ष्मं निर्मलम् । “शरत्प्रभाव इति” । प्रस्तावौचितीभ्यामभिव्यक्तः ॥

स्वाभाविकत्वविभावनायां शुद्धा यथा—

‘अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
अरञ्जितारुणश्चायमधरस्तव सुन्दरि ॥ १४ ॥’

अत्रैकैकं दृष्ट्यादिकमुद्दिश्यासितत्वादेरनञ्जितत्वादिरेकैको हेतुर्व्या वर्त्यते । स्वाभाविकत्वं चासितत्वादि दृष्ट्यादेर्विभाव्यते । सेयं शुद्धा नाम स्वाभाविकविभावनायां विभावना ॥

कारणान्तरविभावनायां चित्रा यथा—

‘असम्भृतं मण्डनमङ्ग्यष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे १५’

अत्रैकमेव वयोलक्षणं पदार्थमुद्दिश्याप्यनेको मण्डनादेः प्रसिद्धो हेतुः सम्भृतत्वादिर्व्यावर्त्यते । कारणान्तरं च स्तनोद्भेदधातूपचयलावण्यलक्ष्मीलाभादिर्विभाव्यते । सेयं चित्रा नाम कारणान्तरविभावना ॥

“असम्भृतमिति” । ननु मण्डनस्य सम्भरणपूर्वकतया प्रसिद्धेरस्तु विभावना । ‘अनासवाख्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्तमस्त्रम्’ इत्यत्र तु कथम् । तथाहि । करणमिति करणे वा ल्युट्र । आद्ये मदस्य करणमासवो वयस्तु ततो भिन्नमिति कदाचिव्द्यतिरेकः स्यान्नतु विभावना । द्वितीयेऽपि वयो मदस्य क्रिया आसवनाम्नी न भवतीति न सङ्गतम् । एवं पुष्पव्यतिरिक्तमस्त्रमित्यत्रापि विकल्प्य यथायथं दूषणं वाच्यम् । तत्कथमेतत् । उच्यते । करणं क्रिया आसवमाख्यातीत्यासवाख्यम् । स्त्र्याख्यवत्प्रत्ययविधिः । न तथाभूतमनासवाख्यम् । हेतुतया न क्वचिदासवबोधक्षमम् । तथा हेतुप्रतिषेध एव भङ्ग्या दर्शितो भवति । अस्त्रमपि क्रियारूपं तत्पुष्पव्यतिरिक्तं पुष्पच्युतं विना पुष्पेभ्य इति पूर्ववदुन्नेयम् । स्तनोद्भेदेत्यादौ नार्थसन्देहः ॥

सैव स्वाभाविकत्वविभावनायां यथा—

‘णमह अवट्ठिअतुङ्गं अविसारिअ विस्यअअणोणअअं गहिरम् ।
अप्पलहुअपरिसण्हं अण्णाअपरमत्थपाअण्ड महुमहणम् ॥ १६ ॥’

[नमत अवस्थिततुङ्गमविसारिताविस्तृतमनवनतगभीरम् ।
अप्रलघुमपरिश्लक्ष्णमज्ञातपरमार्थपारदं मधुमथनम् ॥]

अत्रैकमेव मधुमथनमुद्दिश्यानेकस्तुङ्गत्वादेः प्रवृद्धत्वादिः प्रसिद्धो हेतुर्व्यावर्त्यते । स्वाभाविकत्वं च तं प्रत्येषां विभाव्यते । सेयं चित्रा नाम स्वाभाविकत्वविभावनायां विभावना ॥

तथैव गीर्भङ्ग्या विचित्रा यथा—

‘वक्रं निसर्गसुरभि वपुरव्याजसुन्दरम् ।
अकारणरिपुस्तस्या निर्निमित्तं सुहृच्च मे ॥ १७ ॥’

अत्रोत्तरयोर्विरहसमागमादिकारणान्तरविभावनयोः स्वाभाविकीभ्यां प्राग्विभावनाभ्यां यथासङ्ख्यं विशेष उक्तं । सेयं विभावनयैव विभावनायां विशेषोक्तेस्तयैव गीर्भङ्ग्या विचित्रा नाम विभावना भवति ॥

“वक्रं निसर्गसुरभीति” । तस्या यथोक्ते वक्रवपुषी ममाकारणरिपुर्निर्निमित्तं सुहृच्चेत्यन्वयो विवक्षितप्रतीतिलाभाच्च नार्थान्तरैकवाचकत्वलक्षणो दोषः । “यथासङ्ख्यमिति” । तयोरप्येकैकं प्रति सम्पादनलक्षणविशेषार्पणक्षमत्वात् ॥

सैवान्यया गीर्भङ्ग्या यथा—

‘वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १८ ॥’

अत्रातैलपूराः सुरतप्रदीपा इति स्वाभाविकत्वविभावनायां शेषपदार्थैरविभावनारूपैर्विशेष उक्तः । सेयमन्यया गीर्भङ्ग्या विचित्रा नाम विभावना भवति ॥

“शेषपदार्थैरिति” । वनितासखत्वादिभिः सुरताद्युपपादकैः ॥

क्रियायाः कारणं हेतुः कारतो ज्ञापकश्च सः ।
अभावश्चित्रहेतुश्च चतुर्विध इहेष्यते ॥ १२ ॥

हेतुप्रतिषेधो विभावनायामुक्तः, अथ हेतुरेव क इत्यपेक्षायां हेतुलक्षणमाह—“क्रियायाः कारणं हेतुरिति” । उपपत्तौ क्रियायामेव सर्वस्य निमित्तभावो निरूप्यत इत्यभिसन्धाय क्रियाया इत्युक्तमिति कश्चित् । तदसत् । द्रव्यगुणक्रिया-विषये हेतुः क्रियामात्रविषयश्च कारकमिति प्रकीर्णप्रवृत्तौ विभागकरणात्क्रियाग्रहणं चेह निष्फलं स्यात् । तस्माद्यत्र क्रियां प्रत्यवधिभावो निरूप्यते तत्र द्वयीगतिर्निमित्तत्वमात्रविवक्षा अवस्तुविवक्षा वा, द्वितीयेऽपि कारकत्वविवक्षा वा । आद्येऽप्याश्रितावधिभावस्य वस्त्वन्तरपरहेतुभावविवक्षा अवस्तुत्वविवक्षा वा । द्वितीयेऽपि कारकत्वक्रियानुबन्धिव्यापारत्वम् । प्रधानक्रियानुकूलक्रियान्तरसमावेश इति यावत् । तद्द्विविधं शब्दाभिहितम्, अतथाभूतं च । आद्यं कारकविभक्तेर्विषयः, द्वितीयं हेतुविभक्तेः । द्वयमपि च क्रियाविषयमेव । षण्णामपि कारकाणां क्रियाघटितमूर्तित्वात् । अवस्तुभूतं तु निमित्तमभावात्मकतया न विक्रियते । विकाराभावाच्च न क्रियाविशिष्टमतथाभावे । न च कारकमिति तृतीय एव प्रकारः प्रसिद्धकार्यकारणभावविपर्यासेनोपनिबध्यमानो हेतुराश्चर्यकारितया चित्र आरोपितमपि च हेतुत्वं हेतुत्वमेवेति भवति चतुर्थः प्रकारः । बहिरसम्भाव्यमानस्यापि कविप्रतिभासंरम्भोत्थाप्यतया चमत्कारविशेषार्पणादक्षुण्णैवालङ्कारता । यदाह—‘को हि प्रतीतिमात्रकाव्ये वस्तुस्थितिं भावयेत्’ इति । तदेतत्सर्वमभिसन्धाय विभागमाह—“कारक इत्यादि” ॥

यः प्रवृत्तिं निवृत्तिं च प्रयुक्तिं चान्तरा विशन् ।
उदासीनोऽपि वा कुर्यात्कारकं तत्प्रचक्षते ॥ १३ ॥

असतः सत्ता प्रवृत्तिः । सतोऽपगमो निवृत्तिः । प्रवर्तमानस्य प्रवर्तना प्रयुक्तिः । अन्तरा विशन्नुपात्तयुक्तिः । उदासीनोऽतथाभूतः । तेन कारकस्य षटू प्रकाराः ॥

तेषु प्रवर्तकः क्रियाविष्टो यथा—

‘अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ १९ ॥’

सोऽयं यथोक्तो मलयमारुतः प्रीत्युत्पादनक्रियासमावेशात्प्रवर्तको नाम कारकहेतुभेदः ॥

स एव क्रियानाविष्टो यथा—

‘तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ २० ॥’

अत्र प्रभावः क्रियायामनिविशमान एव हेतौ तृतीयां प्रवर्तयति न कर्तरीति क्रियायामनाविष्टकारकहेतुभेदः ॥

तस्य राज्ञः प्रभावेनेत्यत्र सदपि कर्तृत्वमविवक्षितं, अतो हेतुमात्रविवक्षायां पाक्षिकी तृतीया भवतीत्याह—“हेतौ तृतीयायामिति” । करणभावस्त्वसम्भावित एव प्रभावमात्रस्य व्यभिचारात् ॥

निवर्तकः क्रियाविष्टो यथा—

‘चन्दनारण्यमाधूय स्पृष्ट्वा मलयनिर्झरान् ।
पथिकानां प्रमाथाय पवनोऽयमुपस्थितः ॥ २१ ॥’

अत्रैवंविधस्य पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्निवर्तको नामायमाविष्टक्रियः कारकहेतुभेदः ॥

प्रमाथसाधनक्रियायां कर्तृत्वेनेति निष्ठाप्रत्ययेनोपात्तेनेति भावः ॥

स एव क्रियानाविष्टो यथा—

‘प्रजागरात्खिलीभूतस्तस्याः स्वप्नसमागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२ ॥’

अत्र समागमनिवृत्तावनिविशमानः प्रजागरस्तृतीयार्थे पञ्चमीं प्रयोजयति । बाष्पः पुनर्दानक्रियावेशाद्दर्शनक्रियायामनाविशन्कर्मसम्बन्धात्तामप्रधानभावेन चोपगृह्णातीत्यनाविष्टक्रियो नाम निवर्तकोऽयं कारकहेतुभेदः ॥

खिलीभावो निवृत्तिः । “तृतीयार्थ इति” । हेताववधित्वाप्रतीतेरपादानभावेन सम्भावितः । “दानक्रियेति” । स्यादत्र दर्शनक्रियासमावेशो यदि दानक्रियावेशः स्यात् । स एव तु नास्ति नञा निषेधादित्यर्थः ॥

प्रयोजकः क्रियाविष्टो यथा—

‘तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् ।
हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥ २३ ॥’

अत्र बलप्रत्युज्जीवनमरणक्रिययोः सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन हनूमानाविशन्प्रयोजको भवतीति क्रियाविष्टोऽयं प्रयोजको नाम कारकहेतुभेदः ॥

“तस्मिञ्जीवतीति” । जीवनमरणयोर्बलस्यैव स्वातन्त्र्यं हनूमान्प्रयोजयति । प्रयोजकता चास्य (ते एव) जीवत्युज्झितप्राणे इति पदाभ्यामुपात्ता । कतभत्कारकमिदं भवतीत्याह—“सप्तमीवाच्येति” । ननु च—‘अङ्गुल्यग्रे मदकलघटान्दर्शयन्तीव धूर्ता’ इत्यादौ काल्पनिकादावपि सप्तमीभावात्कथं कारकतेत्यत आह—“नैमित्तिकेति” । अन्यस्यासम्भवादिति भावः ॥

स एव क्रियानाविष्टो यथा—

‘मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् ।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ॥ २४ ॥’

अत्र मानाभ्यासक्रियाया भ्रूभङ्गजिह्माक्षिप्रेक्षणादिरूपाया आत्मन्येवात्मनः समावेशो न भवतीति क्रियानाविष्टोऽयमिति शब्दाभिधेयप्रयोजको नाम कारकहेतुभेदः ॥

“मानयोग्यामिति” । भ्रूभङ्गजिह्माक्षिस्फुरिताधरादिप्रेक्षणारूपायां मानाभ्यासक्रियायामपि बालायाः स्वातन्त्र्यं, तादृशीं तु तामिति शब्दनिर्देश्योऽभिप्रायविशेषः प्रयुङ्क्ते । तस्य तु न क्रियान्तरमुपात्तम् । उपात्तायास्तु मानक्रियायाः स्वात्मनि समावेशोऽनुपपन्नः । अभिप्रायोऽपि हि व्यापारप्रचयरूपक्रियान्तर्भूत एव । यदाह “महाभाष्यकारः”—‘यत् किञ्चित्तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा तत्सर्वं पच्यर्थ’ इति । स्मरणादिकं चास्य व्यापारः सम्भवतीत्यतो नाकारकत्वं वाच्यम् । तदेतदभिसन्धायाह—“आत्मन्येवात्मन इति” ॥

द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् ।
क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः ॥ १४ ॥

स द्वितीयावाच्यो यथा—

‘तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ २५ ॥

अत्र क्रियानाविष्टतयैवेन्दुमत्यां महीपतीनां शृङ्गारचेष्टा भवन्त्यो लक्ष्यन्ते । सोऽयं लक्षणहेतुः प्रतिना योगे द्वितीयामुत्पादयति ॥

इह पञ्चैव लक्षणे विभक्तयो विहिताः । तद्यथा । ‘अनुर्लक्षणे १।४।८४’, ‘लक्षणेत्थम्भूत १।४।९०’ इत्यादिना कर्मसञ्ज्ञां विधाय ‘कर्मप्रवचनीययुक्ते २।३।८’ इति द्वितीया । ‘येनाङ्गविकारः २।३।२०’, ‘इत्थम्भूतलक्षणे २।३।२१’ इत्येताभ्यां तृतीया । ‘उत्पातेन ज्ञापिते च १।४।४४ वा।’ इति चतुर्थी । ‘यस्य च भावेन भावलक्षणम् २।३।३७’ इति सप्तमी । ‘षष्ठी चानादरे २।३।३८’ इति षष्ठी । तदेतदाह—“द्वितीया चेति” । षष्ठीमग्रे वक्ष्यति । ‘षष्ठी चानादरे २।३।३८’ इति सूत्रे चकारस्य समुच्चेयतया न प्रधाना सेति नात्र तुल्यकक्षतया गणिता । क्रियानाविष्टं स्वव्यापारशून्यं तटस्थमेव यव्द्याप्रियते, तेन कारकाद्भेदः । अत्र हि क्रियानाविष्टस्यैव इन्दुमत्यामितीन्दुमतीमालम्बनविभावीकृत्य (विधीय)मानाः शृङ्गारचेष्टास्तयैवावच्छिद्यन्ते, तदवस्था एव च लक्ष्यन्ते, ततो भवति हेतुत्वं लक्षणत्वमवधित्वं चेति । ननु कथमत्र द्वितीया, यावता हेतुत्वात्तृतीयया भवितव्यमित्यत आह—“द्वितीयामिति” । नाप्राप्तायां तृतीयायामियं विधीयमाना बलवती तां बाधत इत्यर्थः ॥

तृतीयावाच्यमित्थम्भूतलक्षणं यथा—

‘कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ॥ २६ ॥

अत्र कण्ठेकाल इत्यादीनि क्रियायामनिविशमानान्येव वृषध्वजं ज्ञापयन्ति यथा जटाभिस्तापस इति ॥

“कण्ठेकाल इत्यादीनीति” । यद्यपि कपालेन जटाभिरित्येवोदाहरणं तथापि प्रसङ्गादितरव्द्याख्यानं ज्ञापकत्वम् । उभयत्रापि तुल्यविभक्तिवाच्यतायां तु विशेषः । तेनान्योऽप्येवञ्जातीयो लक्षणप्रकारः स्वयमूहनीय इत्युक्तं भवति, यद्वक्ष्यति ‘उपलक्षणं चैतत्’ इत्यादिना । उक्तमेव प्रसिद्धोदाहरणेन द्रढयति—“यथा जटाभिरिति” । यथाहीत्थम्भूतस्य तेनैव प्रकारेण प्रकारवतो लक्षणं जटा भवन्ति तथेहापि कपालादिकमिति भावः ॥

तृतीयावाच्य एवाङ्गविकारलक्षणं यथा—

‘स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः ॥ २७’

अत्र वपुषा चतुर्भुजो मुखेन त्रिलोचनस्तेजसा रविरित्यङ्गविकारैरङ्गिनो विकृतिर्लक्ष्यते यथाक्ष्णा काण इति ॥

“तृतीयावाच्य एवेति” । सूत्रेऽङ्गपदेनाङ्गी लक्ष्यते । तस्य च सम्बन्धिनियमादङ्गवाचिनस्तृतीया भवति । अङ्गं च द्विविधमाजानिकमौपचारिकं च द्वयमपीह विवक्षितं विकारादिकं चेत्थम्भूतलक्षणमेवेदम् । अत एव सूत्रक्रमो नाद्दत इत्याशयवान्व्याचष्टे—“अत्र वपुषेति” । विकृतिरवस्थान्तरप्राप्तिः ॥

चतुर्थीवाच्यमुत्पातलक्षणं यथा—

‘गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहिते पाणौ मणीन्बिभ्रती ।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ २८ ॥’

अत्र गौर्या विवाहमङ्गलानौचित्येनोत्पातरूपैरगदरजोनियोगादिभिर्भगवद्गता गोनासादयो ज्ञाप्यन्ते, यथा वाताय कपिला विद्युदिति । ततश्चोत्पातेन ज्ञापितेचेति सम्बन्धस्योभयनिष्ठत्वात्तादर्थ्य इव लक्ष्यवाचिनश्चतुर्थी न लक्षणवाचिनः । तृतीयाविषयापहारादेकयैव च विभक्त्योभयगतस्यापि सम्बन्धस्य राज्ञः पुरुष इतिवदुक्तत्वात्तृतीयापि न भवति ॥

“गोनासायेति” । ननूत्पातेनाविष्टेन यज्ज्ञाप्यते तत्र चतुर्थीति लक्षणमेवास्या वाच्यं प्रतिभाति, नैतत् । लक्ष्यलक्षणभावोऽसावभिधीयते न तु लक्ष्ये । । । । । । ततश्च यतो विधीयते तस्य लक्षणीयतामर्थादितरस्य लक्षणतां बोधयतीति । अगदरजःप्रभृतयस्तु कथममङ्गलरूपा इत्यवशिष्यते । तत्राह—“अत्र गौर्या इत्यादि” । ननु तथापि लक्षणवाचिन एव चतुर्थीति कथमवसितभित्यत आह—“ततश्चेति” । यथा तादर्थ्यस्योभयनिष्ठत्वेऽपि कङ्कणाय कनकमित्यत्र कार्यवाचिन एव चतुर्थी न तु कारणवाचिनः, तथेहापि सम्बन्धस्योभयाश्रयत्वेऽपि लक्ष्यवाचिन एव चतुर्थी नतु लक्षणवाचिन इत्यर्थः । तर्हि तृतीया कथं न भवतीत्यत आह—“एकयैव चेति” । सम्बन्धस्य सम्बन्धिनावेव विशेषस्तेन लक्षणमपि चतुर्थ्येव प्रतिपादयत्यत आह—उक्तार्थत्वात्कथं तृतीया न भवतीति शुद्धप्रातिपदिकार्थाभिधाने प्रथमेति भावः ॥

सप्तमीवाच्यं भावलक्षणं यथा—

‘इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किञ्चित्तस्थे तत्रान्धकारिणा ॥ २९ ॥’

अत्र सेनान्यः पलायमानगणानुशासनक्रिययान्धकारेः स्वप्रकाशनक्रिया लक्ष्यते यथा—‘गोषु दुह्यमानासु गतः’ इति । उपलक्षणं चैतत् । तेनान्यदपि भावलक्षणं शत्राद्यभिधेयमुपलक्ष्यते, यथात्रैव हसता तस्थे इति ॥

‘यस्य च भावेन भावलक्षणम् २।३।३७’ इत्यस्य सूत्रस्यार्थस्तु यस्य वस्तुनो भावेन क्रियया वस्त्वन्तरस्य भावः क्रिया लक्ष्यते तद्वचनात्सप्तमीत्यत आह—“अत्र सेनान्य इति” । हसता तस्थ इति लक्षणे शतृविधिः ‘लक्षणहेत्वोः क्रियायाः ३।२।१२६’ इति सूत्रणात् ॥

यथा वा—

‘यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ३० ॥’

इत्यनादरोपाधिके भावलक्षणे षष्ठ्यपि भवतीति ॥

अभावः प्रागभावादिभेदेनेह चतुर्विधः ।
घटाभावादिभेदात्तु तस्य सङ्ख्या न विद्यते ॥ १५ ॥

अभावसामान्यमभावप्रमाणनिरूपणप्रस्तावे ‘असत्तायाः पदार्थानाम्’ इत्यनेन वक्ष्यति । तेनात्र सामान्यलक्षणं न कृतवान् । स द्विविधस्तादात्म्यप्रतियोगिकः, संसर्गप्रतियोगिकश्च । द्वितीयस्त्रिधा प्राक्प्रध्वंसात्यन्ताभावभेदात् । तदाह—“प्रागभावादिति” । ननु न प्रागभावादिरेकोऽस्ति प्रतियोगिभेदेन भेदादित्यत आह—“घटाभावादीति” । अनेन रूपेण सङ्ख्या नास्त्येव । सामान्यं तु प्रागभावत्वादिकमाश्रित्य चातुर्विध्यम्, सोऽयं तुशब्दस्यार्थः ॥

तेषु प्रागभावो यथा—

‘अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् ॥ ३१ ॥’

अत्र विद्यानभ्यासादेः प्रागभावस्य व्यसनादिकारणत्वम् ॥

प्रध्वंसाभावो यथा—

‘गतः कामकथोन्मादो गलितो यौवनज्वरः ।
गतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः ॥ ३२ ॥’

अत्र कामकथोन्मादगमनादेः प्रध्वंसाभावस्य पुण्याश्रमानुसन्धानकारणत्वम् ॥

“अनभ्यासेनेति” । यावद्विद्यां नाभ्यस्यन्ति तावन्न धीमद्भिः संसृज्यन्ते, यावच्चाक्षाणि न निगृह्णन्ति तावव्द्यसनमिति विवक्षितम् । तेन नात्यन्ताभावसङ्करः । आराध्यास्त्वाहुः—‘शिक्षापरस्यास्य श्लोकस्याप्यन्यप्रयोजनकतया नात्यन्ताभावसङ्करः’ इति ॥

इतरेतराभावो यथा—

‘वनान्यमूनि न गृहाण्येता नद्यो न योषितः ।
मृगा इमे न दायादास्तन्मे नन्दति मानसम् ॥ ३३ ॥’

अत्र वनानि अमूनि न गृहाणीत्यादेरितरेतराभावस्य मनःप्रमोदकारणत्वम् ॥

“वनान्यमूनीति” । इदमिदं न भवतीति प्रतीतिसाक्षिक एवान्योन्याभावः । वैधर्म्यं तु भेदाख्यमलङ्कारान्तरं किञ्चिद्धर्ममन्तर्भाव्यैव स्वरूपस्यापि भेदव्यवहारपात्रता ॥

अत्यन्ताभावो यथा—

‘अत्यन्तमसदार्याणामनालोचितचेष्टितम् ।
अतस्तेषु विवर्धन्ते निर्विबन्धा विभूतयः ॥ ३४ ॥’

अत्रानालोचितचेष्टितस्यात्यन्ताभावो विभूतीनां निर्विघ्नवृद्धिहेतुः । एतेनाभावाभावोऽपि व्याख्यातः ।

अत्र प्रागभावाभावो यथा—

‘उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी ।
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥ ३५ ॥’

अत्र वस्तुन उत्पादः प्रागभावाभाव उच्यते । तेनेह सहकारमञ्जरीमुद्भेदस्य पथिकनारीणां मरणे कारणत्वम् ॥

“वस्तुन उत्पाद इति” । भाव एवाभावाभावव्यवहारभूमिः । अभावव्यवहारविषयमात्रस्य च विभागः कृतोऽस्ति । प्रागभावादेः प्रध्वंसादिरूपतेति न न्यूनता विभागवाक्यस्याशङ्कनीया । “तेनेति” । भूतभव्यसमुच्चारणे भूतं भव्यायेति न्यायान्मञ्जरीणामुद्भेदस्य कारकतालाभोऽन्यथा वाक्यभेदे न किञ्चित्स्यात् । प्रागभावात्प्रागभावाभावभङ्ग्या च समस्तमञ्जरीसमुद्भेदेन वसन्तप्रौढिध्वननात्प्रकृतविप्रलम्भः पोषः ॥

