प्रथमा
प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा – २.३.४६ । नियतोपस्थितिकः प्रातिपदिकार्थः । मात्र-शब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थ-मात्रे लिङ्ग-मात्राद्याधिक्ये संख्या-मात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियत-लिङ्गाश् च प्रातिपदिकार्थ-मात्र इत्यस्योदारहणम् । अनियत-लिङ्गास् तु लिङ्ग-मात्राद्याधिक्यस्य – तटः, तटी, तटम् । परिमाण-मात्रे – द्रोणो व्रीहिः । द्रोण-रूपं यत्-परिमाणं तत्-परिच्छिन्नो व्रीहिर् इत्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थो ऽभेदेन संसर्गेण विशेषणम्, प्रत्ययार्थस् तु परिच्छेद्य-परिच्छेदक-भावेन व्रीहौ विशेषणम् इति विवेकः । वचनं संख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद् विभक्तेर् अप्राप्तौ वचनम् ।
संबोधने च – २.३.४७ । इह प्रथमा स्यात् । हे राम ।
द्वितीया
कारके – २.४.२३ । इत्यधिकृत्य ।
कर्तुर् ईप्सिततमं कर्म – १.४.४९ । कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्म-संज्ञं स्यात् । ‘कर्तुः’ किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । तमब्-ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । ‘कर्म’ इत्यनुवृत्तौ पुनः कर्म-ग्रहणम् आधार-निवृत्त्यर्थम् । अन्यथा गेहं प्रविशति इत्यत्रैव स्यात् ।
अनभिहिते – २.३.१ । इत्यधिकृत्य ।
कर्मणि द्वितीया – २.३.२ । अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि ‘प्रातिपदिकार्थ-मात्रे’ इति प्रथमैव । अभिधानं तु प्रायेण तिङ्-कृत्-तद्धित-समासैः । तिङ्, हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः । तद्धितः, शतेन क्रीतः शत्यः । समासः, प्राप्त आनन्दो यं स प्राप्तानन्दः । क्वचिन्-निपातेनाभिधानम् । यथा – ‘विष-वृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ।’ साम्प्रतम् इत्यस्य हि युज्यत इत्यर्थः ।
तथा-युक्तं चानीप्सितम् – १.४.५० । ईप्सिततमवत्-क्रियया युक्तम् अनीप्सितम् अपि कारकं कर्म-संज्ञं स्यात् । ग्रामं गच्छंस् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ।
अकथितं च – १.४.५१ । अपादान-आदि-विशेषैर् अविवक्षितं कारकं कर्म-संज्ञं स्यात् ।
दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