प्रध्वंसाभावाभावो यथा—

‘पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः ।
स्वावासानुपघातनिर्वृतमनास्तत्कालमीलद्दृशे यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ ३६ ॥’

अत्र यथोक्तेन वपुषा योऽयमालिङ्गनेऽपि विधिनिवासनाभिपङ्कजानुपघातः, स इह वस्तुनोऽवस्थानमेव प्रध्वंसाभावाभाव उच्यते । स चेहाच्युतनाभिपङ्कजनिवासिनो विधेर्मनोनिर्वाणकारणं भवति ॥

“पीनश्रोणीति” । निभृतं दुर्लक्ष्यम् । अब्धिदुहितापि सर्वाङ्गीणमाश्लेषमभिलषति भगवानपीति कान्तेन कान्तमित्येताभ्यामभिव्यज्यते । उपलक्षणं चेदम् । तादात्म्यात्यन्ताभावाभावावप्युदाहरणीयौ । यथा—‘अवनिरुदकं तेजो वायुर्नभः शशिभास्करौ पुरुष इति यत्केचिद्भिन्ना वदन्ति तनूस्तव । तदनघ वचोवैचित्रीभिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् ॥’ अत्र भिन्न इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेत्येताभ्यां निषेधः । यथा च—‘न विद्यते यद्यपि सर्ववासनागुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागु-पासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ऽ अत्र न विद्यत इत्यत्यन्ताभावमुपन्यस्य कमपीति प्रतिभासत्ताभिधानेन प्रतिषेधः ॥

विदूरकार्यः सहजः कार्यानन्तरजस्तथा ।
युक्तो न युक्त इत्येवमसङ्ख्याश्चित्रहेतवः ॥ १६ ॥

तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः ।
कार्याः काव्येषु वैचित्र्यं तथा ते कर्तुमीशते ॥ १७ ॥

तेषु विदूरकार्यो यथा—

‘अनश्नुवानेन युगोपमानमलब्धमौर्वीङ्किणलाञ्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ३७’

सोऽयं बाल्य एव नवयौवनकार्यकरणाद्विदूरकार्यो नाम चित्रहेतुः ॥

“विदूरकार्य इति” । कालान्तरभाव्यवस्थासम्पाद्यं प्रागवस्थावत एव कार्यमुपजायमानं यत्रोच्यते स विदूरकार्यस्तच्च कार्यं शक्तिविशेषाधीनमिति बाल्येऽपि प्रभावातिशयदर्शनाद्भुजेनैव रक्षा कृतेति गौणवृत्तिव्यपाश्रयता ॥

सहजो यथा—

‘सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ३८ ॥’

अत्र राज्याभिषेकरिपुमण्डलाक्रमणयोर्हेतुहेतुमद्भावेन सत्यपि पौर्वापर्ये क्षिप्रकारित्वात्तुल्यमेव कार्यकारणभावो विवक्षितस्तेन सहजो नामायं चित्रहेतुः ॥

सहजः कार्ये सहोत्पत्तिकतया निबद्धः । कारणशक्तिप्रकर्षात्समकालमिव कार्यं प्रतिभासते, तेन हेतुशक्तिप्रकर्षाभिव्यक्तिरत्र मूलम् । ‘यदग्रे ददति यथा वा कर्तुमीशते’ इति । एवमनन्तरजेऽपि किं कारणं पूर्वमुत कार्यमस्ति स एव व्यङ्ग्यः । युक्तेऽपि कारणगुणानुविधायि कार्यमसदेवारोप्यते न प्रमुक्तेति तदेव विपरीतमिति गौणवृत्त्याश्रयता ॥

कार्यानन्तरजो यथा—

‘पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ ३९ ॥’

अत्र चन्द्रोदयलक्षणाद्धेतोः पूर्वकालमेव रागसागर उदीर्ण इति कार्यस्योदयलाभः । स इह गुणवृत्त्याश्रयणे हेतावतिशयं पुष्यतीत्ययं कार्यानन्तरजो नाम चित्रहेतुः ॥

युक्तो यथा—

‘गुणानुरागमिश्रेण यशसा ते प्रसर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥ ४० ॥’

अत्र दिग्वधूमुखेषु ते गुणानुरागः कुङ्कुमं, यशस्तु चन्दनमित्ययं युक्तो नाम गौणवृत्तिव्यपाश्रयश्चित्रहेतुः ॥

नयुक्तो यथा—

‘न मीलयति पद्मानि न नभोऽप्यवगाहते ।
त्वन्मुखेन्दुर्ममासूनां हरणायैव यस्यति ॥ ४१ ॥’

अत्र मुखेन्दोः पद्मनिमीलनादि न युज्यत इति नयुक्तो नाम चित्रभेदः ॥

ननु व्यक्तिभेदेऽपि हेतोरसङ्ख्यता चेद्बिवक्षिता किमेवं शब्देनाधिकेनेत्यत आह—

एवं शब्दस्य प्रकारवाचित्वाव्द्यधिकरणादयः प्रयुज्यन्ते ॥

व्यधिकरणो यथा—

‘सा बाला वयमप्रगल्भवयसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ४२ ॥’

अत्राभिव्यक्तमेव व्यधिकरणत्वं कार्यकरणयोः प्रतीयत इत्ययं व्यधिकरणो नाम चित्रहेतुः ॥

“एवं शब्दस्येति” । प्रकारस्योपाधेरेव भेदो विवक्षितो न तु व्यक्तिमात्रस्येति भावः । “सा बालेति” । बाल्यादीनां सामानाधिकरण्य एव प्रागल्भ्यादिकं प्रति हेतुभावः प्रतीतः स इह गौणवृत्तिव्यपाश्रयतयोनिबध्यमानः कान्तिमावहति । तथाहि । अन्यत्प्रागल्भ्यं बालायाः सरलालोकितवाङ्मिश्रणाद्यसामर्थ्यलक्षणम्, अन्यच्च नायकप्रकाण्डे कथमेषां नियन्त्रणा स्यादित्यनध्यवसायलक्षणम् । तयोश्च तद्भावापत्तिरत्र व्यक्तैव । एवं कातरत्वादौ बोध्यम् । आदिग्रहणेन स्वहेतुकतया कार्यहेतुकतया चोपनिबध्यमानः सङ्कलितो भवति ॥

हेतोरनन्तरं तद्विपरीतमहेतुं लक्षयन्नाह—

वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना ।
अकृतात्मीयकार्यः स्यादहेतुर्व्याहतस्तु यः ॥ १८ ॥

“वस्तुन इति” । हेतुतया प्रतीतोऽपि कार्यं न करोतीत्यभिधीयमानोऽहेतुः । स द्विविधः। स्वरूपेण कार्यव्यभिचारी, व्यापारविरोधेन वा । तथाभूतोऽपि च कार्यं न करोति । तत्र द्वयं निबन्धनं यद्गतं कार्यमुपजनयितव्यं तस्य वस्तुनः स्वभावो हेतुत्वाभिमतस्य शक्तिहानिर्वा । सापि द्विधा—आत्यन्तिकोऽभावः, प्रतिबन्धमात्रं वा । तत्र वस्तुस्वभावेन शक्तेरत्यन्तासत्त्वेन च द्विरूपस्वरूपाव्यभिचारीकृतात्मीकार्य इत्यनेनोक्तम्, वस्तुस्वभावेन शक्तिप्रतिबन्धेन च द्विप्रकारोऽपि च व्यापाराव्यभिचारी व्याहतः, इत्यनेन यद्यपि शक्तिरत्यन्तासत्त्वे हेतुभाव एव न भवति, तथापि गुणवृत्त्या हेतुभावाध्यासो बोद्धव्यः । सा च गुणवृत्तिः श्लेषोपहितान्यादृशी भवति ।

ननु चात्र चेष्टाया हेतुत्वं तृतीयया प्रतीयत इति सा हेतुत्वेन वक्तुमुचितेत्यत आह—

तत्र वस्तुस्वभावेनाकृतकार्यो यथा—

‘न विरचिता ललाटतटलास्यकरी भ्रुकुटि- र्न परुषहुङ्कृतेन मधुरस्मितमन्तरितम् ।
न तव निशुम्भसम्भ्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्बुरुहम् ॥ ४३ ॥’

अत्र निशुम्भसम्भ्रमस्य हेतोरनुत्पादितभ्रुकुट्यादिदारुणचेष्टाद्वारेण भगवतीमुखाम्बुकालुष्यस्य करणे यदसामर्थ्यं तत्र तन्मुखाख्यस्य वस्तुनः स्वभावो निमित्तमिति स्वभावादनुत्पादितकार्योऽयमहेतुः ॥

“अत्र निशुम्भेति” ॥ “भ्रूकुट्यादिदारुणचेष्टाद्वारेणेति” । अन्यथा निशुम्भसम्भ्रमवशादिति पञ्चमी असङ्गता स्यादिति भावः ॥

स एव शक्तेर्हानिहेतुवा यथा—

‘अनुरागवती सन्ध्या दिवसस्तत्पुरः सरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ४४ ॥’

अत्रानुरागवत्त्वतत्पुरः सरत्वयोः समागमहेत्वोः सामर्थ्यविघाते दैवगतिः कारणमिति शक्तेर्हानिहेतुनायमकृतस्वकार्यो नामाऽहेतुः ॥

अनुरागो लौहित्यं प्रीतिश्च । पुरःसरोऽग्रे गमनशीलः सन्निधौ स्थितश्च ॥

वस्तुनः स्वभावेन व्याहतो यथा—

‘नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखगतान्प्राप्य रत्नप्रदीपा- न्ह्रीमूढानां भवति विफलः प्रेरणाचूर्णमुष्टिः ॥ ४५ ॥’

अत्र रत्नप्रदीपनिर्वापणे चूर्णमुष्टेरपत्यक्तस्वरूपस्यापि विघाते रत्नप्रदीपाख्यवस्तुस्वभावः कारणमित्ययं वस्तुस्वभावेन व्याहतो नामाऽहेतुभूतः ॥

अमृतसेकजीवितकङ्कालक्तिप्रतिबन्धे को हेतुरत आह—

स एव शक्तेर्हानिहेतुना यथा—

‘शम्भोरुद्धतनृत्यकर्मणि करे कङ्कालमाद्यं हरेः सङ्घट्टस्फुटितेन्दुमण्डलगलत्पीयूषसञ्जीवितम् ।
तत्कालप्रणते मुरद्विषि नवे दृष्ट्वा विलासं श्रियः कुर्वत्कोपकषायितेन मनसा मिथ्योत्प्लुतीः पातु वः ॥ ४६ ॥’

अत्र कोपकषायितेन मनसस्तस्योत्प्लुतिकरणसमर्थस्यापीश्वरकरग्रहणान्मिथ्यापदाभिधीयमानः प्रतीतो व्याघातस्ततोऽयं शक्तेर्हानिहेतुना व्याहतो नामा हेतुभेदः ॥

“ईश्वरकरग्रहणाजदिति” । ननु कोपकषायितमनस्त्वमुत्पादितकार्यमेव कथमन्यथा कुर्वदीत्युच्यतेऽत आह—“मिथ्यापदेति” ॥

इह कैश्चित्कारणमाला पृथगलङ्कार इत्युक्तम्, पूर्वस्योत्तरोत्तरं प्रति हेतुभावोक्तिस्तल्लक्षणम् । स द्विविधोऽभिधीयमानः प्रतीयमानो वा । उभयथापि नाहेतोर्व्यतिरिच्यत इत्याह—

यस्तु कारणमालेति हेतुसन्तान उच्यते ।
पृथक्पृथगसामर्थ्यात्सोऽप्यहेतोर्न भिद्यते ॥ १९ ॥

एकोऽभिधीयमानेषु हेतुत्वेषु भवेत्तयोः ।
प्रतीयमानेष्वपरः कारणत्वेषु जायते ॥ २० ॥

“यस्त्विति” । यद्यपि प्रथमस्य प्रथमं हेतुभावो निवृत्त एव तथाप्युत्तरस्य प्रथममुखनिरीक्षणप्रवृत्तस्योत्तरं प्रति हेतुभावोऽभिधीयते । न हि स्वतन्त्रस्यैव हेतुभावे कारणमाला भासते ॥

तदिदमेकदेशद्वारा व्यञ्जयन्नाह—

तयोराद्यो यथा—

‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवाश्च सम्पदः ॥ ४७ ॥’

अत्र जितेन्द्रियत्वादीनामुत्तरोत्तरं प्रति हेतुभूतानामपि सम्पदुत्पत्तौ पूर्वपूर्वसव्यपेक्षायां समुदितानामेव कारणत्वं साधनादिपदैरभिधीयत इति सोऽयमभिधीयमानहेतुत्वकारणमालेत्यहेतुभेदः ॥

द्वितीयो यथा—

‘पीणत्तुण दुग्गेज्जं जस्स भुरआअन्तणिट्ठुरपरिग्गहिअम् ।
रिट्ठस्स विसमवलिअं कण्ठं दुक्खेण जीविअं वोलीणम् ॥ ४८ ॥’

[पीनत्वेन दुर्ग्राह्यं यस्य भुजयोरन्तर्निष्ठुरपरिगृहीतम् ।
रिष्टस्य विषमवलितं कण्ठं दुःखेन जीवितमतिक्रान्तम् ॥]

अत्र जीवितदुःखातिक्रमणे कण्ठस्य वलनं, वलनस्य निष्ठुरग्रहणं, निष्ठुरग्रहणस्यापि पीनत्वेन दुर्ग्राह्यत्वं हेतुरिति प्रतीयमानकारणत्वं कारणमालेत्यहेतुभेदः ॥

“अत्र जितेन्द्रियत्वादीनामिति” । “अत्र जीवितदुःखातिक्रमण इति” । यद्यत्र हेतुमाला न स्यात्तदा परस्परानपेक्षायामुपन्यासे वाक्यार्थपोषो(ऽपि) न स्यादिति ॥

लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तरं सूक्ष्मं लक्षयति—

इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः ।
सूक्ष्मात्प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ॥ २१ ॥

वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ।
इङ्गिताकारलक्ष्यत्वं लक्ष्यसामान्यमेतयोः ॥ २२ ॥

तत्रेङ्गितलक्ष्यमभिधीयमानसूक्ष्मं यथा—‘तां प्रत्यभिव्यक्तमनोरथानाम्’ इति । अत्र स्वयंवरमिलितानां राज्ञां राजपुत्रीं प्रति प्राप्तिलक्षणस्य मनोरथस्याभिधीयमानस्य शृङ्गारचेष्टात्मकेनेङ्गितेन व्यङ्ग्यत्वादयमिङ्गितलक्ष्योऽभिधीयमानः सूक्ष्मभेदः ॥

“इङ्गितेति” । इङ्गितमाकार इङ्गिताकारौ चेत्यर्थः । शरीरावयवव्यापार इङ्गितम् । रूपादेरन्यथात्वमाकारः । सूक्ष्मार्थदर्शनं सूक्ष्ममित्यर्थगुणेषूक्तं तेन पौनरुक्त्यमाशङ्क्याह—“सूक्ष्मगुणात्तु स इति” । हृदयसंवादभागित्रिचतुरहृदयसंवेद्यस्य । अत एवातिसूक्ष्मार्थस्य प्रत्यक्षायमाणत्वात्सूक्ष्मो नामार्थगुणः । यथाहि कवेः प्रतिभा सूक्ष्मविशेषोल्लेखिनी तथा तन्मूलकः शब्दोऽपीति स्फुटाभतया प्रत्यक्ष- प्रमेयज्ञानमुत्पद्यते । तथाह्यन्योन्यसंवलितेत्यादौ दम्पत्योर्मिथोऽनुस्मृतिलक्षणस्य प्रेम्णः कतिपयसंवेद्यस्यापि शब्दबलात्प्रत्यक्षायमाणत्वमनुभवसिद्धमेव । तदेतदाह—“सूक्ष्मात्प्रत्यक्षत इति” । सूक्ष्मालङ्कारे तु कविप्रतिभाया लिङ्गविषयत्वाच्छब्दोऽपि तद्विषय एव । लिङ्गाच्च प्रतीतिरुत्पद्यमाना सामान्यपुरस्कारेण प्रवृत्ता न प्रत्यक्षवत्तद्विशेषोल्लेखक्षमेति सूक्ष्मगुणवैधर्म्यम् । तदिदमुक्तम्—“सूक्ष्मोऽप्रत्यक्ष इति” । अत्र कैश्चित्प्रतीयमानस्य सूक्ष्मस्य भाव इति सञ्ज्ञां विधायालङ्कारान्तरमुक्तं तदसत्, सूक्ष्मसामान्यलक्षणेन क्रोडीकरणादित्याह—“इङ्गिताकारलक्ष्यत्वमिति” । एतेन लक्ष्यत्वपुनरुक्त्याशङ्का परिहृता । “अत्र स्वयंवरेति” । न च शृङ्गारचेष्टाप्रत्यर्पितस्य मनोरथशब्देनाभिधीयमानमर्थं पुनरुक्तमिति वाच्यम् । नहि यथानुरागानुभावेन चित्तवृत्तयः स्फुटा उपस्थाप्यन्ते तथा स्वशब्देनेति विस्तरेण सप्रपञ्चमेव वक्ष्यामः । स्वशब्दस्तु किमर्थमित्यवशिष्यते तत्र ब्रूमः । स्वयंवरसमाजप्रवेशादिना येषां सामान्यत उत्कण्ठा प्रतीतिपथमवतीर्णासीत्तेषामिन्दुमतीसन्निधौ तदनुभावबलेनासङ्ख्यसूक्ष्मविशेषवती सैवाभिव्यक्तेति दृढानुबन्धलक्षणस्य प्रेम्णः प्रकर्षकाष्ठां पुष्णाति । एवमन्यत्रापि ॥

तदेवाकारलक्ष्यं यथा—

‘सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदारालकेश्याः ॥ ४९ ॥

अत्राभिलाषबन्धो रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराक्रामदित्यनेनाभिधीयमान आकारलक्ष्यः सूक्ष्मभेदोऽभिहितः ॥

तदेवोभयलक्ष्यं यथा—

‘त्वदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत ।
उद्दामरागपिशुना छाया कापि मुखाम्बुजे ॥ ५० ॥’

अत्र त्वदर्पितदृश इति इङ्गितच्छाया कापि मुखाम्बुज इत्याकारस्ताभ्यामुद्दामरागपिशुनेत्यनेनाभिधीयमानस्याननरागस्य सूक्ष्मरूपतया लक्ष्यमाणत्वादयमभिधीयमानोभयलक्ष्यः सूक्ष्मभेदः ॥

लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तरं सूक्ष्मं लक्षयति—

प्रतीयमानमिङ्गितलक्ष्यं यथा—

‘वाहित्ता पडिवअणं ण देइ रूसेइ एक्कमेक्कम्मि ।
अज्जा कज्जेण विणा पइप्पमाणे णईकच्छे ॥ ५१ ॥

[व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्मिन् ।
आर्या कार्येण विना प्रदीप्यमाने नदीकच्छे ॥]

अत्र प्रतिवचनादानं परिजनप्रकोपाभ्यां प्रदीप्यमाने नदीकच्छे इति हेतुना प्रत्याय्यमानः सङ्केतकुड्याङ्गदावोद्भववधूमनस्तापो वाक्यार्थत्वेन लक्षित इत्ययमिङ्गितलक्ष्यः प्रतीयमानः सूक्ष्मभेदः ॥

“अत्र प्रतिवचनादनमिति” । नहि प्रतिवचनप्रदानाभावमात्रमत्र चमत्कारकारि, तस्मादन्यथापि सम्भवात्, अतः प्रतिवचनप्रदानाभिप्राया विपरीतचित्तवृत्तिविशेषोन्नायिका समीपदेशापसरणादिलक्षणा क्रिया काचित्प्रतिवचनाप्रदानपदेनाभिमता । न च प्रकोपोऽप्यनुभवरूपतामनासादयन्स्वादनीयतामासादयतीति नूनं तेनापि भ्रूभङ्गादिरूपा क्रियैवाभिसंहितेत्याशयवतोक्तमिङ्गिताभ्यामिति । यद्येवं तद्धि काव्यशोभानिर्वाहात्किमन्येन लक्षिते नेति । नहि यथोक्तप्रतिवचनाद्यदानप्रकोपाभ्यां कश्चिद्विवक्षितार्थलाभ इति भावः ॥

प्रतीयमानमेवाकारलक्ष्यं यथा—

‘सामाइ सामलीए अद्धच्छिप्पलोअमुहसोहा ।
जम्बूदलकअकण्णावअंसे भमिरे हलिअउत्ते ॥ ५२ ॥’

[श्यामायाः श्यामलतया अर्धाक्षिप्रलोक(न)मुखशोभा ।
जम्बूदलकृतकर्णावतंसे भ्रमति हलिकपुत्रे ॥]

अत्रार्धाक्षिप्रलोनमुखश्यामताभ्यामाकारभ्यां जम्बूदलकल्पितावतंस इत्यनेन प्रत्याय्यमानः सङ्केतगमनभ्रंशसम्भवः श्यामाया मतस्तापो लक्ष्यत इत्ययमाकारलक्ष्यः प्रतीयमानः सूक्ष्मभेदः ॥

तदेवोभयलक्ष्यं यथा—

‘प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना मुवम् ॥ ५३ ॥’

अत्र चरणेन भूमिलेखनमिङ्गितं दृशोर्बाष्पाकुलत्वमाखारस्ताभ्यां गोत्रस्खलनोद्भवो मानिन्या मनस्तापः प्रतीयमान इतीङ्गिताकारलक्ष्यः सूक्ष्मभेदः ॥

विभज्यमानस्य सरूपतया सूक्ष्मानन्तरमुत्तरलक्षणमाह—

पदार्थानां तु यः सारस्तदुत्तरमिहोच्यते ।
स धर्मधर्मिरूपाभ्यां व्यतिरेकाच्च भिद्यते ॥ २३ ॥

“पदार्थानां त्विति” । सारः सर्वस्वायमानमुत्कर्षशालि वस्तु । पदार्थानामिति निर्धारणे षष्ठी । उत्तरमित्यन्वर्थ नाम । उत्कृष्टत्वमुदोऽर्थस्तत्रैव प्रकर्षस्तरपः । “धर्मधर्मिरूपाभ्यामिति” । व्यस्तसमस्ताभ्याम् । धर्म उपसर्जनं परप्रवणतया प्रतीयमानं वस्तु । अतथाभूतं तु धर्मिरूपम् । तदयमर्थः—प्रसिद्धवस्तुमध्ये कस्यचिदुत्कर्षवत्तया निर्धारणमुत्तरम् । तन्निधा । धर्मरूपं धर्मिरूपमुभयं च । आद्ययोः प्रत्येकं प्रकारद्वयम् । निर्धार्यमाणस्य शुद्धस्योपादानं, निर्धार्यानुत्तरव्यतिरेकिधर्मवत्तया वा । तदिदमाह—“व्यतिरेकाच्चेति” । अन्त्यस्यापि सामान्यविशेषरूपतया रूपत्वमिति षट्प्रकारमुत्तरमिति ॥

तेषु धर्मस्वरूपं यथा—

‘दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः ।
परोपकरणं कायादसारात्सारमुद्धरेत् ॥ ५४ ॥’

अत्र दानसत्यकीर्त्यादीनां वित्तादिवस्तुधर्माणां सारभूतानामुद्धारादयं धर्मरूपः सारः ॥

“वित्तादिवस्तुधर्माणामिति” । पञ्चम्या विभागः प्रत्यायितः । स च संश्लेषपूर्वक एवेति दानादीनामुपसर्जनताप्रतीतिः ॥

धर्मिरूपो यथा—

‘मधुविकचसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम् ।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः ॥ ५५ ॥’

अत्र मधुप्रभृतीनां विभूतिभ्यः सारभूतानामुद्धरणादयं धर्मिरूपः सारः ॥

“विभूतिभ्य इति” । विभूतयः प्रथमानिर्दिष्टास्तेन पूर्ववन्नामूषां धर्मिभावेन प्रतीतिभासोऽस्तीति विशिष्टमध्वादिरूपं वस्तुनाङ्गभावेन गम्यत इति ॥

अथ व्यतिरेकेण धर्मरूपो यथा—

‘पोढमहिलाणं जज्जं सुसिक्खिअं तं रए सुहावेइ ।
जज्जं असिक्खिअं णववहूणं तन्तं रइं देइ ॥ ५६ ॥’

[प्रौढमहिलानां यद्यत्सुशिक्षितं तद्रतौ सुखयति ।
यद्यदशिक्षितं नववधूनां तत्तद्रतिं ददाति ॥]

अत्र प्रौढानां सुशिक्षितं सुरतकर्म, अप्रौढस्त्रीणां पुनरशिक्षितं सुखयतीति कर्मान्तरलक्षणेभ्यो धर्मेभ्यः सुशिक्षिताशिक्षितरतकर्मलक्षणा धर्माः स्त्रीधर्माव्यतिरेकेण प्रतिपाद्यन्त इति धर्मव्यतिरेकरूपोऽयं सारः ॥

“अप्रौढस्त्रीणामिति” । षष्ठ्या धर्मधर्मिभावोऽभिहितः । तर्हि निर्धारणं कस्मादित्यत आह—“कर्मान्तरेति” । रत इत्यनेन सामान्यत उपादानात् प्रौढस्त्रीसम्बन्धिनो ललितस्य सुशिक्षितत्वं विशेषमुपादाय मुग्धस्त्रीसम्बन्धिनोऽशिक्षितत्त्वं व्यतिरेकी विशेष उपात्तः ॥

व्यतिरेकेण धर्मिरूपो यथा—

‘राज्ये सारं वसुधा वसुधायां पत्तनं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ५७ ॥’

अत्र वसुधादयो धर्मिण उत्तरोत्तरक्रमेण पूर्वतः पूर्वतो व्यतिरिच्यन्त इत्ययं धर्मव्यतिरेकः सारः ॥

“अत्र वसुधादय इति” । निर्धारिताद्वसुधामात्रात्पत्तनवती वसुधा व्यतिरिच्यते । वसुधावत्पत्तनात्सौधवत्पत्तनम् । सौधात्तल्पवत्सौधात्तल्पाद्वराङ्गनावदिति तदिदमुक्तं “उत्तरोत्तरक्रमेणेति” ॥

एतेन धर्मधर्मिस्वरूपोऽपि व्याख्यातः । स द्विधा । सामान्यतो विशेषतश्च ॥

तत्र सामान्यतो यथा—

‘गीतशीतांशुताम्बूलकर्पूरवनितादिभिः ।
असारोऽप्येष संसारः सारवानिव लक्ष्यते ॥ ५८ ॥’

अत्र गीतादीनां जगतः सारभूतानामविशेषेणैव सर्वेषामुपादानाद्धेतुतृतीयान्ततया च संसारसारवत्त्वेऽङ्गभावादयं सामान्यतो धर्मधर्मिरूपः सारः ॥

“अत्र गीतादीनामिति” । नहि गीतादौ कश्चिद्विशेष उक्तः । अत एवादिशब्दोऽपि सजीवस्तथापि दध्यादीनामङ्गभावः प्रतीयत इत्यत आह—“तृतीयान्ततया चेति” । तृतीयया हिं कारकत्वमुक्तम्, कारकत्वं च क्रियोपसर्जनरूपमित्यर्थः ॥

विशेषतो यथा—

‘अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ५९ ॥’

अत्र गङ्गाप्रपातसप्तर्षिपादोदकयोर्विशेषेण सारभूतयोरुपादानाद्धिमवतः पूतत्वे चाङ्गभूतत्वादयं विशेषतो धर्मधर्मिरूपः सारः ॥

“अत्र गङ्गाप्रपातेति” । प्रपातपादोदकयोर्गङ्गायाः सप्तर्षिभिश्च विशेषितत्वादङ्गतामुपपादयति—“हिमवतः पूतत्वे चेति” ॥

व्यतिरेकोत्तरे विरुद्धधर्माक्रान्तिरस्तीति सङ्गत्या विरोधलक्षणमाह—

विरोधस्तु पदार्थानां परस्परमसङ्गतिः ।
असङ्गतिः प्रत्यनीकमधिकं विषमश्च सः ॥ २४ ॥

“विरोधस्त्विति” । परस्परमसङ्गतिरसम्बन्धः, सहानवस्थानमिति यावत् । तेन सहानवस्थाननियतयोः सहानवस्थानोक्तिर्विरोध इति तात्पर्यम् । सङ्क्षेपः स च प्ररूढो दोषः । अप्ररोहस्तु द्विधा । श्लेषोषधानेनान्यथा चान्यथाभावस्त्रिधा । सहानवस्थितयोः प्रायोदर्शनमात्रेण नैयत्यारोपः । यथा—‘क्व युवतिमार्दव’ मित्यादौ विरुद्धधर्मोक्तिविषयस्याचिन्त्यप्रभावातिशयत्वेन प्रसिद्धिर्वा । यथा ‘दिग्वासा यदी’त्यादौ विरोधस्यारोपमात्रेण सरूपतया प्रतिपत्तिमात्रं वा । यथा ‘सा उप्पडी’ त्यादौ । सर्वश्चायं विरोधोऽभिधीयमानः प्रतीयमानश्च । अथादिशब्देन योऽभिधीयते सोऽभिधीयमानः । प्रतीयमानस्तु तद्विनाकृतो यथा भट्टबाणस्य ‘यत्र मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाः प्रमदाः’ इति । इहान्यैरलङ्कारकारैरसङ्गतिप्रत्यानीकाधिकाविषमाख्यअलङ्कारचतुष्टयं विरोधात्पृथग्लक्षितम् । तल्लक्षणानि—‘विरुद्धकार्यसम्प्राप्तिर्भवेत्तेनैव हेतुना । परिमाणादियोगेन व्यवस्थानमुपेयुषः ॥ अव्यवस्थाभिधानं यदधिकं तत्प्रचक्षते । कारणेन विरूपं यत्कार्यमुक्तवदुच्यते ॥ आश्चर्यकारि तत्प्राहुर्विषमं शब्दबुद्धयः ।’ इति । तदेतेषां लक्षणाभेदाद्विरोध एवान्तर्भावो न ह्यवान्तरभङ्गिभेदमात्रेण सामान्यान्तर्भावो न भवतीत्याशयवानाह—“असङ्गतिः प्रत्यनीकमिति” ॥

तेषु विरोधः शुद्धो ग्रथितश्च । तयोराद्यो यथा—

‘क्व युवतिमार्दवं क्व च महाहवदारुणता क्व च वलयी करः क्व करिदन्तजमुष्टिरसिः ।
क्व च नवयौवनं क्व कुसुमायुधनिःस्पृहता तव ललनाविचेष्टित।?। ललितम् ॥ ६० ॥’

अत्र युवतिमार्दवादीनां महाहवदारुणतादीनां च शुद्धानामेव परस्परमसङ्गतत्वादयं शुद्धविरोधः ॥

“शुद्धानामेवेति” । एकेनैव प्रतियोगिना सहानवस्थानोक्तौ विरोधनिर्बाहात् ॥

द्वितीयो यथा—

‘दिग्वासा यदि तत्किमस्य धनुषा शस्त्रस्य किं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गीसान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥ ६१ ॥’

अत्र दिग्वासस्त्वादीनामुत्तरोत्तरग्रथनादन्योन्यासङ्गतादयं ग्रथितनामा विरोधभेदः ॥

“उत्तरोत्तरग्रथनादिति” । यद्यप्येकेन विरोधिना सहोक्तौ विरोध्यन्तरेणापि तथा भावमासादयन्नेव ग्रथितस्तथाप्युत्तरग्रथनया शोभाविशेषार्पको भवतीत्यभिप्रायः ॥

असङ्गतिर्यथा—

‘सा उप्पडी गोठ्ठउहि णोक्खी कावि विसगण्ठि ।
भिडिय पचेल्लिउ सो मरइ ज्जस्स ण लग्गइ कण्ठि ॥ ६२ ॥’

[सा उत्पन्ना गोष्ठभुवि नवीनैव कापि विषग्रन्थिः ।
भिद्यते प्रत्युत स म्रियते यस्य न लगति कण्ठे ॥]

अत्रायं विषग्रन्थिर्यस्य कण्ठे न लगति स म्रियत इत्येतयोः परस्परमसङ्गतेरयमसङ्गतिर्नाम विरोधः ॥

“गोठ्ठउहीति” । गोष्ठे । णोक्खी अपूर्वा । कावि विसगण्ठि कापि विषग्रन्थिः । ‘रोमाञ्चादयस्त्रियाम्’ इति स्त्रीलिङ्गता । पचेल्लिंउ प्रत्युत । विषग्रन्थेः कण्ठसम्बन्धेन मारकत्वं प्रतीतम् । वर्ण्यमानाया रूपस्य तथाभूतस्यैवेति व्यक्तो विरोधः ॥

प्रत्यनीकं यथा—

‘उत्कण्ठा सन्तापो रणरणको जागरस्तनोस्तनुता ।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ ६३ ॥

अत्र मृगलोचनादर्शनस्यैव किल निर्वृतिः फलम् । मया तु तां दृष्ट्वान्तस्तापादिकं मयाप्तमिति प्रत्यनीकफलत्वादयं प्रत्यनीकाख्यो विरोधः ॥

“अत्र मृगलोचनादर्शनस्यैवेति” । यद्यप्येकस्य विरुद्धं कार्यकारित्वं न विरुद्धं, तथापि ययैव प्रवृत्त्या किञ्चित्कार्यं कर्तुमुद्यतो न तयैव तद्विरुद्धं करोति तदेतत्सुखायेति चतुर्थ्या द्योत्यते ॥

अधिको यथा—

‘एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावद्वा ददृशे स तैः ॥ ६४ ॥’

अत्रैकस्य दाशरथेरनेकसङ्ख्यैर्यातुधानैर्यत्समरकर्म तत्र तैरस्य तावद्वा दृश्यमानत्वेनैकसङ्ख्याविरुद्धमाधिक्यं गम्यत इत्ययमधिकाख्यो विरोधः ॥

विषमं यथा—

‘दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः ।
चकार यस्याध्वरधूमसञ्चयो मलीमसः शुक्लतरं भवद्यशः ॥ ६५ ॥’

अत्र मलीमसाध्वरधूमसञ्चयेन यद्यशसः शुक्लीकरणं तद्यद्यादृशादेव जायते तत्तादृगेव भवतीति प्रसिद्धेर्वैषम्यात्परस्परमसङ्गतेरयं विषमाख्यो विरोधः ॥

सामग्र्येकदेशसद्भावमात्रेण कार्यसद्भावे स्थिते विरोधच्छायामूलत्वमिति तद- नन्तरं सम्भवः प्राप्तावसर इत्याह—

प्रभूतकरणालोकात्स्यादेवमिति सम्भवः ।
स विधौ वा निषेधे वा द्वये वा न द्वयेऽपि वा ॥ २५ ॥

“प्रभूतेति” । भूयांसि कारणानि दृष्ट्वा कार्यमुत्पत्स्यते नापि दैवात्कदाचिन्न स्यादिति ज्ञानसम्भवः । न चायं संशय एव नहि स्याद्वा नवेति दोलायते । नापि वितर्को व्याप्यारोपस्याभावात् । क्व तर्ह्ययमन्तर्भवति न क्वचित्, ज्ञानान्तरस्येवोच्यमानत्वात्, अनिश्चयरूपतामात्रेण तत्रान्तर्भावेऽतिप्रसङ्गात्, नापि भ्रान्तिर्न्यग्भूतबाधपुरः सरत्वात् । भ्रान्तौ तु सिद्धायां बाधोत्पत्तिरिति वक्ष्यते ऽस विधौ वा निषेधे वाऽ इति । सम्भवो विषयनियतो विधिनिषेधोभयानुभयरूपश्चतुर्विधो विषयः । अप्रवृत्तप्रवर्तनं द्विरूपम् । प्रयोजकगतं प्रयोज्यगतं च । आद्यं प्रत्युक्त्याख्ये शब्दालङ्कारे विधिद्वारेणेत्यनेनोक्तम्, द्वितीयं तु भूतभवनलक्षणमिहोच्यते । सम्प्रसक्तस्याभावो निषेधः । एतेनोभयानुभयरूपौ व्याख्यातौ ॥

एषु विधिविषयो यथा—

‘त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ६६ ॥’

अत्र त्वयि जलमादातुमवनते सति तस्याः सरितः प्रवाहो मध्यनिविष्टेन्द्रनीलमणिर्मुक्तागुण इव गगनगतिप्रेक्षणीयो भविष्यतीति विधेः सम्भाव्यमानत्वादयं विधिविषयः सम्भवः ॥

“अत्र त्वयि जलमिति” । अप्रेक्षणीयस्य प्रेक्षणीयताभवनं विधिः ॥

निषेधविषयो यथा—

‘परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु ॥ ६७ ॥’

अत्रेदं भीष्मद्रोणयोरसम्भाव्यमानं धनुर्वेदकौशलमस्मिन्वनेचरे न सम्भवतीति निषेधविषयः सम्भवः ॥

“अस्मिन्वनेचर इति” । परविवराभियोगे स्वविवररक्षारूपबहुतरकारणालोकान्नायं वनेचर इति निषेध एव सम्भाव्यते ॥

विधिनिषेधविषयो यथा—

‘उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
मुक्तापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ ६८ ॥

अत्र द्रुतमपि यियासोः कालक्षेपं तवोत्पश्यामीति विधिरूपः कथमपि न भवान् गन्तुमाशु व्यवस्येदिति निषेधरूपस्तदेवं विधिनिषेधयोरसम्भाव्यमानत्वादयमुभयविषयः सम्भवः ॥ ३ ॥

“कालक्षेपं तवोत्पश्यामीति” । उत्पश्यामि सम्भावयामि । अकालक्षेपवतः कालक्षेपभवनं विधिः । कथमपीति काकूपस्थितो गमनाभावो निषेधः । न च वाच्यं द्वावत्र सम्भवौ । तथा च नैकोऽप्युभयविषय इति । यतो यैव कालक्षेपसामग्री सैव शुक्लापाङ्गैरित्यादि कारणसहकृता निषेधमपि विषयीकरोति । अतः सम्भवभेदेनं किञ्चित्प्रमाणमिति ॥

अनुभयविषयो यथा—

‘तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्याः सदसि भवतः स्रोतसि च्छायया सा स्यादस्थानोपगतयमुना सङ्गमेनाभिरामा ॥ ६९ ॥’

अत्र यदि त्वमेवं कुर्यास्तदैवं स्यादिति विधिनिषेधयोरनवगतेरयमनुभयविषयः सम्भवः ॥

“अत्र यदि त्वमेवं कुर्या इति” । न तावदत्राभावः प्रतीयत इति न निषेधसम्भवः । विधिसम्भवोऽपि नास्ति । यो हि व्यवस्थितकारणदर्शनेन व्यवस्थितस्यैव भवनस्य सम्भवः स विधिसम्भवशब्देनाभिधीयते, नचेह तथा । तदिदमुक्तं “अनवगतेरिति” ॥

एतेन विधिनिषेधयोर्विकल्पविषयोऽपि व्याख्यातः । यथा—

‘यदि भवति मुखानां वाक्पटूनां सहस्रं निरुपममवधानं जीवितं चातिदीर्घम् ।
कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं सकलगुणविचारः शक्यते वा नवेति ॥ ७० ॥’

तदेतन्निगदेनैव व्याख्यातम् ॥

“तदेतन्निगदेनेति” । परस्परव्यभिचारिणोरेकत्र सम्भाव्यमानत्वादिति व्यक्तौ विकल्प इत्यर्थः ॥

पूर्वेषां सम्भवलक्षणमुपन्यस्य दूषयति—

द्रोणस्य सम्भवः खार्यां शते पञ्चाशतो यथा ।
तथान्ये सम्भवं प्राहुः सोऽनुमानान्न भिद्यते ॥ २६ ॥

भिद्यते तु यद्यनिश्चयः स्यात् ।

“द्रोणस्येति” । समुदायज्ञानादेकदेशज्ञानसम्भव इति प्राच्यानामभिप्रायः । तथा च समुदायस्य समुदायिव्याप्तत्वादियं खारी द्रोणवती खारीत्वादिति सुलभम् । अनुमान एवास्यान्तर्भाव इत्यर्थः । कथं तर्हि तवापि सम्भवो भिद्यते सामग्री कार्यव्याप्तेति तत्राप्यनुमानमेव भविष्यतीत्यत आह—“भिद्यत इति” । नहि सामग्री दृष्टा यतः कार्यमनुमीयते, किन्तु प्रभूतकारणदर्शनेन कार्यस्य ज्ञानमन्यदेवोत्पद्यत इति वक्तव्यम् । तथा चास्माकं दर्शने युक्तः पृथग्भावः ॥

यस्तूदाहरणविशेषं न प्रतिसन्धत्ते तं बोधयितुमुदाहरणान्तरमाह—

यथा—

‘रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति ॥ ७१ ॥’

अत्र यथा खार्यां द्रोणः शते पञ्चाशदिति नियमो नैवं विप्रलम्भेऽलकानामकल्पनमनञ्जनमक्ष्णोर्मधुनो वा प्रत्यादेशः, सुहृदुदन्तलाभारम्भे वा नयनस्पन्दनानि, सम्भाव्यन्ते च प्रभूतकारणलोकादित्येषोऽपि विधिरूप एव सम्भव इति ॥

“रूद्धापाङ्गेत्यादि” । एवं विश्लेषदुःखेन कर्शिता यथाऽचेतनामप्यलकानां करुणोत्पन्नैव लक्ष्यते । तस्मादियं मा जलधरं द्राक्षीदिति निसर्गचपलस्यापाङ्गस्य प्रसरमवरुन्धन्ति । स्नेहपदेन नयनाञ्जनयोरनुपधिरनुबन्धो व्यज्यते । तेन मिथो मैत्रीयोग्यत्वम् । तेन तन्नयनादन्यत्र नाञ्जनं कान्तिमाप्नोतीति कोऽपि लावण्यप्रकर्षस्तथाभूतस्याप्यञ्जनस्य त्यागे यदेकतानतया नात्मानमपि प्रतिसन्धातुं समर्थेति व्यनक्ति । एवं सम्पदान्तरेष्वपि स्वरसोऽनुसन्धेयः । विप्रलम्भरूपकारणालोकाच्चोपरि-नयनस्पन्दनं सम्भाव्यत इति सम्भवद्वयमत्रेति व्याख्यानेन स्फुटयति—“अत्र यथा खार्यामिति” ॥

परस्परोपकारकयोरेकस्य विशेषं दृष्ट्वापरस्य विशेषो ज्ञायत इति सम्भवसाम्यात्त- दनन्तरमन्योन्यलक्षणमाह—

अन्योन्यमुपकारो यस्तदन्योन्यं त्रिधा च तत् ।
वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम् ॥ २७ ॥

अन्योन्यचूलिकान्योभ्रान्तिरन्योन्यमेकता ।
अन्योन्यालङ्कृतेरन्तस्त्रयमेतदिहेष्यते ॥ २८ ॥

“अन्योन्यमिति” । विशेषार्पणमुपकारो न चेयं परिवृत्तिः स्थितस्यानपनयनात् दानप्रतिदानाभावाच्च । विशेषस्तु नानारूपस्तद्वाक्यार्थीभूतरसानुगामितया तत्र तत्रोन्नीयते । विभागं दर्शयति—“त्रिधेति” । अभिधीयमानं विशेषतः शब्देनोपात्तं सामान्यतः शब्देन विषयीकृतं विशेषतस्तु प्रतीयमानमेवेत्युभयात्मकम् । द्वाभ्यामन्यतोऽप्रतीयमानम् । अन्यान्यचूलिकादिलक्षणानि ग्रन्थकार एव स्फुटीकरिष्यति ॥

तेष्वभिधीयमानमन्योन्यमिह यथा—

‘कण्ठस्य तस्य स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥ ७२ ॥’

अत्रान्योन्यशोभाजननेत्यादिनोपकार्योपकारकभावस्य द्वयोरप्यभिहितत्वादभिधीयमानमिदमन्योन्यम् ॥

“कण्ठस्येति” । बन्धुरो नम्रः । निस्तलो वर्तुलः ॥

प्रतीयमानं यथा—

‘उद्धच्छो पिअइ जलं जह जह विरलङ्गुली चिरं पहिओ ।
पाआवलिआ वि तह तह धारं तणुअम्पि तणुएई ॥ ७३ ॥’

[उद्धर्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः ।
प्रपापालिकापि तथा तथा धारां तनुमपि तनूकरोति ॥]

अत्र पथिकप्रपापालिकयोर्मिथोऽनुरागे यदेकस्य विरलाङ्गुलिना करेण पानीयपानमन्यस्याः सुतरां वारिधारातनूकरणं तेन परस्परमुपकार्योपकारकभावात्प्रतीयमानमिदमन्योन्यम् ॥

“अत्र पथिकेति”। मिथोऽनुराग इत्यनेन परस्परानुरागसंवर्धनमेवात्र विशेषार्पणमिति मतम्। तथा हि करस्य विरलाङ्गुलिकरणे कथमहमेतां चिराय पश्यामीति प्रपापालिकाभिप्राय एव वर्धितो भवति। एवमपि वारिधारातनूकरणे बोद्धव्यम्। न चायमेवंविधोऽर्थः केनापि शब्देनाभिहित इति भवति प्रतीयमानता वक्तृप्रतिपाद्यादिविशेषपर्यालोचनेनैव ध्वननमुन्मिषति॥

प्रतीयमानाभिघीयमानं यथा—

‘गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को।
अणुअम्पाणिद्दोसं तेण वि सा गाढमुअऊढा॥ ७४॥’

[गोदाविषमावतारच्छलेन आत्मा उरसि अस्य मुक्तः।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा॥]

अत्र गोदावरीविषमावतारव्याजेन तया तस्योरसि आत्मा क्षिप्तस्तेनाप्यनुकम्पा निर्दोषा सा गाढमुपगूढेत्यभिधीयमानः परस्परमनुरागादुपकार्योपकारकभावः प्रतीयत इत्युभयात्मकमिदमन्योन्यम्॥

“अत्र गोदावरीति”। पूर्ववत्प्रतीयमानोऽपि परस्परमुपकारस्थलेनानुकम्पानिर्दोषशब्दाभ्यामभिधया स्पृश्यत इत्युभयरूपम्। न च शब्दोपात्ते किं ध्वननेनेति वाच्यम्। भिन्नविषयत्वात्॥

अन्योन्यचूडिका यथा—

‘शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्।
भवता च सभा सभया च भवान् सभया भवता च तथा भुवनम्॥ ७५॥’

अत्र निशाशशिनोः सभाभवतोश्च परस्परमुपकार्योपकारकभावे वर्तमानयोर्यदिदं गगनं जगती च प्रसिद्धयोरुपकारकत्वचूडिकेवोपर्युपरि लभ्यते सेयमन्योन्यचूडिका।

“अत्र निशाशशिनोरिति”। चूडिका शिखा। सा यथा शरीरतदवयवेभ्यो भिन्नैवोपलक्ष्यते तथात्रापि निशाशशिनोः सभाभवतोः परस्परमुपकारकत्वमभिसन्धाय द्वयोर्द्वयोर्गगनजगती प्रत्युपकारकत्वमन्यदेवाभिधीयते। न चैतावतैव विशेषेण पृथग्भावोऽन्योन्यालङ्कारकवलीकृतस्यैव तस्य सम्भवात्॥

अन्योन्यभ्रान्तिर्यथा—

‘जम्बूनां कुसुमोत्करे नवमधुन्यारब्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च।
‘एतेषामपि नीलकिंशुकदलैरेभिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः॥ ७६॥’

अत्र जम्बूकुसुमकुञ्जस्थितमधुकरीषु शुकशकुन्तानां या पक्वजम्बूफलभ्रान्तिर्या च मधुकरीणां शुकचञ्चुषु किंशुककुसुमभ्रान्तिः सेयमन्योन्यभ्रान्तिरन्योन्यस्मादपृथगेव॥

“अत्र जम्बूकुसुमेति”। न हि तैमिरिककेशप्रत्ययवद्भ्रान्तेरलङ्कारतापि तद्भूतसादृश्यमूलाया एव। तथा च चमत्कारिवस्त्वन्तरोपमापर्यवसायित्वमिति भ्रान्तिसंसर्ग एव विशेषार्पण उपकारः। अन्योन्यवचनेन परस्परगामिता तस्य तेनैव दर्शितेत्यन्योन्यलक्षणाश्लेषात्कथं पृथग्भवतीति। एतेनान्योन्यैकता व्याख्याता॥

अन्योन्यात्मकता यथा—

‘प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः॥ ७७॥’

अत्र श्यामपाण्डुतयोः परस्परव्यतिरेकेणैकवर्णकरणादन्योन्यमेकता नाम भ्रान्तिभेदोऽन्योन्यात्पृथगेव॥

परस्परनिरूप्यतासाम्यात्क्रमप्राप्तां परिवृत्तिं निरूपयति—

व्यत्ययो वस्तुनो यस्तु यो वा विनिमयो मिथः।
परिवृत्तिरिहोक्ता सा काव्यालङ्कारलक्षणे॥ २९॥

“व्यत्यय इति”। वस्तुस्थितिविपर्यासवचनं परिवृत्तिरिति स्फुटमेव लक्षणम्॥

सा त्रिधा व्यत्ययवती तथा विनिमयात्मिका।
तृतीया चोभयवती निर्दिष्टा काव्यसूरिभिः॥ ३०॥

सा त्रिधा-एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिवचनेन, दानप्रतिदानवचनेन, उभयवचनेन वा। तदाह—“सा त्रिधेति”॥

सर्वत्र मुख्यवृत्त्या गौणवृत्तिव्यपाश्रयेण वा तथाभावोक्तिरिति षट्प्रकारत्वं दर्शयति—

त्रिधापि चासौ मुख्यामुख्यभेदाद्द्विधाभूय षोढा सम्पद्यते।

तासु व्यत्ययवती मुख्या यथा—

‘कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः॥ ७८॥’

अत्र यत्कुमुदवनादीनामपश्रीकत्वादिकं यच्चाम्भोजखण्डादीनां श्रीमत्त्वादिकं मुख्यमेव प्रातरुपलभ्यते, सेयं व्यत्ययवती मुख्या नाम परिवृत्तिः॥

“त्रिधापि चासाविति। कुमुदवनमिति”। कुमुदवनादुलूकाद्धिमरश्मेः श्रीमत्त्वं प्रीतिरुदयश्चापसृतानि प्राप्तानि पुनरम्भोजखण्डचक्रवाकीहिमांशूनामितिव्यक्तो व्यत्ययः। मुख्यत्वं ग्रन्थ एव व्यक्तम्॥

व्यत्ययवत्यमुख्या यथा—

‘जो तीअ अहरराओ रत्तिं उव्वासिओ पिअअमेण।
सोच्चिअ दीसइ गोसे सवत्तिणअणेसु सङ्कन्तो॥ ७९॥’

[यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन।
स एव दृश्यते प्रातः सपत्नीनयनेषु सङ्क्रान्तः॥]

अत्र प्रियतमेन रात्रावुद्वासितस्याधररागस्येयं सपत्नीलोचनेषु सङ्क्रान्तिः॥

“अत्र प्रियतमेनेति”। ताम्बूलादिहेतुकोऽन्य एवाधररागोऽन्यश्च मत्सरहेतुकः कषायतालक्षणो नयनगामीति तयोरभेदाध्यवसायो यत्तत्पदाभ्यां प्रतीत इति गौणी वृत्तिः। प्रकाशते च शब्दवृत्त्याधरस्थानस्थितस्य नयनस्थानप्राप्तिरिति तावतैवालङ्कारनिर्वाहः॥

विनिमयवती मुख्या यथा—

‘प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा।
किञ्जल्कव्यवहितताम्रदानलेखै- रुत्तेरुः सरसिजगन्धिभिः कपोलैः॥ ८०॥’

अत्र करिकपोलमदामोदस्याम्भोजरजः परिमलस्य च सरित्सलिलद्विपकपोलपाल्योर्मुख्यत्वेनैव परस्परोपकरणादियं विनिमयवती मुख्या नाम परिवृत्तिः॥

“अत्र करिकपोलेति”। गजेन्द्राणां मदयासमचन्द्रकयोः(?) स्वाश्रितयोर्नदीषु सङ्क्रामणं नदीस्थितयोश्च किञ्जल्काम्भोजपरिमलयोर्ग्रहणं तेन दानप्रतिदानवत्तया विनिमयो भवति॥

विनिमयवत्यमुख्या यथा—

‘तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिह शोच्यतेऽधुना।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः॥ ८१॥’

अत्र जर्जरकलेवरं दत्वा शशिकिरणशुभ्रं यशः क्रीतमित्यमुख्ययैव वृत्त्या विनिमयोक्तेरमुख्येयं विनिमयवती परिवृत्तिः॥

“अत्र जर्जरेति”। मूल्यार्पणक्रयणयोरत्र बाधाव्द्यक्त एवोपचारः, शब्दवृत्तिस्तु पूर्ववदेव कुण्ठैवेति भवति विनिमयः॥

उभयवती मुख्या यथा—

‘लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं च वितेने॥ ८२॥’

अत्र वारुण्या यदधराद्रागोऽपहृत्य चक्षुषोर्निक्षिप्तस्तेनेयं व्यत्ययवती, यच्च मुखामोदवासितया स्वामोदेन मुखामोदो विशेषितस्तेन विनिमयवती। तदियमुभयथापि मुख्यवृत्त्यैवोक्तेति मुख्येयमुभयवती परिवृत्तिः॥

“लोचनाधरेति”। लोचनाधरयोर्यथासङ्ख्यं कृत आहृतो रागो यया तेन लोचने कृतोऽधरादपनीत इति व्यत्ययः। वासिते आनने विशेषितो गन्धो यस्याः सा तथा। तेन तया मुखं वासितं मुखेन च सेति भवति विनिमयः। “परगुणात्मगुणानामिति”। परगुणानामिति परगुणानां व्यत्ययः, आत्मगुणानां विनिमय इति सम्बन्धः। कर्तृत्वमुत्प्रेक्षितं तदेतद्दर्शयति—“अत्रेति”॥

उभयवत्यमुख्या यथा—

‘किं चत्रं यदि देवेन भूभृतः करदीकृताः।
देवोऽपि दापितः किं तैर्न पुनः पृष्ठतः करम्॥ ८३॥’

अत्र भूभृतामकरदानां यत्करप्रदानं जिगीषोश्च यत्पृष्ठे हस्तनिक्षेपः स एव द्रव्यगुणादीनां स्थानादिपरिवृत्तौ व्यत्ययो, यच्च देवेन भूभृतः करदीकृताः देवोऽपि तैः पृष्ठतः करं दापित इति सोऽयं दानप्रतिपादनलक्षणोऽपि विनिमय इत्येतदुभयमपीह श्लिष्टपदाभिधेयत्वादमुख्यवृत्त्यैवोच्यमानमुपलभ्यत इत्युभयवतीयममुख्या परिवृत्तिः॥

एकत्र प्रतीतस्यान्यत्र प्रत्ययः परिवृत्तौ; तथा निदर्शनेऽपीति तदनन्तरं निद- र्शनं लक्षयति—

दृष्टान्तः प्रोक्तसिद्ध्यै यः सिद्धेऽर्थे तन्निदर्शनम्।
पूर्वोत्तरसमत्वे तदृजु वक्रं च कथ्यते॥ ३१॥

“दृष्टान्त इति”। प्रोक्तस्य प्राकरणिकस्य सिद्धिर्निश्चयः। नन्वनुमानाङ्गमपि दृष्टान्ताभिधानं पृथगलङ्कारः स्यादित्यत आह—“सिद्धेऽर्थ इति”। सिद्ध एवार्थे कञ्चिद्विशेषमावेदयितुं दृष्टान्तोक्तिर्निदर्शनम्, साध्ये त्वर्थेऽनुमानमिति विभागः। पूर्वं दार्ष्टान्तिकोक्तिं समाप्य पश्चाद्दृष्टान्तोक्तिरिति द्वितीयः। एकयैवोक्त्या दृष्टान्तदार्ष्टान्तिकयोरिति तृतीयः। तदाह—“पूर्वोत्तरसमत्व इति”। यत्र शब्दत एव तुल्येतिवृत्तता दृष्टान्तदर्ष्टान्तिकयोरनुगम्यते तदृजु निदर्शनम्। यत्र तु पर्यवसितायामुक्तौ सहृदयपर्यालोचनया तद्वक्रम्। तदेतदाह—“ऋजु वक्रं चेति”। तेन निदर्शनस्य षड् भेदाः॥

तेषु पूर्वमृजु यथा—

‘उदयन्नेव सविता पद्मेष्वर्पयति श्रियम्।
विभावयति भूतीनां फलं सुहृदनुग्रहः॥ ८४॥’

अत्र ऋजूत्त्क्यैव पूर्वं दृष्टान्तः पश्चाद्दार्ष्टान्तिकं प्रदर्शितमितीदमृ- जुपूर्वं च निदर्शनं सूर्यदृष्टान्तेन विभूतीनां सुहृदनुग्रहः फलमिति ज्ञापयति॥

“सूर्यदृष्टान्तेनेति”। ऋद्धिभिः सुहृदनुगृह्यत इति सिद्धोऽर्थः, किन्तु तदेतदेव तासां फलमिति विशेषमभिधातुं सूर्यदृष्टान्तोपन्यासः। अत्र समृद्धताफलं सुहृत्त्वमनुग्रहत्वं चेति शब्दत एव सूर्यादिषु दृष्टान्तदार्ष्टान्तिकाभिमतेषु प्रतीयत इति ऋजुत्वमित्यर्थः॥

तदेवं वक्रं यथा—

‘पाणउडी अवि जलिउण हुअवहो जलइ जण्णवाउम्मी।
णहु ते परिहरिअव्वा विसमदसासण्ठिआ पुरिसा॥ ८५॥’

[पानकुटीमपि ज्वालयित्वा हुतवहो ज्वलति यज्ञवाटमपि।
नहि ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः॥]

अत्रापि पूर्वं दृष्टान्तः पश्चाद्दार्ष्टान्तिकम्। किन्तु यथा पूर्वत्रोदयमानः सविता सुहृत्पद्मेषु श्रियमर्पयतीति तुल्येतिवृत्तता ऋजूक्त्या शब्देनैवाभिधीयते, नैवमत्र किं तर्हि ज्वलनेतिवृत्तेन तुल्यं तत्तु तत्पुरुषाणामितिवृत्तमशाब्दं युक्तिचातुर्यात्प्रतीयते तदिदं पूर्वं च वक्रं निदर्शनम्॥

“पाणउडीति”। पाणपदं म्लेच्छदेशीयम्। पाने कुटी शौण्डिककुटी वा। “अत्रापीति”। दृष्टान्तेऽपि पानकुटीज्वलनादिकं विशेषणमुपात्तम्। च च तद्दार्ष्टा- न्तिके सम्भवति शब्देन वा प्रत्याय्यते; किन्तु बिम्बप्रतिबिम्बन्यायेनात्र भवति। तथा हि यथा पानकुट्यां हुतवहस्य ज्वलनं यज्ञवाटे च तथाऽव्यवस्थितचित्ततया ग्रामीणाविदग्धयुवतिप्रसक्तो भूत्वान्यत्र नागरिकासु विदग्धासु रज्यते सोऽपि न त्याज्य इत्युक्तिचातुर्यात्तुल्येतिवृत्तता गम्यतेऽतो वक्रत्वमित्याह—“किन्तु यथेति”॥

उत्तरमृजु यथा—

‘हिअअ तिरच्छीयइ सम्मुहपच्छा गहिअकडक्खास्स।
पहिअ एक्केज्जे गोरडी णं चउहट्ट उवच्छ॥ ८३॥’

[हृदये तिरश्चीना सम्मुखप्राप्ता पश्चाद्गृहीतकटाक्षास्य।
पथिकस्यैकैव गौरतरा ननु चतुष्पथे व्रजति॥]

अत्र ऋजूत्त्क्या शब्द एवाभिधीयमानसाधर्म्यं दार्ष्टान्तिकमभिधायोत्तरकालं दृष्टान्तोऽभिहितस्तदिदमुत्तरमृजु निदर्शनम्॥

“हिअएति”। विच्छित्तिपथिकस्याभिलाषिता या योषित्सा एकैव। हृदये स्मरणारूढा सती लग्ना अतएव तिरच्छीयइ तिर्यक्शल्यायमाना पथिकसम्मुखाभिमुखस्य तस्य चलितत्वात्। पश्चाच्च गृहीतकटाक्षा पश्चाद्भूतेन गृहीतश्चमत्कृतः कटाक्षो यस्याः। एक्केज्जे एकैव। जिरवधारणे। णं ननु चतुष्यथे कश्चित्सम्मुखतां कश्चित्तिरश्चीनतां कश्चित्पश्चाद्भावं धत्ते; गौरी तु पथिकस्यैकैव तथेति। “अत्र ऋजूत्त्क्या शब्दत एवेति”। तिर्यक्त्वादीनामुभयगामिनां शब्देनोपादानात्प्रतीतिमात्रेण चालङ्कारनिर्वाहः॥

तदेव वक्रं यथा—

‘उपरि घनं घनपटलं दूरे दयिता किमेतदापतितम्।
हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि॥ ८७॥’

अत्रापि दार्ष्टान्तिकमभिधायोत्तरकालमेव दृष्टान्तो विहितस्तदिदमुत्तरं ऋजु निदर्शनम्; किन्तु यथा पूर्वस्मिन् हृदये तिर्यगित्यादिभिः शब्द एव ऋजूक्त्या साधर्म्याभिधानम्, नैवमत्र तथा; अपि तु किमेतदापतितमित्युक्तिचातुर्येण विपर्ययेण च लिङ्गसङ्ख्या यथासङ्ख्यानाम्। तदेतदुत्तरं वक्रं च निदर्शनम्।

“अपि तु किमेतदापतितमित्युक्तिचातुर्येणेति”। ननु च उपरीत्यनेन व्यवधानमुपात्तं दृष्टान्तेऽपि शब्द एव प्रतिफलति तत्कथं वक्रत्वमित्यत आह—“विपर्ययेणेति”। घनपटलं नपुंसकम्, फणी पुमान्, दयिता चैकवचनवती, ओषधयो बहुवचनालिङिगताः। घनपटलं पूर्वं दार्ष्टान्तिकमुपक्रम्य दृष्टान्तोक्तौ न पूर्वं फणी निर्दिष्टः। ततो लिङ्गसङ्ख्यानां विपर्ययो भवति, तदयमर्थेन शब्दत एवोपरि पर्यवस्थानं दूरत्वं च दृष्टान्तयोः प्रतीयते; शिरसि हिमवतीत्येताभ्यामन्यथाकारं बोधितत्वात्। फलतस्तु स एवार्थ इति वक्रतैवेति।

सममृजु यथा—

‘याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम्।
सद्यो राजविरुद्धानां दर्शयन्ती दुरन्तताम्॥ ८८॥’

अत्र राजविरुद्धानामिति श्लिष्टपदेन दर्शयन्तीति वर्तमानकाललक्षणात्सद्य इति तद्धितेन च समकालमेव दृष्टान्तदार्ष्टान्तिकयोः शब्दतो ऋजूक्त्यैवोक्तत्वादिदमृजु समं च “निदर्शनम्”।

“यतीति”। राजा चन्द्रो नृपतिश्च। तदनयोः श्लिष्टोक्तिविषयतया न पूर्वापरभावो विभाव्यते। चन्द्रांशुपराभूतध्वान्तराजीनृपतिविरुद्धदुरन्तयोरपि दर्शयन्तीति शत्रा, सद्य इति तद्धितेन च समत्वम्। किन्तु ध्वान्तराजी परभवं यातीति दृष्टान्तोक्तौ सत्यां मध्ये राजविरुद्धानामिति दर्ष्टान्तिकमुक्त्वा पुनरपि दृष्टान्तविशेषणं दर्शयन्तीत्युक्तम्। अतएवोक्तिकवलीकृतत्वाद्दृष्टान्तदार्ष्टान्तिकयोः समत्वमित्याशयवान्व्याचष्टे—“अत्र राजविरुद्धानामिति”।

तदेव वक्रं यथा—

‘ण उण वरकोअण्डदण्डए युतिमाणुसेवि एमेअ।
गुणवज्जिएण जाअइ वंसुप्पण्णे वि टङ्कारो॥ ८९॥’

[न पुनर्वरकोदण्डदण्डके पुत्रि मानुषेऽप्येवमेव।
गुणवर्जितेन जायते वंशोत्पन्नेऽपि टङ्कारः॥]

अत्र न केवलं कोदण्डदण्डके मानुषेऽप्येवमेवेतीतरेतरयोगवद्वक्रतया युगपदभिधानं गुणवर्जितवंशोत्पन्नेऽपि टङ्कारो न जायत इति श्लिष्टपदत्वेऽपि व्यतिरेकमुखेन गुणवृत्त्या चाभिधानाद्धनुषीव मानुषेऽपि गुणवत्येव महाञ्शब्दो भवतीति वक्रोक्त्या साधर्म्यावगतिः। तदिदमशब्दत्वादिभिः पूर्वाद्भिद्यमानं समं वक्रं च निदर्शनम्।

“ण उण वरेति”। गुणो धैर्यादिस्तन्त्री च, वंशः कुलं वेणुश्च, टङ्कारोऽव्यक्तानुकरणं ख्यातिश्च। “इतरेतरयोगवदिति”। तथाहि—‘त्वन्मुखं पुण्डरीकं च फुल्ले’ इत्यत्र फुल्लं चेतीतरेतरयोगेनैकशेषे एकयोक्त्या फुल्लेति द्वाभ्यां सम्बध्यते। तथा विनाप्येकशेषं गुणवज्जिएण वंसुप्पण्णे टङ्कार इति युगपदन्वीयन्ते। ननु यथा राजविरुद्धानामित्यत्र शेषेण ऋजुत्वं तथात्रापि भविष्यतीत्यत आह—“श्लिष्टपदत्वेऽपीति”। धनुषीव मानुषेऽपि महाञ्शब्दो भवतीति विवक्षितम्। न च व्यतिरेकमुखेनोपनयेऽयमर्थः शब्दादवगम्यते, प्रतीयते चार्थ इति युक्तं वक्रत्वम्। ननु व्यतिरेकेणैव कथं न तुल्यवृत्तिता सम्मतेत्यत आह—“गुणवृत्त्या चेति”। सत्यमेतत्तथापि द्वयोर्वर्णनीययोर्गुणादिकयोरभेदाध्यवसायो वक्तव्यः। तथा गौणवृत्तिव्यपाश्रयेणैव वक्रत्वम्। तदिदमुक्तं व्यतिरेकमुखेन गुणवृत्त्या चेति।

व्यतिरेकं विना दृष्टान्तदार्ष्टान्तिकभावाभावाव्द्यद्वाभ्यामिति युक्तं प्रतिभाति।तिरेकाभ्यां तल्लक्षणमाह—

शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोर्द्वयोः।
भेदाभिधानं भेदश्च व्यतिरेकश्च कथ्यते॥ ३२॥

“शब्दोपात्त इति”। भेदाभिधानं वैधर्म्यकथनम्। एवं चेत् मेरुसर्षपयोरपितथाभिधानमलङ्कारः स्यादत उक्तम्—“सादृश्ये वस्तुनोरिति”। उपमानोपमेययोरित्यर्थः। सादृश्यं द्विधा। शब्दोपात्तं प्रतीतं च। अशब्दोपात्तमपि ध्वननानुमानादिभिरवगम्यत इति न विरोधस्तदिदमुक्तम्—“प्रतीते वेति”। तदयमर्थः—उद्भूतचमत्कारिसादृश्ययोर्वैरस्योक्तिर्व्यतिरेकः, स्वरूपाख्यस्तु पृथग् भेदो नास्त्येवेत्युक्तम्॥

विभागं दर्शयति—

स्वजातिव्यत्त्क्युपाधिभ्यामेकोभयभिदा च सः।
सादृश्याद्वैसादृश्याच्च भित्रः षोढाभिजायते॥ ३३॥

“स्वजातीयेति”। येन रूपेण वैयतिरेक्यमुपादीयते तद्रूपवन्तं व्यतिरेकप्रति-योगिनं परिकल्प्य ततो व्यतिरेकोऽपीति स्वजातिव्यतिरेकः प्रथमः प्रकारः। द्वितीयस्तु सैव व्यक्तिर्विधर्मेति। एतत्प्रकारद्वयं यथासङ्ख्यमभिधीयमानसादृश्ययोरिति मूलभेदद्वयं तथैवापरमेकानेकलक्षणं प्रकारद्वयं तत्रैवान्यत्सादृश्यवैसादृश्यरूपं द्वयमिति क्रमेण षोढा भेदो विवक्षितः। यथा च स्वजातिव्यतिरेङ्कयोः प्रतीयमानाभिधीयमानसादृश्यगामिता न सम्भवति तथाग्रे वक्ष्यते॥

तत्र शब्दोपात्तसादृश्ये स्वजातिव्यतिरेको यथा—

‘अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः॥ ९०॥’

अत्र यौवनप्रभवस्य तमसस्तमोजात्या सह दृष्टिरोधकरमिति सादृश्यमुक्त्वा, अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिरिति व्यतिरेको विहितः, सोऽयं स्वजातिव्यतिरेकः॥

“अत्र यौवनप्रभवस्येति”। यौवनकृतमज्ञानलक्षणमन्यदेव तमोऽन्यच्चान्धकाररूपं तयोस्तद्भावापत्तिरियमेव कल्पनास्माभिरुक्ता। अनेन तु प्रकारेण रसः पुष्यतीत्यलङ्कारमध्ये गणनम्॥

प्रतीयमानसादृश्ये स्वव्यक्तिव्यतिरेको यथा—

‘अण्णोण्णेहिं सुचरिअसअहिं अणुदिण वड्ढिइअ माणु।
अप्पणवि ण हु महुवि अह अप्पाणेण समाणु॥ ९१॥’

[अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः।
अस्यापि न खलु महानपि अथात्मना समानः॥]

अत्र प्रतीयमानोपमानसादृश्योपचरितभेदादात्मव्यक्तेरन्यैरन्यैश्च सुचरितशतैः स्वव्यक्तित एव भेदोऽभिहितः। सोऽयं स्वव्यक्तिव्यतिरेकः॥

अण्णोण्णेहिं अन्योन्यैर्मानोऽहङ्कारः पूजा वा। यौ तु कल्पितभेदाधिकरणत्वे- नोपात्तौ विरोधिधर्मवत्तया शब्दात्प्रतीयेति तयोर्निर्यन्त्र“अत्र” ‘निर्यत्नं णत्वा-’ इति पाठ आसीत्तत्र निर्थन्त्रणत्वादिकमिति कल्पितोऽस्ति।णत्वादिकमिति भवति सादृश्यं प्रतीयमानम्॥

शब्दोपात्तसादृश्य एकव्यतिरेको यथा—

‘प्रेयानेव वृषस्तवापि सततं भूतिस्तवापि स्थिरा दुर्गाया भवतापि भूघरभुवः सम्यग्गृहीतः करः।
निर्व्याजं परमेश्वरत्वमियता नो यासि वक्तुं जनै- र्हेलोल्लासितवाहिनीशमथने यत्रो विषदी भवान्॥ ९२॥’

अत्र प्रियवृषत्वादिभिरभिहितसादृश्ययोरुपमानोपमेययोरुपमेयस्यैव यथोक्तसादृश्यविषये विषादित्वं युक्तमित्येकव्यतिरेकोऽयम्॥

“प्रेयानेवेति”। वृषो गौर्धर्मश्च। भूतिः सम्पद् भस्म च। दुर्गा गौरी विषमा च। भूधरभूर्गिरिजा पर्वतभूमिश्च। करो हस्तो राजदण्डश्च। वाहिनीशः समुद्रः सेनापतिश्च। विषादी विषभक्षकोऽवसादवांश्च। यद्यप्यत्रानुरूपं सादृश्यं नास्ति तथापि शब्दसादृश्येनाप्युपमा प्रवर्तत एव। यथा—‘सकलङ्कं पुरमेतज्जातं सम्प्रति सितांशुबिम्बमिव’ इति। अत एवोभयालङ्कारत्वमुपमायाः॥

स एव प्रतीयमानसादृश्यो यथा—

‘सकलङ्केन जडेन च साम्यं दोषाकरेण ते कीदृक्।
अभुजङ्ग समनयनः कथमुपमेयो हरेणासि॥ ९३॥’

अत्र प्रतीयमानसादृश्यस्य पूर्वार्घे चन्द्रोपमानस्य सकलङ्कतादिरुत्तरर्धेन वर्णनीयोपमेयस्याभुजङ्गत्वादिरेकस्यैव भेदकः स्वधर्मोऽभिहितः सोऽयमप्येकव्यतिरेक एव॥

“सकलङ्केनेति”। कलङ्कोऽपवादो लाञ्छनं च। जडो मूर्खः शीतलश्च। अभुजङ्गो न वेश्यापतिरविद्यमानसर्पश्च। समनयनो युगनयनः सर्वान् समं नयतीति च। आह्लादकत्वादिकं चन्द्रेणानिरुद्धैश्वर्यादिकं परमेश्वरेण सादृश्यं प्रतीयते॥

शब्दोपात्तसादृश्ये उभयव्यतिरेको यथा—

‘अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि।
असावञ्जनसङ्काशस्त्वं च चामीकरद्युतिः॥ ९४॥’

अत्र द्वयोरप्यभिधीयमानसादृश्ययोरुभयव्यतिरेकः॥

“अभिन्नेति”। वेला मर्यादा तीरं च। गम्भीरोऽतलस्पर्शोऽचलितचित्तवृत्तिश्च॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘त्वन्मुखं पुण्डरीकं च द्वयोरप्यनयोर्भिदा।
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम्॥ ९५॥’

तदेतन्निगदेनैव व्याख्यातम्। सोऽयं प्रतीयमानसादृश्ययोरुभयोर्व्यतिरेकः॥

अभिधीयमानसादृश्ययोः सदृशव्यतिरेको यथा—

‘त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी।
भ्रमद्भ्रमरमम्भोजं लोलदृष्टि मुखं तु ते॥ ९६॥’

अत्र मुखाम्भोजयोः ऽफुल्ले सुरभिगन्धिनीऽ इति पदाभ्यामभिधीयमानसादृश्ययोः सदृशमेव भ्रमद्भ्रमरत्वं लोलदृष्टित्वं च भेदकमुपन्यस्तमिति सोऽयं शब्दोपात्तसादृश्ययोः सदृशव्यतिरेकः॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘चन्द्रोऽयमम्बरोत्तंसो हसोऽयं तोयभूषणम्।
नभो नक्षत्रमालीदमिदमुत्कुमुदं पयः॥ ९७॥’

अत्र पूर्वार्धे चन्द्रहंसयोः प्रतीयमानसादृश्ययोरम्बरोत्तंसत्वतोयभूषणत्वे, उत्तरार्धे तु नभःपयसोर्नक्षत्रमालित्वोत्कुमुदत्वे सदृशे एव भेदके। सोऽयं प्रतीयमानसादृश्ययोः सदृशव्यतिरेकः॥

अभिहितसादृश्ययोरसदृंशव्यतिरेको यथा—

‘शशाम वृष्टिर्मेघानामुत्सङ्गे तस्य भूभृतः।
विरराम न रामस्य धारासन्ततिरश्रुणः॥ ९८॥’

अत्र भूभृत इत्यनेन साक्षादुपात्तसादृश्ययो राममाल्यवतोर्योऽयमुत्सङ्गे समस्तोऽश्रुधारापातो यस्य मेघवृष्टेरभावस्तदिदमुभयोरसदृशमेव भेदकम्। सोऽयमभिधीयमानसादृश्ययोरसदृशव्यतिरेकः॥

“शशाम वृष्टिरिति”। भूभृतो राज्ञश्च॥

स एव प्रतीयमानसादृश्ययोर्यथा—

‘अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम्।
इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम्॥ ९९॥’

अत्र कान्तामृगेक्षणयोः प्रतीयमानसादृश्ययोर्भ्रूविलासमदरागौ तदभावौ च विसदृशौ भेदकाविति सोऽयं प्रतीयमानसादृश्ययोरसदृशव्यतिरेकः॥

सदृशासदृशव्यतिरेकाभ्यामेव तदुभयव्यतिरेकोऽपि व्याख्यातः। यथा—

‘निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ॥ १००॥’

अत्र नभःसरसोः प्रतीयमानसादृश्ययोर्निर्मलेन्दुत्वं विकचाब्जत्वं च प्राग्वदेव सदृशे भेदके; ताभ्यां च मुखचन्द्रमुखकमलाभ्यां मनोहराह्लादकत्वाभ्यां च प्रतीयमानसादृश्ययोरेव रामलक्ष्मणयोर्येयं मुखपर्यश्रुता, तनौ च म्लानिर्निर्मलेन्दुताविराजमानयोर्विकचाब्जत्वशोभमानत्वयोश्च सा विसदृशीति सोऽयं सदृशासदृशभेदकत्वकृतभेद एव तदुभय- व्यतिरेकः॥

“ताभ्यां च मुखचन्द्रेति”। मुखस्य चन्द्रकमलभावोऽनादिकविकल्पनासिद्ध इति तेनापि रूपेण प्रतीयमानसादृश्यत्वमुक्तम्॥

ननु मिथो व्यतिरेकभेदगणनमनुपपत्रं सदृशासदृशव्यतिरेकस्यापि सम्भवा- दित्यत आह—

एतेनैकव्यतिरेकादिसम्भेदोऽपि व्याख्यातः। यथा—

‘मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धते नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽञ्चति।
तुल्यस्तत्रभवान्प्रयागविटपी यस्यैतदेकार्णवे कायान्तर्विनिवेश्य विश्वमखिलं शाखासु शेते हरिः॥ १०१॥’

अत्र वर्णनीयबाहुकल्पद्रुमयोरभिमतफलदायित्वादिभिः प्रतीतसादृश्ययोर्भुवनत्रयाभयप्रदायी वर्णनीयबाहौ कृपाणो भेदक इत्येकव्यतिरेकः। तथा वर्णनीयबाहोः प्रयागवटस्य च प्राग्वदेव प्रतीयमानसादृश्ययोरेकस्य भुवनत्रयाभयमहासत्री कृपाणः शाखासु शेते, अन्यस्य तु महाप्रलये स्वकायान्तर्निवेशितारखिलविश्वो वैकुण्ठः। ताविमौ तयोः सदृशावेव भेदकौ हरिकृपाणयोर्वा श्यामतादिभिः प्रतीयमानसादृश्ययोरिमावेव धर्मौ भेदकौ सोऽयमेवम्प्रकारो व्यतिरेकसङ्कर उत्रेयः। स्वजातिव्यतिरेके प्रतीयमानसादृश्यम्, स्वव्यक्तिव्यतिरेके चाभिधीयमानसादृश्यं यद्युदाहरणं दृश्यते सम्भवति वा तदा तदप्युदाहार्यम्॥

“एतेनेति”। “प्राग्वदेवेति”। अमिमतफलदायित्वादिभिः। “एवम्प्रकार इति”। न ह्येकवाक्यस्थतामात्रेण तथा चमत्करोति यथाङ्गाङ्गङिगभावादिभिः परस्परग्रथनयेति। सैव प्रकारपदेनाभिहिता। “यद्युदाहरणं दृश्यते सम्भवति वेति”। न हि स्वजातिव्यतिरेके द्वयोरभेदाध्यवसायः सादृश्यमन्तरेण चमत्कारमर्पयतीति कल्पितमेव वाच्यम्। न च कल्पनाशब्दमन्तरेण प्रतीयमानसादृश्यसम्भवः; सादृश्यस्य भेदाधिष्टानत्वात्। स्वव्यक्तिव्यतिरेकेऽप्यसम्भवस्तथाभूतमेव तु शब्देनोपादीयत इति स्यादत उक्तं यदि दृश्यते इति॥

सहकारित्वं व्यतिरेकनिरूप्यमतो व्यतिरेकानन्तरं समाहितलक्षणमाह—

कार्यारम्भे सहायाप्तिर्दैवादैवकृतेह या।
आकस्मिकी बुद्धिपूर्वोभयी वा तत्समाहितम्॥ ३४॥’

तत्राकस्मिकी दैवकृता यथा—

‘मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥ १०२॥’

अत्र माननिराकरणोपक्रमे कालोत्पन्नस्याकस्मिकघनगर्जितस्य मानविध्वंसे सहकारित्वादाकस्मिकीयं दैवकृता सहायसम्पत्तिः॥

“कार्यारम्भ इति”। सहायः प्रकृतकार्यकारणस्य सहकारी, तेनालङ्कारता आकस्मिक्यचिन्तितपूर्वा बुद्धिपूर्वाद्विपरीता। आकस्मिक्यादीनां प्रत्येकं दैवादैवकृतसम्बन्धे षट्प्रकारं समाहितमित्यर्थोक्तम्॥

आकस्मिक्येवादैवकृता यथा—

‘अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम्।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः॥ १०३॥’

अत्र भीमानुशासनकालोपक्रम एव व्यासागमनस्य तदुपकारित्वादाकस्मिकीयमदैवकृता सहायाप्तिः॥

“व्यासागमनस्येति”। व्यासेन सम्पाद्यमानस्य। “तेनादैवकृतेति”॥

बुद्धिपूर्वा दैवकृता यथा—

‘कल्पान्ते शमितत्रिविक्रममहाकङ्कालदण्डस्फुर- च्छेषस्यूतनृसिंहवक्रनखरप्रोतादिकोलामिषः।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतः स्यतु जगन्मोहं महाभैरवः॥ १०४॥’

अत्र प्रलयसमये महेश्वरेण समापयितुमुपक्रान्तानां त्रिविक्रमादीनां योऽयं तद्भुवा बडिशादिना मत्स्यकूर्मयोराकर्षणप्रकारः स भगवता भैरवेण बुद्धिपूर्वकमुपकल्प्यमानो दैवात्तथाभूतैरेव तैः सम्पद्यत इति बुद्धिपूर्वेयं दैवकृता सहायाप्तिः॥

“दैवात्तथाभूतैरेवेति”। नरसिंहनखादीनां बडिशाद्युचितमूर्तिशालिनां दैवमेव निमित्तम्, बडिशादिचिन्ता च विषयीकृतेति बुद्धिपूर्वता॥

बुद्धिपूर्वाऽदैवकृता यथा—

‘मूले पञ्च ततश्चतुष्टयमिति स्रक्सन्निवेशैः शिरः- पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमारोपयन् शम्भोरद्भुतसाहसैकरसिकः कैर्न श्रुतो रावणः॥ १०५॥’

अत्र योऽयं दशवदनेन स्वयं छिन्नैः शिरोभिर्भगवतः शम्भोरर्चनाप्रकार उपक्रान्तस्तत्र मूले पञ्च ततश्चतुष्टयमिति शिरोविरचनाप्रपञ्चोबुद्धिपूर्वकोऽदैवकृतः क्रियमाणोऽस्य कर्मणः समाप्तौ सहकारिकारणतामासादयतीत्ययमदैवकृतो बुद्धिपूर्वकः समाहितभेदः॥

“मूले पञ्चेति”। अधोऽधः स्थूलपुष्पस्य सन्निवेश उपर्युपरि तनुरिति दूर्वापूजाप्रकारः प्रसिद्धः। अन्यतमालोकननिमित्तैरारोपितैः। अत्र लोकप्रसिद्धपूजाप्रकारः कार्यभूतः। उपर्युपरि तनुसन्निवेशनिष्पादनं सहकारि। इदं च रावणप्रयत्ननिष्पाद्यत्वाददैवकृतं बुद्धिपूर्वं च भवतीत्यन्यतमेन मूर्ध्नान्यतमस्यारोपणं न नवमच्छेदपर्यन्तमासीत्। पूजास्वरूपेणैव भगवांस्तुष्यति न तथा विदितेनेत्यभिप्रायवतो निस्तरङ्गा भक्तिस्तेन साहसस्याद्भुतत्वम्॥

आकस्मिकी बुद्धिपूर्वा दैवकृता यथा—

‘सा कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः।
तत्सङ्गमं प्रति सखे नहि संशयोऽस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगौ॥ १०६॥’

अत्र योऽयं माधवस्य मालतीं प्रति समागमाभिलाषस्तत्रेयं मालत्या आकस्मिकी बुद्धिपूर्वा च तथा प्रवृत्तिः सोभय्यपि दैवकृता च सहायाप्तिः समाहितभेदः॥

“अत्र योऽयं माधवस्येति”। विधिश्च मदनश्च कृताभियोगावित्यनेन मालत्याः पृर्वानुभावाः कथ्यन्ते। ते च द्विधा भवन्तीत्याकस्मिकी दैवपूर्वा सहायसम्पत्तिः॥

आकस्मिकी बुद्धिपूर्वा चादैवकृता यथा—

‘दृष्टिर्वन्दनमालिका स्तनयुगं लावण्यपूर्णौ घटौ शुभ्राणां प्रकरः स्मितः सुमनसां वक्रप्रभा दर्पणः।
रोमाञ्चोद्गम एव सर्षपकणः पाणी पुनः पल्लवौ स्वाङ्गैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥ १०७॥’

अत्रागच्छतः प्रियस्येयं वन्दनमालिकादिमङ्गलक्रिया मनःपरितोषहेतुस्तस्यास्तन्वङ्ग्या इङ्गिताकारैरेव यन्निवर्तनं सोऽयमाकस्मिकः स्वबुद्धिपूर्वकश्च तत्सहकारिकारणत्वाददैवकृतश्च समाहितभेदः॥

“अत्रागच्छतः प्रियस्येति”। मङ्गलक्रियामात्रं न चमत्कारास्पदमत उक्तं मनःपरितोषहेतुरिति। स्मितं बुद्धिपूर्वम्। रोमाञ्चो न बुद्धिपूर्वः। एवं दृष्ट्यादौ यथायथं वेदितव्यमिति॥

बुद्धिपूर्वायां सहायाप्तौ क्वचिद्भ्रान्तिरप्यस्ति ततस्तदनन्तरं तां लक्षयति—

भ्रान्तिर्विपर्ययज्ञानं द्विधा सापि प्रयुज्यते।
अतत्त्वे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी॥ ३५॥

अतत्त्वे तत्त्वरूपा या त्रिविधा सापि पठ्यते।
अबाधिता बाधिता च तथा कारणबाधिता॥ ३६॥

“भ्रान्तिरिति”। अतस्मिंस्तदिति निश्चयो भ्रान्तिः। सैव विपर्ययः। न चैवं संशयादय इत्युक्तपूर्वम्। सा द्विधा—यस्य यत्रासद्भावस्तस्य तत्र सद्भावारोपः, यस्य वा यत्र सद्भावस्तस्य तत्रासद्भावारोपः। सोऽयं भावाभावकृतो नियमो भ्रान्तेर्बाधनियमेऽपि क्वचिद्वारोपन्यासो भवति क्वचिन्न भवति। उपन्यासो द्विरूपोऽभिधया वृत्त्यन्तरेण च। यत्र बाधोपन्यासे बाधितानुपन्यासे वाऽबाधिता तस्मिन्नेव वाक्येऽविज्ञातबाधेत्यर्थः। उपन्यासेतरप्रकारेण ज्ञातबाधका बाधिता। बाधकारणोक्तेर्बाधपर्यवसानाभिप्रायत्वात् तदेतद्दर्शयति—“अबाधिता बाधिता चेति”॥

तत्रातत्त्वे तत्त्वरूपाऽबाधिता यथा—

‘मोहविरमे सरोसं थोरत्थणमण्डले सुरवहूणम्।
जेण करिकुम्भसम्भावणाइ दिट्ठी परिट्ठविआ॥ १०८॥’

[मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम्।
येन करिकुम्भसम्भावनया दृष्टिः परिस्थापिता॥]

अत्र सुरवधूस्तनमण्डले करिकुम्भत्वेन गृहीतेऽतत्त्वरूपे यन्मिथ्यैव तत्त्वारोपणं न चानन्तरं वाधकोपन्यासः कृतस्तेनेयमबाधिता अतत्त्वे तत्त्वरूपा भ्रान्तिः॥

“मोहविरम इति”। परिट्ठविआ सपल्लवं व्यवस्थापिता। तत्रैव परिपूर्वस्य तिष्टतेः प्रसिद्धत्वात्। सरोषमिति समवायिविशेषणम्। न च तदन्तरेण क्रियासद्भावः। तेन मोहेऽपि न प्रक्रान्तरसानुभावस्वरूपतामहासीदिति व्यज्यते। इत्थं च दृढानुबन्धोऽसौ रसो यद्बलवत्तरविरोधिसम्पर्केऽपि न कार्कश्यमगादिति स्थूलमण्डलसुरवधूपदैः प्रकाश्यते सम्भावनया न तु पूर्वोत्पन्नज्ञानेन। करिकुम्भानां दृढतरवासनत्वात्। अबाधितेत्यत्र यथार्थोऽभिमतस्तथा दर्शयति—“बाधकोपन्यास इति”॥

अतत्त्वे तत्त्वरूपा बाधिता यथा—

‘हसिअं सहत्थतालं सुक्खवडं उवगएहि पहिएहि।
पत्तप्फलसारिच्छे उड्डीणे पूसवन्दम्मि॥ १०९॥’

[हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः।
पत्त्रफलसदृशे उड्डीने शुकवृन्देऽस्मिन्॥]

अत्र पत्त्रफलितोऽयं न्यग्रोध इत्यतत्त्वरूपे तत्त्वबुद्धावुत्पन्नायां य उत्तरकालमपत्त्रतानिष्फलताप्रत्ययस्तेनेयमतत्त्वे तत्त्वरूपाख्या बाधिता भ्रान्तिः॥

“हसिअमिति”। पूसः शुकः। वन्दं वृन्दम्। शुकचञ्चुपुच्छानां पक्वन्यग्रोधफलनवपलाशसादृश्यम्। यद्यपि नात्र बाधोऽभिहितस्तथापि उड्डीण इत्यनेनार्थाभावविषया प्रतीतिः क्रियते। कथमन्यथा हसितहस्ततालरूपकार्यस्योपन्यासः स्यात्॥

अतत्त्वे तत्त्वरूपा कारणबाधिता यथा—

‘कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिप- ञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥ ११०॥’

अत्र श्यामायामात्मद्युतावसितसिचयप्रान्तबुद्धिरतत्त्वे तत्त्वरूपा प्रियाहसितेन च कारणेन यद्बाधिता सैषातत्त्वे तत्त्वरूपा कारणबाधिता भ्रान्तिः॥

“अत्र श्यामायामिति”। नात्र पूर्वोदाहरणवच्छब्देन कयाचिदपि वृत्त्यार्थाभावो विषयीकृतः किन्तु प्रकारान्तरेणोन्नीयते। तथाहि नायकेनांशुकापहरणलीलायितेऽपि यदिदं राधायाः सिचयावरोधाङ्गचलनभ्रूक्षेपादि मुग्धाङ्गनोचितविभ्रमविरोधि हसितं तत्कारणं बाधस्येति॥

अतत्त्वरूपा तत्त्वे या सापि त्रैविध्यसिद्धये।
हानोपादानयोर्हेतुरूपेक्षायाश्च जायते॥ ३७॥

तत्र तत्त्वेऽतत्त्वरूपा हानहेतुर्यथा—

‘सो मुद्धमिओ मिअतह्णिआहिं तह दूमि तुह आसाहिम्।
जह सम्भावमई णवि णईण परम्मुहो जाओ॥ १११॥’

[स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः।
यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः॥]

अत्र पारमार्थिकीष्वपि नदीषु मृगतृष्णाप्रतारितः सन्यन्न मृगः पयः पातुं प्रतिपद्यते प्रत्युत त्यजति तेनेयं तत्त्वेऽप्यतत्त्वरूपा हानहेतुर्भ्रान्तिः॥

हानं द्विविधम्। प्रवृत्त्यभावो विपरीतश्च प्रयत्नः। द्विधाप्यत्राभिमतमिति व्या- ख्यानेन स्फुटयति—“न प्रतिपद्यते प्रत्युत त्यजतीति”॥

तत्त्वेऽतत्त्वरूपोपादानहेतुर्यथा—

‘समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः॥ ११३॥’

अत्राङ्गीकृतलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां येयं पूवानुभूतेवंविधानेकविधविप्रलम्भसम्भावनया नयनयोरनुन्मीलनबुद्धिः सेयं तत्त्वेऽप्यतत्त्वरूपोपादानहेतुर्भ्रान्तिः॥

“समर्थये इति”। विभाविताप्रिय इति युक्तः पाठः, प्रियादिषु पुंवद्भावप्रतिषेधात्। नात्राभावारोपः स्फुटोऽवगम्यत इति प्रकरणमादाय व्याचष्टे—“अत्राङ्गीकृतेति”। न च वाच्यं दोलायमानतया संशयरूपमिदं ज्ञानमिति। यतो नास्त्येवात्र प्रियतमा तथापि तदारोपेण मनस्तापातिवाहनमुचितमिति जानतः पुरूरवसोऽनुबन्धप्रकर्षः पुष्यति नान्यथेति सहृदयहृदयसाक्षिकमिदम्। तदेतन्मनाक् स्फुटयति—“पूर्वानुभूतैवंविधेति”॥

तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्यथा—

‘चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने॥ ११३॥’

अत्र तत्त्वरूपेऽपि मार्जारे कृत्रिमोऽयमिति बुद्धौ जातायां तस्यां प्रयोजकत्वेन यदुपेक्षणं सेयं तत्त्वेऽप्यतत्त्वरूपोपेक्षाहेतुर्भ्रान्तिः॥

“प्रयोजकत्वेन यदुपेक्षणमिति”। या प्रवृत्तिं निवृत्तिं वा न प्रसूतेऽपेक्षा- बुद्धिं वेत्यर्थः॥

भ्रान्तिमान्भ्रान्तिमाला च भ्रान्तेरतिशयश्च यः।
भ्रान्त्यनध्यवसायश्च भ्रान्तिरेवेति मे मतम्॥ ३८॥

“भ्रान्तिमानिति”। भूम्नि मतुप्। भूमार्थो द्विविधो बहूनां भ्रान्तीनामेकविषयतो भिन्नविषयाणां वा समानकर्तृता। आद्यो भ्रान्तिमतो विषयो, द्वितीयो भ्रान्तिमालायाः। न हि भ्रान्तिमति मालाक्रमनियमोऽस्ति युगपदपि भिन्नकर्तृकाणां जायमानत्वात्। भ्रान्तेरतिशयः शब्दोपनीतप्रकर्षा भ्रान्तिरिति स्वकार्यभूतं वितर्कमादाय प्रतीयमानो विपर्ययहेतुर्भ्रमान्तरानुबन्धी॥

तत्र भ्रान्तिमान् यथा—

‘कपोले मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी सङ्कलयति।
रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति॥ ११४॥’

अत्रेन्दुमरीचिषु पयःप्रभृतिभ्रान्तिभूम्नायं भ्रान्तिमान् नाम भ्रान्तेरेव भेदः॥

भ्रान्तिमाला यथा—

‘नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि॥ ११५॥’

अत्र युवत्यवयवेषु नयनादिषु मधुव्रतानां येयं नीलोत्पलादिबुद्धिः सेयं मालाक्रमेणोपजायमाना भ्रान्तिमाला भ्रान्तेरेव भेदः॥

भ्रान्त्यतिशयो द्वेधा—वितर्कहेतुर्विपर्ययहेतुश्च। तयोः पूर्वमुपमाभ्रान्तिमाचक्षते, द्वितीयं तु भ्रान्त्यतिशयमेव।

तत्रोपमाभ्रान्तिर्यथा—

‘हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम्।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्॥ ११६॥’

अत्र शाद्वलेऽपि समुत्पन्नस्तनांशुकभ्रमस्य पुरूरवसो योऽयं सादृश्यातिशयितो वितर्कः सेयमुपमाभ्रान्तिः॥

“तयोः पूर्वमिति”। तत्त्वेन प्रतीयतो मध्ये मनाक्तव्द्यतिरेकमुल्लिखितो नूनं भेदाभेदतुल्यतया मनसि सादृश्यं प्रवर्तत इति भावः। असंशयमिति पदेन प्रकर्षो वितर्कश्च प्रत्यायितः॥

भ्रान्त्यतिशयो यथा—

‘दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद्द्राग्दृष्टनष्टा मुदम्।
यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहु- र्मुह्यँल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः॥ ११७॥’

अत्र गङ्गाम्भःप्रतिफलितां रजनिकरकलामालोकयतो वासुकेर्येयं शफरीभ्रमेण मुकुलीकुर्वन् फणालीं शफरीयमित्यध्यासिता विपर्ययबुद्धिः सोऽयं भ्रान्त्यतिशयो नाम भ्रान्तेरेव भेदः॥

“जिघृक्षतितमामिति”। ‘तिङश्च ५।३।५६’ इति तमपि ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ५।४।११’ इत्याम्॥

भ्रान्त्यनध्यवसायोऽपि द्विधा—सालम्बनो निरालम्बनश्च। तयोः सालम्बनो यथा—

अत्र श्लोके—‘विरहिणीजणण’ इति, ‘दअन्तेण’ इति, ‘णावइ’ इति, ‘चैत्तेण’ इति टीकाकारसम्मतः पाठः।‘विरहिणिहिअअकअन्तहिं णिण्णाअइ तक्खणि छाइज्जइ अलिणिवहेहिं चैत्तेण चूअवणी।
अह तासु वि मअरन्दहिं सन्दाणिअइ जह ण कलम्ब ण अम्ब ण जम्बू जाणिअइ॥ ११८॥’

[विरहिणीहृदयकृतान्तैर्निर्णीयते तत्क्षणे छाद्यतेऽलिनिवहैश्चैत्रेण चूतवनी।
अथ तास्वपि मकरन्दैर्वध्यते यथा न कदम्बो नाम्रो न जम्बूर्ज्ञायते॥]

न कदम्बो नाम्रो न जम्बूरिति ज्ञायत इति त्रयाणामेवावलम्बनभूतत्वात्सालम्बनो नामायं भ्रान्त्यनध्यवसायो भ्रान्तिभेदः॥

भ्रान्तेरनध्यवसायोऽनिर्धार्यमाणविषयता। “विरहिणीजणण इति”। विरहिणीजनस्य। ‘अधीगर्थ-२।३।५२।’ इत्यादिना कर्मणि षष्ठी। दअन्तेण दयमानेन रक्षता। णावइ प्रतिभाति। तक्खणि तत्र क्षणे। छाइज्जइ अलिणिवहेहिं छाद्यतेऽलिनिवहैः करणभूतैः। चैत्तेण चैत्रेण कर्त्रा। चूअवणी चूतवनी। तह तथा। तासु वि तस्या अपि। सन्दाणिअइ बध्यते। अनिर्धारितविषयतया कथमालम्बननिरालम्बनयोर्भेद इत्यत आह—“त्रयाणामेवावलम्बनभूतत्वादिति”। उक्तिभङ्ग्या विषयोपादानादित्यर्थः॥

निरालम्बो यथा—

‘उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- स्तदूर्ध्वं रत्नाश्मस्थलमथ दुरूहं किमपि यत्।
ततः कुम्भौ पश्चाद्बिसकिसलये कन्दलमये तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम्॥ ११९॥’

अत्रोर्वादिषु युवत्यवयवेषूत्पन्नो रम्भास्तम्भभ्रान्तेर्योऽयमेतत्समुदाये किमिदमित्यालम्बनं विना कृतोऽनध्यवसायः स एष निरालम्बनो नाम भ्रान्त्यनध्यवसायो भ्रान्तेरेव भेदः॥

“आलम्बनं विनेति”। विषयानिर्धारणं व्यक्तीकृतम्॥

ऊहो वितर्कः सन्देहनिर्णयान्तरधिष्ठितः।
द्विधासौ निर्णयान्तश्चानिर्णयान्तश्च कीर्त्यते॥ ३९॥

मिथ्याप्रतीतिसामान्यादनन्तरं वितर्कलक्षणम्—“ऊह इति”। यस्य प्रसिद्धिः स इत्यर्थः। पर्यायशब्देनापि लक्षणं क्रियत एव। यथा—घटपदार्थतया व्यावृत्तौ सन्दिहानस्य कलशपदार्थतया निश्चयवतो यः कलशः स घट इति। कथमसौ संशयविपर्ययाभ्यां भिद्यत इत्यत आह—“सन्देहेति”। सन्देहो नानाकोटिकस्तथाभूतामेव जिज्ञासां प्रसूते, तर्कस्तु तदनन्तरभावी नियतकोटिकस्तथाभूतामिति। कालस्वरूपकार्यभेदात् संशयतो भेद इति। एवं विपर्ययतोऽपि। स हि तर्कान्तरभाविनिश्चयात्मकः प्रवृत्त्यादिहेतुभूतश्च। तदयं तर्काभासस्य विपर्ययापर्यवसायिनो विषयविभागः कृतः, स तु तर्कस्य विषयविभागः स्फुट एव सन्देहनिर्णययोर्मध्यमधिष्टितः स तद्वर्ती। विभागमाह—“द्विधासाविति”। निर्णयान्तरोपन्यस्तः फलभूतानिश्चयोऽतथाभूतो निर्णयान्तो निश्चयः॥

प्रमितिविपर्ययरूपतया द्विविध इत्याशयवान्निर्णयार्थं विभजते—

तत्त्वानुपात्यतत्त्वानुपाती यश्चोभयात्मकः।
स निर्णयान्त इतरो मिथ्यामिथ्योभयात्मकः॥ ४०॥

“तत्त्वानुपातीति”। निगदेनैव व्याख्यातम्॥

तेषु निर्णयान्तस्तत्त्वानुपाती यथा—

‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ १२०॥’

अत्र निरूपितलक्षणे वितर्के जटायुरेष इति तत्त्वानुपाती निर्णयान्तो वितर्कः॥

“मैनाकः किमयमिति”। किमयमिति काक्वा पूर्वं दोलायमानचित्तस्य नियतकोटिस्पर्शी ज्ञानविशेष उपनीयते स एव तर्कः। एवमन्यत्रापि॥

स एवातत्त्वानुपाती यथा—

‘अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ १२१॥’

अत्र किमिदं रूपं निर्मातुं यथोक्तः पुराणो मुनिः प्रभवेत्, अतश्चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपातित्वादतत्त्वानुपात्ययं निर्णयान्तो वितर्कः॥

स एवोभयात्मको यथा—

‘चित्ते निवेश्य परिकल्पितसत्त्वयोगा- न्रूपोच्चयेन रचिता मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ १२२॥’

सोऽयं तत्त्वानुपातित्वादतत्त्वानुपातित्वाच्चोभयात्मा निर्णयान्तो वितर्कः॥

“उभयात्मक इति”। स्त्रीरत्नसृष्टिरित्यनेन तत्त्वानुपाती, अपरेत्यनेनातत्त्वानुपाती प्रकाशितः॥

अनिर्णयान्तो मिथ्यारूपो यथा—

‘अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि- र्दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान्॥ १२३॥’

अत्र किमिदमद्रेः शृङ्गं पवनो हरतीति मेघं प्रति कल्पनायां मिथ्यात्वाद्वस्तुनश्चानिर्णयादनिर्णयान्तो मिथ्यारूपो वितर्कः॥

मिथ्यामिथ्यारूपौ बाधिताबाधितविषयौ। अबाधितोऽपि तर्को भवत्येव। यथा यद्यस्य नीलं रूपं नीलोत्पलमिति॥

स एवामिथ्यारूपो यथा—

‘अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः॥ १२४॥’

अत्र भगवत्पार्थयोरमिथ्यारूपत्वेन वेगवत्त्वादेकस्यानिर्णयान्तोऽमिथ्यारूपो वितर्कः॥

“अथ भगवत्पार्थयोरिति”। भगवत्पार्थयोरवस्थानयोः समधिरोहारोहयोश्च न किञ्चिद्बाधकमस्ति चक्षुर्ज्ञानस्य विशेषः प्रत्यक्षत इति॥

अनिर्णयान्त उभयात्मा यथा—

‘माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः।
गाण्डीवमुक्ता हि यथापुरा मे पराक्रमन्ते न शराः किराते॥ १२५॥’

अत्र मायादीनां विकल्पानां मिथ्यारूपत्वान्मम शराः किराते न व्याप्रियन्त इत्यस्या मिथ्यारूपत्वादनिर्णयान्तत्वाच्चायमनिर्णयान्त उभयरूपो वितर्कः॥

“अत्र मायादीनामिति”। न परमेश्वरस्य माया छद्म, न शक्तौ मतिभ्रमः, न ध्वंसो वीर्यस्य, नवार्जुनादेवार्जुनस्यान्यत्वमिति विषयबाधात्॥

मीलिते भ्रान्तिरस्तीति भ्रान्त्यनन्तरं मीलितलक्षणमाह—

वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम्।
पिहितापिहिते चैव तद्गुणातद्गुणौ च तत्॥ ४१॥

“वस्त्वन्तरेति”। वस्तूनामिति श्लिष्टषष्ठी। वस्त्वन्तरेण तिरस्कारे इति कर्मणि। वस्त्वन्तरस्य तिरस्कार इति कर्तरि। फलतः स एवार्थः। तथाचोत्कृष्टगुणेनापकृष्टगुणस्य तिरस्करणं न्यग्भावनमिति लक्षणार्थः। पृथग्रूपतिरस्कारेणैकरूपतापत्तिर्मीलितमुच्यते। तथाच कातन्त्रम्—‘मीलितं युक्तमुच्यते’ इति। अभिप्रायपूर्वस्तिरस्कारो द्विविधः—सिद्धाभिप्रायफलोऽसिद्धाभिप्रायफलश्च यथाक्रमं पिहितापिहिते। न चैतावता विशेषेण पृथग्भावः; सामान्यलक्षणव्याप्तत्वादवान्तरभङ्गीनामानन्त्याच्च। स रूपगुणेन तिरस्कारस्तद्गुणो विरूपगुणेनातद्गुणः। एतावपि मीलितविशेषाविति स्फुटम्॥

अत्र मीलितमभिधीयमानगुणेन प्रतीयमानगुणेन च वस्तुना सम्भवति। तयोराद्यो(ऽभिधीयमानगुणेन) यथा—

‘एन्तोवि ण सच्चविओ गोसे पसरत्तपल्लवारुणच्छाओ।
मज्जणतम्बेसु मओ तह मअतम्बेसु लोअणेसु अमरिसो॥ १२६॥’

[आगच्छन्नपि न दृष्टः प्रातः प्रसरत्पल्लवारुणच्छायः।
मज्जनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः॥]

अत्र मज्जनताम्रयोर्लोचनयोर्मदरागो मदताम्रयोः कोपानुरागः साक्षादभिधीयमानेनैव गुणेन तिरस्क्रियमाणो निदर्शित इत्यभिधीयमानगुणेन वस्तुनैतन्मीलितम्॥

विभागमाह—“अत्र मीलितमिति। एन्तोवीति”। सच्चविओ दृष्टः। गोसे प्रातः। तस्याः मज्जनं स्नानम्। अत्र ताम्रपल्लवारुणरागपदाभ्यामभिधीयते गुणः॥

प्रतीयमानगुणेन यथा—

‘पि अदंसणेण सुहरसमुउलिअ जइसे ण होन्ति णअणाइम्।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तस्सा॥ १२७॥’

[प्रियदर्शनेन सुखरसमुकुलिते यद्यस्या न भवेतां नयने।
तत्केन कर्णरचितं लक्ष्येत कुवलयं तस्याः॥]

अत्र प्रियदर्शनसुखेन मुकुलितयोरेव लोचनयोस्तस्याः कर्णकुवलयं लक्ष्यते नत्वमुकुलितयोरिति वस्तुना वस्त्वन्तरतिरस्कारः प्रतीयमानगुणतयोपपादित इति प्रतीयमानगुणेन वस्तुना मीलितमिदम्॥

ननु पिअदंसणेणेत्यादि कथं मीलितं, न ह्यत्र तिरस्कारः केनापि शब्देन प्रत्याय्यत इत्यत आह—“नत्वमुकुलितयोरिति”। यदि मुकुलिते न स्यातां कथं कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः। मूर्तिरूपादिकः प्रतीयमानो गुणः॥

पिहितं यथा—

‘पअडिअसणेहसम्भावविब्भमन्तिअ जह तुमं दिट्ठो।
संवरणवावडाए अण्णोवि जणो तह च्चेअ॥ १२८॥’

[प्रकटितस्नेहसद्भावविभ्रमतया यथा त्वं दृष्टः।
संवरणव्यापृतया अन्योऽपि जनस्तथा चैव॥]

अत्र प्रकटितस्नेहविभ्रमतया त्वामवलोक्य नैतदन्यो जनो जानात्विति सर्वत्र स्निग्धदृष्टिपातेन पिहितमप्येतन्मीलितभेद एव॥

अपिहितं यथा—

‘दिट्ठाइवि जण्ण दिट्ठो आलविआएवि जण्ण आलविओ।
उवआरो जण्ण कओ तेण अ कलिअं छइल्लेहिम्॥ १२९॥’

[दृष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः।
उपचारो यन्न कृतस्तेन च कलितं छेकैः॥]

अत्र दृष्टया यन्न दृष्टः सम्भाषितया यन्न सम्भाषितो न चाभ्यागतोपचारो बिहितस्तेन तदनुरागः परं न पिहितः प्रत्युत छादनेन छेकानां प्रकटित इत्यपिहिताख्योऽयं मीलितभेदः॥

ननु दृष्टयापि न दृष्ट इत्यपि कथमलङ्कारः। न ह्यत्र शक्तिरस्तीत्यत आह— “प्रत्युतेति”। छेका विदग्धास्तैरास्वाद्यमानत्वादावर्जकत्वं काव्यस्येत्यर्थः॥

तद्गुणो यथा—

‘गोरङ्गउ तरुणिअणो जोह्णाइं अहिसरइ सिअणेवच्छपडिच्छेओ वल्लहवद्धरइ।
तच्छाआहिं पुण चलिअउ सामल- गत्तो तह मअणु मन्ति अहिम्॥ १३०॥’

[गौराङ्गस्तरुणीजनो ज्योस्नायामभिसरति सितनेपथ्यपरिच्छन्नो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितः श्यामलाङ्गस्तत्र मदनो मन्त्र्यभूत्॥]

अत्र गौराङ्गस्तरुणीजनः सितनेपथ्यो ज्योत्स्नायां श्यामस्तु नीलनेपथ्यस्तस्याश्छायासु गच्छतीति तद्गुणाश्रयमीलनात्तद्गुणाख्यं मीलितमिदम्।

“गोरङ्गउ इति”। गौराङ्गः। जोह्णाइं ज्योत्स्नायाम्। णेवच्छं नेपथ्यं वस्त्राङ्गरागादिपरिग्रहः। पडिच्छेओ प्रतीक्ष्य गृहीत्वा। वल्लहवद्धरइ वल्लभबद्धरतिः। तच्छाआहिं तासां गौराङ्गीणां छायायाम्। चलिअउ चलितम्॥

अतद्गुणो यथा—

‘कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षिणी क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते।
कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुरः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति १३१॥’

अत्र कर्कन्धूफलानामपगतनिजगुणत्वादतद्गुणत्वादतद्गुणाख्यं मीलितमिदम्॥

“अत्र कर्कन्धूफलानामिति”। विरुपगुणानामित्यर्थः॥

सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम्।
स्मरणं प्रत्यभिज्ञानस्वप्नाद्यपि न तद्बहिः॥ ४२॥

मीलिते ज्ञानमस्तीति साजात्यादनन्तरं स्मृतिं लक्षयति—“सदृशेति”। सदृशा ज्ञायमानसादृश्यात् प्रयत्नजा स्मृतिश्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति—अनुभूतार्थवेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम्। प्रत्यभिज्ञानमपि पूर्वानुभूतविषयमेव। एवं स्वप्नोऽपि॥

तत्र सदृशाद्यथा—

‘अदृश्यन्त पुरस्तेन खेलत्खञ्जनपङ्क्तयः।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥ १३२॥’

अत्र स्वञ्जनपङ्क्तिदर्शनात्तत्सदृशप्रियानयनविभ्रमस्मरणात्तत्सदृशदर्शनजं स्मरणमिदम्॥

“अत्र खञ्जनेति”। अत्रशब्देनखञ्जनपङ्क्तिश्चेदवलोकितानन्तरमेव प्रियास्मरणमासीदिति कार्यकारणभावोऽवगम्यते। स च कारणतासादृश्यमनन्तर्भाव्य खञ्जनज्ञानस्यास्तीति च प्रतीतं सादृश्यमिति भावः॥

अदृष्टाद्यथा—

‘मुनिसुताप्रणयस्मृतिरोधिना मम वियुक्तमिदं तमसा मनः।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥१३३॥’

अत्र मुनिसुताप्रणयस्मृतिरोधिना तमसा मे मनो वियुक्तमित्यदृष्टकृतं स्मरणमिदम्॥

“अत्र मुनिसुतेति”। तमोलक्षणस्य प्रतिबन्धकस्यापगमे स्मरणरूपं कार्यमावश्यकमित्यर्थः॥

चिन्ताया यथा—

‘पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव जातं वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ १३४॥’

अत्र प्रत्यक्षेष्वपि स्रोतस्तरुविपिनादिषु स्मरणस्य चिन्ताजन्यत्वादिदं चिन्तोद्भूतं स्मरणम्॥

आदिग्रहणात्परप्रयत्नाद्यथा—

‘दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥ १३५॥’

अत्र परकृतात्प्रयत्नविशेषाच्चिन्तायाः प्रवृत्तत्वादिदमपि स्मरणमेव॥

स्वप्नाद्यथा—

‘जाने स्वप्नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभू- त्प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्नासपत्नं महः।
तस्यान्तर्नखनिस्तुषीकृतशरच्चन्द्रप्रभैरङ्गकै- र्दृष्टा काप्यबला बलात्कृतवती सा मन्मथं मन्मथम्॥ १३६॥’

अत्र स्वप्नस्य चिन्तादिजन्यत्वात्स्वप्नस्मृतिरपि स्मरणमेव॥

यदि स्वप्नस्मृतिरपि स्मरणमेव तदा कतमदत्र सादृश्यादिषु कारणमत उक्तम्—“चिन्तादीति”॥

प्रत्यभिज्ञानं यथा—

‘गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधामूर्तेः पादैरमृतशिशिरैर्यः परिचितः।
स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः॥ १३७॥’

अत्र गृहीतो यः पूर्वं स एवायं तस्याः पाणिरिति प्रत्यभिज्ञानमपि स्मरणमेव॥

प्रत्यभिज्ञानस्वरूपं दर्शयति—“यः पूर्वं स एवायमिति”। ननु सूत्रे स्वप्नात्पूर्वं प्रत्यभिज्ञानमुद्दिष्टं पश्चादुदाह्रियत इति कथमेतत्। अत्रोदाहरणक्रमेऽपि लिपिप्रमादोऽयमित्याराध्यपादाः॥

अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते।
सोद्भेदोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः॥ ४३॥

अभिमतमुक्तादिवस्तुचिन्तननियमादनन्तरं भावलक्षणम्। तदाह—“अभिप्रायेति”। अभिमतवस्तुचिन्ता अभिप्रायः। तदनुकूलतया प्रवृत्तिः क्रियालक्षणाभावः। अत एव सूक्ष्माद्भेदः। प्रवृत्तिप्रतिपादकेन स्वार्थप्रकाशनद्वारा प्रकाश्यमानोऽभिप्रायः क्वचित्पदान्तरवृत्तिसहकृतेन प्रकाश्यते, क्वचित्केवलेन। ताविमौ सोद्भेदनिरुद्भेदौ। मिथोऽनुबन्धविषयश्चायं चमत्करोति। तत्र प्रवृत्तिरुच्यमानानेन तस्योच्यते तयोर्वा। तदिदमाह—“एकतश्चाभितश्चेति”। अभिप्रायोद्भावनादशायां रूढः स्वादपदवीमासाद्य चमत्कारमावहति। अत एव तत्कार्ययोः प्रवृत्तेरनुभावरूपतया तद्यावानकुण्ठ इति हृदयम् (?)॥

तत्रैकतः सोद्भेदो यथा—

‘गेह्ण पलोएह इमं विअसिअणअणा पिअस्स अप्पेइ।
घरिणी सुअस्स पढमुब्भिण्णदन्तजुअलङ्किअं बोरम्॥ १३८ ’

[गृहाण पर्यालोकयेमं विकसितनयना प्रियायार्पयति।
गृहिणी सुतस्य प्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम्॥]

अत्र सुतस्य दन्तोद्गमादहमुपभोगयोग्यास्मीति गृहिण्या एवमभिप्रायः प्रकर्षविकासितनयनतयोद्भिद्यते; न पुनः पत्युरित्येकतः सोद्भेदोऽयं भावः॥

अभितः सोद्भेदो यथा—

‘सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छन्तस्सवि पाए धुअइ हसन्ती हसन्तस्स॥ १३९॥’

[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावयति हसन्ती हसतः॥]

अत्र सालोक एव सूर्ये गृहपतेर्गृहागमनं गृहिण्याश्च यत्पादधावनं त्तदावाभ्यामद्य वेश्मनो न निर्गन्तव्यमिति भावः। स च द्वयोरपि हासेनाभित उद्भिद्यत इत्यभित्तः सोद्भेदोऽयं भावः॥

एकतो निरुद्भेदो यथा—

‘सालिवणगोविआए उड्डीयन्तीअ पूसविन्दाइम्।
सव्वङ्गसुन्दरी एवि पहिआ अच्छीइ पेच्छन्ति॥ १४०॥’

[शालिवनगोपिकाया उड्डाययन्त्याः शुकवृन्दानि।
सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते॥]

अत्रातिसौन्दर्येण देवीभ्रान्त्या शालिवनगोपिकामालोकयतां पथिकानां तदक्षिणिरीक्षणेऽयमभिप्रायः—‘शालिवनतिरस्कारेण देवमानुषयोर्विशेषभूतः पभ्द्यामेव भूमिस्पर्शो भूम्यस्पर्शो वा न लक्ष्यत इति तदक्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम्।’ इति सर्वाङ्गसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्भिद्यत इत्येकतो निरुद्भेदश्चायं भावः॥

“नेह केनचिदिति”। तथा चात्र शब्दान्तरस्य व्यापारो नास्तीत्यर्थः॥

अभितो निरुद्भेदो यथा—

‘गोलाअडट्ठिअं पेच्छिऊण गइबइसुअं हलिअसोह्वा।
आढत्ता उत्तरिउं दुक्खुत्ताराइ पअवीए॥ १४१॥’

[गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्नुषा।
आरब्धा उत्तर्तुं दुःखोत्तरया पदव्या॥]

अत्रागच्छन्तीं हालिकस्नुषां दृष्ट्वा गृहपतिसूनोर्गोदावरीतटे यदवस्थानम्, यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भस्तत्रायं तयोरभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः सम्पद्यतामिति। स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्भिद्यत इत्यभितो निरुद्भेदश्चायं भावः।

हृद्यं सूक्ष्मं च भिद्येत न हि भावात्कथञ्चन।
हृद्योदाहरणं तत्र तैरिदं प्रतिपाद्यते॥ ४४॥

‘हिअए रोसुग्घुण्णं पाअप्पहरं सिरेण पत्थन्तो।
णह उदओ(?) माणंसिणीए अ थोरं सुअं रुण्णम्॥ १४२॥’

अत्र हृदये रोषोद्धूर्णपादप्रहारं यदयं शिरसा प्रार्थितवान्, यच्च तयासौ न ताडितस्तत्र हृदये वल्लभा वसतीति भावः। स च प्रार्थनारोदनाभ्यामुद्भिद्यमानः सोद्भेदो भावो हृद्य इत्युच्यते॥

“हृद्यमिति”। अभिमतस्य वस्तुनो हृदयावच्छेदेन वृत्तिमतिसन्धाय प्रवृत्तिः। तत्र यद्यपि विशेषोऽस्ति तथापि भावसामान्यलक्षणाक्रान्तस्तत्रैवान्तर्भविष्यति॥

निरुद्भेदस्तु यो भावः स सूक्ष्मस्तैर्निगद्यते।
इङ्गिताकारलक्ष्यात्स सूक्ष्मात्स्याद्भूमिकान्तरम्॥ ४५॥

यथा—

‘कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीमिलत्॥ १४३॥’

अत्र वक्तुमक्षमतायामिङ्गिताकारयोरप्रतीयमानत्वाद् भावगतेर्भूमिकान्तरमिदं भवति।

ननु च सूक्ष्मः कथं पूर्वोक्तात्सूक्ष्माद्भिद्यत इत्यत आह—“इङ्गिताकारलक्ष्या- दिति”। कदा नौ सङ्गमो भावीत्यभिप्रायस्य व्यञ्जकं नेङ्गितं न विकारो वा कान्तस्य कश्चिदुपात्तः, अवेत्येत्यादिप्रकाशिताभिप्रायानुगुणा काचिदस्ति क्रिया वा। कथमन्यथा तमुद्दिश्य लीलापद्मनिमीलनं सङ्गच्छते। तस्मादन्यमेवेदं सूक्ष्मं भावलक्षणाक्रान्तम्॥

‘पद्मसम्मीलनाच्चात्र सूचितो निशि सङ्गमः।
आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम्॥ १४४॥’

अत्रानुकार्यानुकरणेऽपि भूमिकान्तरिते एव भवत इति सोऽयं निरुद्भेदो भाव एव सूक्ष्म इत्युच्यते।

उत्तरार्धस्योदाहरणं व्युत्पादयति—“अत्र पद्मसम्मीलनाच्चेति”। एवं चेत् प्राप्तमिङ्गितलक्ष्यत्वमत आह—“तत्र चेति”। आजानिकं पद्ममीलनमनुकार्यं कान्ताहस्ताङ्गुलीजनितमनुकरणं रात्रौ समागमो भविष्यतीति कान्तागतोऽभिप्रायः। न तु निमीलनमनुकार्याव्द्यभिचरितमेतमर्थमवबोधयतीत्यर्थः॥

प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते।
स्वानुभूतिभवं चैवमुपचारेण कथ्यते॥ ४६॥

ज्ञानसङ्गत्यनन्तरं प्रमाणरूपालङ्कारप्रस्तावस्तत्रान्येषां प्रमाणानां प्रत्यक्षमूलकत्वात् प्रथमं प्रत्यक्षलक्षणमाह—“प्रत्यक्षमिति”। साक्षात्कारः प्रत्यक्षमिति प्रसिद्धं तस्य विभागमाह—“अक्षजमिति”। अक्षं बहिरिन्द्रियं तस्माज्जातम्, मानसं बाह्येन्द्रियानपेक्षेण मनसा जनितम्। स्वानुभूतिः सहजा चिच्छक्तिस्तस्या उत्पन्नम्। शरीराभिघाताद्यभिभूते प्रत्याहारतिरस्कृते वा मनसि यत् कदाचिदतिस्फुटाभं ज्ञानमुत्पद्यते न तस्य मनोनिबन्धनता शक्यतेऽभिधातुमिति चिच्छक्तिमेवाश्रयते। ननु इन्द्रियजन्य एव लोके साक्षात्कारिताप्रसिद्धेः कथमनुभूतिभवं तथेत्यत आह—“उपचारेणेति”। यदीन्द्रियजन्ये साक्षात्कारितानियमस्तदोपचारेण परिगणनम्। अथ भावनादिबलेन विनापीन्द्रियं भवतीति पक्षस्तदा मुख्यत एवेति भावः॥

तत्राक्षजं द्विधा। युगपदेकशश्च। तयोर्युगपद्यथा—

‘क्रान्तकान्तवदनप्रतिबिम्बे मग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ १४५ ’

अत्र मदिराश्रयाणां मुखप्रतिबिम्बसौगन्ध्यस्वादुताश्रव्यत्वशैत्यानां दृग्घ्राणरसनश्रवणत्वगिन्द्रियप्रत्यक्षता प्रतीयते॥

“युगपदिति”। एकस्मिन्वाक्ये घ्राणरसनचक्षुस्त्वक्श्रोत्राणां पञ्चानामपि युगपत्प्रवृत्त्यभिधानाद्यौगपद्यं रसानुगुणतया यौगपद्याच्चमत्कारितामावहतीति द्विधाप्यलङ्कारकाण्डे परिसङ्ख्यानमुचितम्॥

एकशो यथा—

‘मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्म दधत्या।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव १४६ ’

तदेतच्चाक्षुषम्। एवं श्रावणादीन्यप्युदाहरणीयानि॥

मानसमपि द्विधा। सुखादिविषयमनुभूतार्थविषयं च। तयोः सुस्वादिविषयं यथा—

‘अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः।
एकक्षणत्रुटितसङ्घटितप्रमोद- मानन्दशोकशबलत्वमुपैति चेतः॥ १४७॥’

एतन्निगदेनैव व्याख्यातम्॥

“मानसमपि द्विधेति”। संयुक्तसमवायनियमितमेकमपरं तु संस्कारनियमितम्। संस्कारलक्षणया हि प्रत्यासत्त्या यथा स्मरणातिरिक्तं प्रत्यभिज्ञानं तथेदमपीति न किञ्चिदनुपपन्नम्॥ “निगदेनैवेति”। यदि विस्मयादीनयं न साक्षात्कृतवांस्तर्हि कथमुद्वेलतामाचक्षीतेत्यर्थः॥

अनुभूतार्थविषयं यथा—

‘पिहिते वासागारे तमसि च सूचीमुखाग्रसम्भेद्ये।
मयि च निमीलितनयने तथापि कान्तामुखं व्यक्तम्॥ १४८॥’

इदमपि नातिदुर्बोधमिति न व्याख्यातम्॥

“इदमिति”। व्यक्तमित्यनेन साक्षात्कारो दर्शितः। नहि स्मरणेन व्यक्तता भवति किन्तु आत्मन्येवावतिष्ठते। स्वानुभूतिमाश्रयत इत्यर्थः॥

स्वानुभूतिभवं द्विधा। मिथ्यात्मकममिथ्यात्मकं च। तयोर्मिथ्यात्मकं यथा—

‘अथ दीर्घतरं तमः प्रवेक्ष्यन्सहसा रुग्णरयः ससम्भ्रमेण।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने॥ १४९॥’

तदिदमिन्द्रियेषु मनसि चानवतिष्ठमानमात्मन्येवावतिष्ठते॥

अमिथ्यात्मकं यथा—

‘मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः।
यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान्॥ १५०॥’

अस्यात्मविषयता व्यक्तैव योगिभिरुद्गीयते॥

“योगिभिरिति”। निदिध्यासनबललब्धात्मनो ज्ञानस्य योगिमात्रे प्रसिद्ध- विषयत्वान्न ह्यस्मदादयस्तथा तं परिचिन्वन्ति यथा योगिन इत्यर्थः॥

अनुमानलक्षणमाह—

लिङ्गाद्यल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च यत्॥ ४७॥

“लिङ्गादिति”। यस्य येन सहाविनाभावलक्षणा व्याप्तिः सन्दिग्धसाध्यधर्मधर्मिरूपपक्षवृत्तितारूपा पक्षधर्मता च गृह्यते तस्मात्तस्य प्रतीतिरनुमानं यथा धूमाद्वह्नेः। स हि यथाविधे सिद्धस्तथाविधसन्निधानं सूचयति। तत्र यस्मात्प्रतीतिरुत्पद्यते तत् लिङ्गं चिह्नम्। व्याप्तिविशिष्टपक्षे धर्मतासञ्ज्ञापकमित्यर्थः। इतरलिङ्गं ज्ञापकमस्यास्तीति कृत्वा। पूर्ववच्छेषवत्सामान्यतोदृष्टभेदात्रिविधमनुमानमग्रे ग्रन्थकृतैव व्याख्यातमिति न वितन्यते॥

फलसामग्र्यभेदेन द्विधैतद्भिद्यते पृथक्।
उदाहरणमेवैषां रूपव्यक्त्यै भविष्यति॥ ४८॥

“फलसामग्र्येति”। यद्यपि ज्ञानमनुमानमित्युक्तं तथापि तस्य साधारणमेव क्वचिदनुपन्यासप्रधानं वाच्यम्, क्वचित्करणीभूतलिङ्गपरामर्शोपन्यासप्रधानमिति भवति यथोक्तो विशेषः। अनुमानशब्दो हि भावल्युडन्तः करणे ल्युडन्तो वा। आद्ये फलं द्वितीये सामग्र्यकरणमित्यर्थः। उपन्यासप्रधानता दुरूहेत्यत आह—“उदाहरणमेवेति”॥

तेषु यत्र कारणं दृष्ट्वा कार्यमनुमीयते तत्पूर्ववद्यथा—

‘प्रविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त हताः पथिकगेहिन्यः॥ १५१॥’

अत्र वर्षर्तोः कारणभूतात् कार्यभूतविरहिणीनां मरणमनुमीयते। तेनैतत्पूर्वं कारणमिहास्तीति पूर्ववदुच्यते॥

“कार्यभूतविरहिणीनामिति”। पथिकगेहिनीनां दशम्यवस्था ज्ञायमाना वाक्यार्थः। अतः फलोपन्यासदत्तभरमेवेदं काव्यमित्यभिप्रायः। आयातश्चेज्जलदागमस्तदा पूर्वप्रवृत्त इव पथिकनारीविनाशो लक्ष्यत इति निष्ठाप्रत्ययेन द्योत्यते॥

यत्र कार्यं दृष्ट्वा कारणमनुमीयते तच्छेषवद्यथा—

‘सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः।
कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम्॥ १५२॥’

अत्र यावकरसतिलकपङ्क्ते कार्यभूतायाः कारणभूतं पादपतनमनुमीयते। तेनैतच्छेषः कार्यमिहास्तीति शेषवदुच्यते॥

“कथमन्यथेति”। नेयमर्थापत्तिः; किन्तु तथाभूता नायकस्य ललाटेऽलक्तकबिन्दुविशेषपङ्क्तिः प्रमदापदावपातप्रतिबद्धेति। न चालक्तकबिन्दुपङ्क्तिज्ञानं तथा स्वदते यथा विपक्षचरणावनमनानुमेयस्य ज्ञानं फलभूतम्, तत्किल विपक्षगोचरामीर्ष्यां व्यञ्जयद्विप्रलम्भप्रकर्षं पुष्णाति॥

यत्र न कार्यं न कारणं केवलमविनाभावमात्रं प्रतीयते तत्सामा- न्यतो दृष्टं यथा—

‘गज्जन्ते खे मेहा फुल्ला णीवा पणद्दिआ मोरा।
णट्ठो चन्दुज्जोओ वासीरन्तो हला पत्तो॥ १५३॥’

[गर्जन्ति खे मेघाः फुल्ला नीपाः प्रनर्तिता मयूराः।
नष्टश्चन्द्रोद्दयोतो वर्षर्तुः सखि प्राप्तः॥]

अत्र वर्षर्तुरविनाभूतैर्मेघगर्जितादिभिः सामान्येनैवानुमीयत इति सामान्यतो दृष्टमिदम्। तान्येतानि भावसाधनेऽनुमानशब्दे फलपक्षे उदाहरणानि भवन्ति॥

“गज्जन्त इति”। अत्र समसमये मेघगर्जितादिभिः कालोपाधिभिरनुमानं तेन कार्यकारणभावः। अत्र हि न पृथङ्रमेघगर्जितादिज्ञानं तथा चमत्क्रारमावहति यथा वर्षारात्रिज्ञानप्रतिबद्धम्। स हि ज्ञातः केतककर्णपूरादिविदग्धनेपथ्यपरिग्रहौत्सुक्यं प्रवासिनायकागमनौत्सुक्यं वा जनयतीति फल एव भरः॥

यदा पुनः करणसाधनोऽनुमानशब्दस्तदानुमीयतेऽनेनेत्यनुमानशब्देन यथोक्तं लिङ्गमुच्यते। यदाह—

‘अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते।
तदभावे च यन्नास्ति तल्लिङ्गमनुमापकम्॥ १५४॥’

“अनुमेयेनेति”। अनुमेयेन पक्षेण तस्यैव साध्यवत्तयानुमेयत्वात्। यदाह—‘स एव चोभयात्मायं गम्यो गमक इष्यते। प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः॥’ इति। तदन्विते साध्यान्विते। प्रसिद्धं प्रकर्षेण सिद्धम्। व्याप्यतयाधिगतम्। तदभावे साध्याभावे। यतोऽनुमापकं ततो लिङ्गम्॥

तत्पूर्ववति यथा—

‘अइ सहि वक्कुल्लाविरि च्छुहिहिसि गोत्तस्स मत्थए छारम्।
अच्चन्तदत्तदिट्ठेण सामि वलिएण हसिएण॥ १५५॥’

[अयि सखि वक्रालापैश्छादयिष्यसि गोत्रस्य मस्तके भस्म।
अत्यन्तदत्तदृष्टेन सामि वलितेन हसितेन॥]

अत्रैवम्प्रकारया वक्रोक्त्या एवंविधेन हसितेनोपलक्षितत्वमग्रतो गोत्रं दूषयसीति कारणतो यत्र कार्यानुमानं तदिदं सामग्रीपक्षे पूर्ववदित्युच्यते॥

“पूर्ववतीति”। पूर्वं कारणमनुमापकं यस्यास्ति तत्पूर्ववल्लिङ्गं तस्मिन्। ननु मापयितव्ये लिङ्गज्ञानविषयतया पूर्वं कारणमाश्रयतीति पूर्ववत्। सोऽयमर्थः सप्तम्या द्योतितः। “कारणत इति”। यथाहि वक्र आलापो मुग्धाङ्गनाप्रकृत्यौचित्यागतं हसितं ध्वननशक्त्या विषयतया कान्तिमर्पयति न तथा शब्दाभिलपितं चारित्र्यखण्डनमिति साहित्यमुद्राविदामतिप्रकाशमेव॥

शेषवति यथा—

‘दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगन्धवहो।
एत्तं वसन्तमासो सहि जं उत्कण्ठिअं चेअम्॥ १५६॥’

[दृश्यते न चूतमुकुलमद्य न च वाति मलयगन्धवहः।
एति वसन्तमासः सखि यदुत्कण्ठितं चेतः॥]

अत्रोत्कण्ठालक्षणेन कार्येण वसन्तः कारणभूतोऽनुमीयत इति सामग्रीपक्षे इदं शेषवदित्युच्यते॥

“एत्तमिति”। चूतमञ्जरीमलयपवनयोरग्रे समुत्कण्ठितमत्र चमत्कारास्पदम्। तथाहि। यथा प्रियस्य सन्निधास्यतः सम्भावना लोकोत्तराभिमानप्रतिष्ठिता भवति न तथा सन्निधानमिति सहृदयसाक्षिकोऽयमर्थः। एवं सामान्यतो दृष्टोदाहरणे बोध्यम्॥

सामान्यतो दृष्टं यथा—

‘आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति।
निदाघसन्तप्तशिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव॥ १५७॥’

सेयं विद्युदिव दृष्टिं कामन्दक्यपि प्रथमत उपलभ्यमाना अविनाभावेन मालत्यागमनं गमयतीति सामग्रीपक्षे सामान्यतो दृष्टमेतत्॥

यदाप्तवचनं तद्धि ज्ञेयमागमसञ्ज्ञया।
उत्तमं मध्यमं चाथ जघन्यं चेति तत्रिधा॥ ४९॥

“यदाप्तवचनमिति”। आप्तो यथार्थशब्दवक्ता। उत्तमं श्रुतिमूलम्। अत एव तस्यावश्यानुष्ठेयत्वाभिधानम्। मध्यममनादिलोकव्यवहारमूलं तदेव नावश्यानुष्ठेयमित्यनेन प्रकाशयिष्यते। उभयविधाबहिःफलसंवादि जघन्यम्॥

तत्रोत्तमं द्विधा। विधिरूपं निषेधरूपं च। तयोर्विधिरूपं यथा—

‘दमं दानं दयां शिक्षेः स्तनयित्नुर्वदत्यसौ।
ददध्व इति वाग्दैवी दयध्वं दत्त दाम्यत॥ १५८॥’

अत्र चैषा दैवी वागनुवदति, यत् स्तनयित्नुर्ददध्व इति दयध्वं दत्त दाम्यतेति ‘तदेतत्त्रयं शिक्षेत दमं दानं दयाम्’ इति श्रुतेस्तदेतद्विधिरूपमाप्तवचनम्॥

“ददध्व इति”। जलदध्वनितनानानादस्यानुकरणं तत्त्रितयव्याजेन जलधरो वदति। दयध्वं दत्त दाम्यतेति दैवी वागतो दमदानदयाः कर्तव्या इति विधिः पर्यवस्यति। बुद्धीन्द्रियनियमो दमः। दानदये प्रसिद्धे। मूलभूतां श्रुतिं दर्शयति—“अत्र चैषेति”।

निषेधरूपं यथा—

‘निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् १५९’

अत्रोत्तरार्धोक्तनिषेधानुवादवर्धितव्युत्पत्तेर्वयस्याया योऽयमपवदमानबटुनिवारणोपदेशस्तस्य महान्तो नापभाषितव्या इति वाक्यार्थे तात्पर्यादयं निषेधरूप आगमः। तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम्॥

ननु ऽन केवलं यो महतोऽपभाषतेऽ इत्यादि वर्तमानापदेशात्कथं विधित्वमत आह—“अत्रोत्तरार्धेति”। अपभाषणस्य निन्दार्थवादेन निषेधविधिः कल्प्यते, तेन महान्तो नापभाषितव्या इति वचनव्यक्तिरुन्नीयत इति॥

मध्यमं द्विधा। निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकं च। तयोराद्यं यथा—

‘कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥ १६०॥’

अत्र जीवन्नरः पश्यति भद्रमित्ययमेवार्थो निर्दिष्टवक्तृकस्तदेतत्सर्वावाक्यानां विधिनिषेधयोः पर्यवसानात् प्राणेषणायां यतितव्यमिति विधिरूपमाप्तवचनम्॥

“अत्र जीवन्नर इति”। एषा चिरन्तनी लोकगाथा। तन्मूलत्वं ‘एति जीवन्तम्-’ इत्यादेरागमस्य। अत्रापि प्राग्वदेव स्तुत्यर्थवादेन जीवनाय यतितव्यमिति विधिः कल्प्यते। तदिदमुक्तं सर्ववाक्यानामिति॥

द्वितीयं यथा—

‘अक्षे वसति पिशाचः पिचुमन्दे दिनपतिर्वटे यक्षः।
विश्राम्यति पद्मे श्रीस्तिष्ठति गौरी मधूकतरौ॥ १६१॥’

तदिदमनिर्दिष्टवक्तृकमनादिलोकप्रसिद्धिपरम्परायातमैतिह्यम्। अत्रापि सर्ववाक्यानां विधिनिषेधयोः पर्यवसानात्—‘तस्मादक्षं न सेवेत, पिचुमन्दं न कृन्तेत, वटं न छिन्द्यात्, पद्मं न मूर्ध्नि बिभृयात्, मधूकं न पदा स्पृशेत्’ इत्यध्याहारो भवति। सोऽयं निषेधरूप आगमः। उभयमप्येतन्नावश्यानुष्ठेयमिति मघ्यमम्॥

“तदिदमनिर्दिष्टवक्तृकमिति”। एतेनैतिह्यमागम एवान्तर्भूतमिति दर्शितम्; अज्ञातवक्तृकस्यागमस्यैव तथा प्रसिद्धेरिति। “अत्रापीति”। पिशाचवासादिभिरनुवादैः पूर्ववद्विधयः कल्प्यन्ते॥

जघन्यं द्विधा। काम्यं निषिद्धं च। तयोः काम्यं यथा—

‘मुण्डइआचुण्णकसाअसाहिअं पाणणावणविईणम्।
तेलं पलिअत्थणीणंवि कुणेइ पीणुण्णए थणए॥ १६२॥’

[मुण्डितिकाचूर्णकषायसाधितं पाननावनवितीर्णम्।
तैलं पतितस्तनीनामपि करोति पीनोन्नतौ स्तनौ॥]

तदेतत्पूर्ववद्विधिरूपं काम्यमाप्तवचनम्॥

“मुण्डइआ इति”। मुण्डितिका अलम्बुसा। कषायः क्वाथो जलम्। नावनं नस्यम्। काम्यमिति। पीनोन्नतस्तनकामनावतीभिरेव क्रियमाणत्वात्॥

निषिद्धं यथा—

‘वयं बाल्ये बालांस्तरुणिमनि यूनः परिणता- वपीच्छामो वृद्धान्परिणयविधौ नः स्थितिरियम्।
त्वयारब्धं जन्म क्षपयितुम‘मनेनैकपतिना’ इति पाठः पुस्तकान्तरेकाण्डेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्॥ १६३॥’

तदेतन्निषेधरूपं निषिद्धमेवाप्तवचनम्। उभयमपि चैतन्मूलकारिभिः संसृज्येतेत्यादिदोषान्नानुष्ठेयमिति जघन्यम्॥

त्वयारब्धमित्यादौ गणिकया सतीचारित्र्यवत्या न भवितव्यमिति स्फुटो निषे- धविधिर्जघन्यत्वं व्याचष्टे—“उभयमपि चैतन्मूलकारिभिरिति”॥

सदृशात्सदृशज्ञानमुपमानं द्विधेह तत्।
स्यादेकमनुभूतेऽर्थेऽननुभूते द्वितीयकम्॥ ५०॥

“सदृशादिति”। इह मीमांसका वर्णयन्ति। उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति। अस्यार्थः। सादृश्यं सादृश्यज्ञानम्। ज्ञायमानसादृश्यमिति यावत्। तदेवोपमानं कुत इत्यत आह। असन्निकृष्टे सदृशान्तररूपेऽर्थे यतो बुद्धिमुत्पादयति तेन भवति सदृशात्सदृशप्रतिपत्तिरुपमानम्। न सदृशादननुभूतज्ञानमुत्पद्यते; अतिप्रसङ्गात्। तेनेदमनुभूतविषयमेव। नैयायिकानां तु अननुभूतविषयमेवोपमानम्। तथाहि—नागरिकेण यदा आरण्यकः पृष्ट आचष्टे ‘यथा गौस्तथा गवयः’ इति। तदा खलु नागरिकस्यातिदेशवाक्यार्थमनुस्मरतो गां च सादृश्यप्रतियोगिनं जानतो यद्गवये गोसादृश्यज्ञानं तदुपमानं प्रमाणं; तेनायं गवयशब्दवाच्य इति सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानं पश्चादुपजन्यते सोपमितिरिति। तत्र सदृशाद्बुद्धौ विपरिवर्तमानाद्यत्सदृशज्ञानं सदृशे गवये सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमित्यर्थः। उदाहरणादिकं निगदव्याख्यातम्॥

तयोरनुभूतविषयं यथा—

‘सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष- स्तत्सङ्घट्टाद्विघटितबृहत्खण्डमुच्चण्डरोचिः।
एवं वेगात्कुलिशमकरोद्व्योम विद्युत्सहस्रै- र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः॥ १६४॥’

अत्र रामकराकृष्यमाणभग्नधूर्जटिधनुर्विमुक्तज्योतिश्छटासहस्रसङ्कुलमाकाशं पश्यतो रावणदूतस्येयं स्वयं दृष्टेषु प्रभुवक्षःस्थलविदीर्णवज्रशकलविस्फूर्जथुषु तद्रोषाट्टहासेषु वियद्व्यापिषु तत्सादृश्यबुद्धिस्तदिदमनुभूतविषयं नामोपमानं मीमांसका वर्णयन्ति॥

अननुभूतविषयं यथा—

‘तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले।
समूहस्तारकाणां यः शकटाकारमाश्रितः॥ १६५॥’

अत्र यथाविधः शकटाकारस्तथाविधो रोहिणीतारकासमूहाकार इत्येवमवधारिताप्तोपदेशस्य तदाकारतारकाचक्रदर्शनादिदं तद्रोहिणीश-कटमिति येयं सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिस्तदिदमननुभूतविषयमुपमानं नैयायिकाः समुन्नयन्ति॥

तदाभूतार्थविज्ञानजनकत्वेन हेतुना।
नास्मादभिनयालेख्यमुद्राबिम्बादयः पृथक्॥ ५१॥

तेष्वभिनयो यथा—

‘वइविवरणिग्गअदलो एरण्डो साहइ व्व तरुणाणम्।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ॥ १६६॥’

[वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः।
अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति॥]

अत्र पयोधरातिपरिणाहसूचकोत्तानप्रसारिताङ्गुलिहस्ताभिनयसन्निभैरण्डदलसन्निवेशनात्खयमुद्दिष्टेऽपि हालिकवधूस्तनपरिणाहे पूर्वानुभूतैवंविधस्तनपरिणाहसम्बन्धप्रतिपत्तिस्तदिदमनुभूतार्थविषयमुपमानमेवाभिनय इत्युत्प्रेक्ष्यते॥

“वइविवरेति”। ग्रामतरुणैरनन्यबद्धान्तःकरणैर्हालिकवधूस्तनाभोगो मुसलोल्लासनादौ वारंवारमनुभूतः स तुल्याकारधृतविवरप्रसूनैरण्डदलदर्शनादेव बुद्धिमारोहतीति सा बुद्धिर्मीमांसकोपमितिमध्यमध्यास्ते। कथमेरण्डदलसन्निवेशस्याभिनेयता। अनुकारो ह्यभिनयः। न चासौ तत्र सम्भवति। अत आह—“हस्ताभिनयसन्निभेति”। उत्तानप्रसारिताङ्गुलिहस्तसन्निवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाप्येरण्डदलविस्तारदर्शनात्तदन्तरितमेव जायत इत्यर्थः॥

आलेख्यं यथा—

‘तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमधः।
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति॥ १६७॥’

अत्र यदानुभूतनायकसन्दर्शनायास्तद्रूपालेख्यप्रदर्शनादेवम्भूतः स इति विज्ञानमुत्पद्यते, गोपनार्थं च तथाभूतयोरेव देवकुलादिदृष्टविष्णुकामयोः प्रतीतिर्भवति, तदैतदनुभूतार्थविषयं भवति। यदा पुनरननुभूतनायकादिसन्दर्शनाया इत्थमाप्तोपदेशः। एवम्भूतः सुपर्णकेतुश्चक्रपाणिर्विष्णुर्भवति, एवम्भूतो मकरध्वजः पुष्पचापः कामो भवति, यादृशाविमौ तादृशश्च ते मनोरथभूमिः; केवलमस्य गरुत्मदादयो न विद्यन्ते। तदा तदुत्तरकालमालेख्यगततदाकारदर्शनात् सोऽयं मम प्रेयानिति मद्विधया कयापि लिखितो भविष्यतीति तद्गोपायाम्येनं विष्णुचिह्नाभ्यामिति गरुत्मच्चक्रे अधःप्रदेशहस्तयोः केतुहस्तयोर्निवेशयति। अथापरा प्रतिविधित्सुर्गोपायन्ती प्रकाशयन्ती च प्रत्यासन्नोपमानं मन्मथाकारमाचिख्यासुः करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति। अत्राकृतौ पदार्थे या इमास्तयोर्लोकानां सोऽयमिति विष्णुरिति काम इति च सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तयस्तदिदमनुभूतार्थविषयमुपमानमालेख्यमाख्यायते॥

“तवालेख्य इति”। तदप्राप्तिकर्शिता चित्रप्रतिमादिना परिनोदनेन कथञ्चिदात्मानं धारयतीति तन्वीपदेन ध्वन्यते। न च जीवितमात्रार्थिनी सा किन्तु त्वदाकृतिदर्शनकुतूहलेनोद्विग्ना सती निगूढमप्यभिप्रायमालेख्यनिर्माणेन व्यनक्तीति कौतूहलतरंलपदाभ्यां व्यज्यते। “एकेति”। या राधादिप्रणयपात्रं वशीकृतत्रिभुवनमाजानसुकुमारं देवकीनन्दनमागमेषु बहुधाश्रौषीत्। “अथेति”। सा निर्यन्त्रणप्रार्थनीयताविरोधिनं देवताभावमनुसन्धत्ते, तया त्रैलोक्यातिशायिसौभाग्यप्रकर्षस्य पुष्पेषोश्चिह्नभूतौ चापमकरौ लिखिताविति, अथ स्विद्यत्पाणिस्त्वरितमित्येतेर्व्यज्यते। अत्रोदाहरणे द्विविधमप्युपमानं दर्शयति। तत्र मीमांसकपक्षे तावत्तन्व्यालेख्यमुन्मृदितं दृष्ट्वा काचिदनुभूतपूर्वं नायकं जानाति। सादृश्याविशेषाच्च कृष्णकामावपि प्रत्येति तदा सदृशात्प्रतियत्तिरुपमानं भवति। नैयायिकपक्षे यदा सामान्यतो नायकागमे उत्पन्नपूर्वानुरागाया विशेषतश्च प्रत्यङ्गलावण्यमजानन्त्या इत्थम्भूताकारौ कृष्ण कामौ यादृशौ तादृशस्तव प्रेयानित्याप्तोपदेशश्नबणानन्तरं गृहीत-चित्राकारायास्तत्तच्छब्दाभिधेयताप्रतिपत्तिरुपमानमिति। कथं चित्रे कामादिपदप्रयोग इत्यित आह—“आकृताविति”। रेखोपरेखादिसन्निवेशे चित्रतुरगन्यायेनेति भावः॥

मुद्रा यथा—

‘सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि॥ १६८॥’

अत्र चक्रध्वजाङ्कितजिष्णुपादमुद्रादर्शनात्सेयममानुषी पादमुद्रा भवतीति सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिस्तदिदमननुभूतार्थविषयमुपमानमेव मुद्रेत्युच्यते। यदपि चादृष्टेऽपि जिष्णुपदे मृगीदृशामीदृशः स इत्यनुमानज्ञानं तदप्युपमानार्थनिबन्धनमेव। यदाह—

‘अपि चास्त्यनुमानेऽपि सादृश्यं लिङ्गलिङ्गिनोः।
पदेन यत्र कुब्जेन कुब्जपादोऽनुमीयते॥ १६९॥’

“सचकितेति”। ननु चरणमुद्रया जिष्णुचरणानुमानमत्र प्रतिभाति तत्कथमुपमानेऽन्तर्भाव इत्यत आह—“यदपि चेति”। अत्राविशेषस्य चरणविशेषप्रतिबन्धे सत्यपि सदृशात्सदृशज्ञानमुत्पन्नं [त्कटं] तादृशेन च व्यपदेशो भवतीत्यर्थः। एतदेव दार्वाचार्यसम्मत्या द्रढयति—“अपि चेति”।

प्रतिबिम्बं यथा—

‘दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया॥ १७०॥’

अत्र यदा तावदेवं सम्बन्धग्रहः कीदृशं स्वं मुखं यादृशमादर्शे प्रतिबिम्बं तदालोकनाददृष्टेऽपि स्वमुखे येयमीदृशं मे मुखमिति प्रतिपत्तिस्तदिदमनुभूतार्थविषयम्। यदा पुनरित्थमाप्तोपदेशाद्यादृशं वस्तु तादृशमादर्शादौ प्रतिबिम्बं तदापि प्रियप्रतिबिम्बालोकनादिदं तन्मम प्रियप्रतिबिम्बमितीयं सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिस्तदप्यननुभूतार्थविष-यम्। यदा तु चित्रादिष्वनुभूतस्वमुखदर्शनायाः प्रतिबिम्बदर्शनादनेन सदृशं मे मुखमिति प्रतिपत्तिर्दृष्टप्रियतमाकारायाश्च प्रतिबिम्बाकारदर्शनादेतदाकारो मम प्रेयानिति प्रतिपत्तिः प्रतिबिम्बसन्निधौ प्रतिबिम्बोदयो दृष्टस्तदिह सन्निहितेन तेन भवितव्यमिति यो व्रीडाविकारभूतस्तदानुभूतविषयमेतदुपमानं प्रतिबिम्बमित्याचक्षते॥

“प्रतिबिम्बसन्निधाविति”। प्रसङ्गाद्यदर्थमनुमानं व्याख्यातं तद्दर्शयति—“व्रीडाविकार इति”। अतएव प्रधानमात्रस्योपसंहारः॥

‘प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते।
अर्थान्तरं च गमयत्यर्थापत्तिं वदन्ति ताम्॥ ५२॥’

अर्थापत्तिं लक्षयति—“प्रत्यक्षादीति”। प्रमाणप्रतीतस्यार्थस्यान्यथाकरणानुपपत्तिज्ञानेन प्रसूतं ज्ञानमर्थापत्तिः। अनुपपद्यमानार्थप्रत्यायकं च प्रमाणं प्रत्यक्षादिभेदात् षट्प्रकारम्। ततस्तत्पूर्वार्थापत्तिरपि षोढा सम्पद्यते, यदर्थान्तरं गमयति तामर्थापत्तिं वदन्तीति। अर्थान्तरगतिरेवार्थापत्तिरिति व्यक्तम्॥

सर्वप्रमाणपूर्वत्वादेकशोऽनेकशश्च सा।
प्रत्यक्षपूर्विकेत्यादिभेदैः षोढा निगद्यते॥ ५३॥

“एकश इति”। एकश एकप्रमाणपूर्वा। अनेकशोऽनेकप्रमाणपूर्वा। कथं तर्हि षोढा। अत उक्तम्—“प्रत्यक्षपूर्विकेत्यादिभेदैरिति”। व्याख्यातमेतत्॥

तास्वेकशः प्रत्यक्षपूर्विका यथा—

‘निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः॥ १७१॥’

अत्र स्तनभरनितम्बयोर्मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथानुपपद्यमाना धारकं मध्यमनुपलभ्यमानं बोधयति। सेयं प्रत्यक्षपूर्विकार्थापत्तिरेकश एवेह विवक्षिता। इयमपि ह्येवं बहुशो भवति यत्तदर्थापत्तिलब्धं मध्यं तदपि धारणशक्तिमन्तरेण तत्कर्मासमर्थमिति तस्यपि शक्तिः कल्प्यते। सेयमर्थापत्तिपूर्विकार्थापत्तिः। यश्चायमर्थापत्तिविकल्पस्य मध्यस्योपलम्भाभावः सोऽपि प्रकारन्तरेणासम्भवन् कान्तिकार्श्ययोरुत्कर्षं ब्रूते। सा चेयमभावपूर्विकानुपपत्तिर्भवति। न चैतदिह शाब्दमपि तु वाक्यार्थ- सामर्थ्याद्गम्यते॥

“अत्र स्तनभरेति”। स्तनभरस्थितिः प्रत्यक्षगृहीता सा चाधारमन्तरेणानुपपद्यमाना मध्यं कल्पयति। सा च कल्पनार्थापत्तिः। “अनुपलभ्यमानमिति”। अन्यथा प्रत्यक्षगृहीतेऽर्थे किमर्थापत्त्या। अत्रैवोदाहरणेऽनेकशो व्याख्यातुं शक्यत इत्याह—“इयमपीति”। शक्तिर्मीमांसकनये नित्यातीन्द्रिया, अभावोऽभावेनैव गृह्यत इति मध्यानुपलम्भोऽभावप्रमाणपूर्वकः। “कान्तीति”। अद्भुतप्रभावतिरस्कृतं हि नयनमासन्नमपि न मध्यग्रहणसमर्थमिति भावः॥

प्रत्यक्षादिपूर्विका अनेकशः यथा—

‘एतदालोक्य लोलाक्षि रूपमप्रतिमं तव।
कल्पयामः कलातत्त्वगुरुतामादिवेधसः॥ १७२॥’

तत्रेदं रूपमप्रतिमं तवेति प्रत्यक्षपूर्वता अभावपूर्वता च व्यक्तमेव प्रतीयते। तेनेयमनेकशः। अत्रापि येयं रूपस्याप्रतिमतान्यथानुपपद्यमाना कलातत्त्वगुरुविनिर्मितत्वमात्मनोऽवस्थापयति सोर्वश्यहल्यादिरूपोपमानज्ञानपूर्विका, या तत्कर्तुरर्थापत्तिकल्पिता कालातत्त्वगुरुता सापि तथाविधशक्तिकल्पनापूर्विकेत्युपमानपूर्विकार्थापात्तिपूर्विका चेयमर्थापत्तिः। सापि तत्कर्तुर्वेधसः कलातत्त्वगुरुता तथाभूतशक्त्याधारता वा, साप्यनुमानत आगमतो वाज्ञस्य कल्प्यत इत्यनुमानपूर्विका चेयमर्थापत्तिः। न चैतच्चतुष्टयमिहापि शाब्दमपि तु वाक्यार्थसामर्थ्याद्गम्यते॥

“अप्रतिममिति”। प्रतिमाशून्यं रूपं विशिष्टमेव तत्र विशेषणांशेऽभावस्य व्यापारः, विशेष्यांशे प्रत्यक्षस्य। पूर्ववदिहापि व्याख्यानमाह—“अत्रापीति”। प्रतिमाभावज्ञानं प्रतिमाज्ञानपूर्वकम, प्रतिमा च सादृश्यं, तच्च सहशब्दद्वयदर्शनवेद्यामित्यस्ति पूर्वमुपमानम्॥

एकशोऽनुमानपूर्विका यथा—

‘कपोलपुलकेनास्यः सूचितो मदनज्वरः।
मनो निरन्तरासक्तं सख्यः कथयति प्रिये॥ १७३॥’

अत्र योऽयं कपोलपुलकानुमीयमानो मनोभवज्वरः स मनसः प्रिये निरन्तरासक्तिमन्तरेणानुपपन्न इत्यनुमानपूर्विकेयमर्थापत्तिः॥

अनेकश उपमानादिपूर्विका यथा—

‘त्वदास्येन्दू समौ दृष्ट्वा तदिदं कल्पयामहे।
अन्योन्यगामिलावण्यमनयोरेव केवलम्॥ १७४॥’

अत्र त्वदास्येन्दू समौ दृष्ट्वेत्युपमानपूर्वकता अर्थापत्तेः प्रत्यक्षपूर्वता च शब्दत एव प्रतीयते। या च मिथः सादृश्यानुपपत्तिलभ्या लावण्यान्योन्यगामिता सापि तथाविधं विधातारमन्तरेण न सङ्गच्छत इत्यादीहापि पूर्ववद्वाक्यार्थसामर्थ्यतोऽवगन्तव्यम्॥

एकशोऽभावपूर्वा यथा—

‘एतदास्यं विना हास्यं निवेदयति सुभ्रुवः।
प्रियापराधदण्डनां मनो भाजनतां गतम्॥ १७५॥’

अत्र सुभ्रुव इत्यनेन विलासवत्याःसमस्तप्रशस्तलक्षणयोगो लक्ष्यते। तथाविधायाश्च वक्रविलासहासस्याभावोऽनुपपद्यमानः शोकव्यतिरिक्तमात्मकारणं कल्पयतीत्यभावपूर्विकेयमर्शपत्तिः॥

हास्यभावस्यान्यथाप्युपपत्तेः कथमर्थापत्तिरित्यत आह—“अत्र सुभ्रुव इति”॥

अनेकशोऽर्थापत्त्यादिपूर्विका यथा—

‘दृष्ट्वा विभ्रमिणीमेतां विद्मो लीलागुरुं स्मरम्।
स्मरं च मृगशावाक्ष्या मनस्यस्याः कृतास्पदम्॥ १७६॥’

अत्र विभ्रमिणीमिति प्रशंसायां मत्वर्थीयस्तेन विभ्रमाणामुत्कर्षो लक्ष्यते। ते चान्योपदेशादसम्भवन्तो मन्मथमुपाध्यायं बोधयन्ति। तस्याग्रतः पार्श्वतो वानुपलभ्यमानस्य तन्मनस्यवस्थानं लक्ष्यते। सेयमाद्या प्रत्यक्षपूर्विका द्वितीया चार्थापत्तिपूर्विकार्थापत्तिर्भवति। इयमेव च मनोभूर्मनसि कामिनीनां सम्भवतीत्याप्तोपदेशादागमपूर्विकापि भवति॥

इत्थमेवान्यथोपपत्तिमाशङ्क्याग्रे व्याचष्टे—“अत्र विभ्रमिणीमिति”। मत्व- र्थीयार्थमाह—“प्रशंसायमिति”॥

असत्ता या पदार्थानामभावः सोऽभिधीयते।
प्रागभावादिभेदेन स षड्विध इहेष्यते॥ ५४॥

अभावं लक्षयति—“असत्तेति”। प्रागसत्त्वमुत्तरासत्त्वमित्यसत्तारूपेणैव प्रागभावादयो व्यवतिष्ठन्ते इतरेतराभावेऽप्यन्यरूपतयान्यस्याभाव इत्यसत्तात्मकत्वम्। प्रागभावादयः पूर्वोदिताश्चत्वारः। अत्यन्ताभावविशेषसामान्याभावाभ्यां सह षडभावाः। तयोर्विशेषमग्रे वक्ष्यामः॥

तेषु प्रागभावो यथा—

‘सग्गं अपारिजाअं कोत्थुहलच्छीविरहिअं महुमहअस्स उरम्।
सुमरामि महणपुरओ अमुद्धचन्दं च हरअडापब्भारम्॥ १७७॥’

[स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः।
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम्॥]

“सग्गं अपारिजाअमिति”। निगदव्याख्यातः प्रागभावः। यथा अभावपूर्विकायामर्थापत्तौ करणं भेदानुमानमुक्तं तथात्रापि बोद्धव्यम्। पारिजातप्रागभावस्य प्रमेयरूपता व्यक्तैव। अभावोऽभावेनैव प्रतीयत इति। दर्शने तत्करणतया शब्दा नुपात्तोऽपि योग्यप्रमाणभावोऽवगम्यते। एवमुत्तरेष्वपि स्वयमूहनीयम्॥

प्रध्वंसाभावो यथा—

‘धृतिरस्तमिता गतिश्च्युता विगतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ १७८॥’

इतरेतराभावो यथा—

‘कर्णोत्पलं न चक्षुस्ते न चक्षुः श्रवणोत्पलम्।
इति जानन्नपि जनो मन्यते नेत्रदीर्घताम्॥ १७९॥’

अत्यन्ताभावो यथा—

‘जं जस्स होइ सारं तं सो दइत्ति किमत्थ अच्छेरम्।
अणहोत्तं वि हु दिण्णं तइ दोहग्गं सवत्तीणम्॥ १८०॥’

[यद्यस्य भवति सारं तं स ददाति किमत्राश्चर्यम्।
अभवदपि खलु दत्तं तया दौर्भाग्यं सपत्नीनाम्॥]

अन्ये पुनरन्यथा अत्यन्ताभावमाचक्षते। यता—

‘प्रसीद सद्यो मुञ्चेमं चण्डि मानं मनोगतम्।
दृष्टमात्रेऽपि ते तत्र रोषः खकुसुमायते॥ १८१॥’

स्थानान्तरप्रमितस्य स्थानान्तरे त्रैकालिकोऽभावविशेषोऽत्यन्ताभाव इति दर्शनमाश्रित्य चतुष्टयमध्यपाती तावदत्यन्ताभाव उदाहृतः। इदानीं पञ्चमाभावोचितविशेषमत्यन्ताभावं दर्शयति—“अन्ये पुनरिति”। अन्ये सौगतादयः। अत्यन्तासत्प्रतियोगिकोऽभावोऽत्यन्ताभावः। यथा खपुष्पस्याभाव इत्युदाहरणं स्फुटम्॥

सामर्थ्याभावो यथा—

‘मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातले॥ १८२॥’

त एते षडपि निगदैरेव व्याख्याताः॥

सामर्थ्याभावो योग्यताभावः। अनेनैव रूपेण स रसतामासादयन्नुपात्तः॥

अभावाभावोऽप्यभाव एव। तत्र प्रागभावप्रध्वंसो यथा—

‘उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी।
देयः पथिकनारीणां सतिलः सलिलाञ्चालिः॥ १८३॥’

“अभाव एवेति”। अभावव्यवहारपात्रमेव तथाभूतस्यैव लक्षणमित्युक्तं पुरस्तात्॥

प्रध्वंसप्रागभावो यथा—

ऽन मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वलभो जनः।

प्रध्वंसध्वंसो यथा—

निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवित एव जीवति॥ १८४॥’

वल्लभजनमरणं प्रध्वंसः स नञा निषिध्यते स तु निषेधः प्रागसत्त्वरूप एव। मृतः स चेदिति मरणोत्तरमभावो भवत्प्रध्वंसो भवति स चासम्भवन्नपिशब्देन सम्भाव्यमानः कान्तिकारणं भवतीत्यलङ्कारकक्षामारोहति॥

प्रध्वंसप्रागभावप्रध्वंसो यथा—

‘नामिलितमस्ति किञ्चित्काञ्चीदेशस्य सर्वथा नाथ।
प्रसरतु करस्तवायं प्रकृतिकृशे मध्यदेशेऽपि॥ १८५॥’

“प्रध्वंसप्रागभावप्रध्वंस इति”। मरणेन प्रध्वंसनं तस्याभावः समस्तेन न जातस्याप्यभावो भिन्नेन प्रतिपादितः॥

प्रध्वंसस्य प्रध्वंसाभावो यथा—

‘एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव।
को नाम पाकाभिमुखस्य जन्तोर्द्वाराणि दैवान्यपिधातुमीष्टे॥ १८६॥’

“प्रध्वंसस्य प्रध्वंसामाव इति”। कथमपीत्यनेन प्रवासे दशम्यवस्था कटाक्षिता तस्यात्ययः प्रध्वंसप्रध्वंसः। पुनः सङ्गममित्यनेन तस्यापि प्रध्वंसः। सुबोधमन्यत्॥

इतरेतराभावाभावो यथा—

‘शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुनि नियुङ्क्ष्व कामतः।
त्वत्प्रयोजनधनं धनञ्जयादन्य एष इति मां च मावगाः॥ १८७॥’

अत्यन्ताभावस्य सामर्थ्याभावस्य च प्रध्वंसाभावो यथा—

‘अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री।
तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायः॥ १८८॥’

एते नातिदुर्बोधा इति न व्याकृताः॥

उक्तार्थालङ्काराणां सङ्ख्यामाह—

अर्थालङ्कृतयोऽप्येताश्चतुर्विंशतिसङ्ख्यया।
कथिता काव्यविज्ञानां चित्तप्रह्लादहेतवे॥ ५५॥

“अर्थालङ्कृतय इति”। स्पष्टम्॥

श्रीरामसिंहदेवाज्ञामादाय रचितो मया। दर्पणाख्यः सदा तेन तुष्यतां श्रीसरस्वती॥ रत्नेश्वरो नाम कवीश्वरोऽसौ विराजते काव्यसुधाभिषेकैः। दुस्तर्कवक्राहतदुर्विदग्धां वसुन्धरां पल्लवयन्नजस्रम्॥ अद्य स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम्। मयि ब्रह्ममनोवृत्तौ कुर्वाणे रत्नदर्पणम्॥ इति श्रीमन्महाराजश्रीरामसिंहेन महामहोपाध्यायमनीषिरत्नेश्वरेण विरचय्य प्रकाशिते दर्पणाख्ये सरस्वतीकण्ठाभरणविवरणेऽर्थालङ्कारस्तृतीयः परिच्छेदः समाप्तः॥

इति श्रीमहाराजाधिराजश्रीमद्भोजराजविरचिते सरस्वतीकण्ठा भरणनाम्न्यलङ्कारशास्त्रेऽर्थालङ्कारस्तृतीयः परिच्छेदः।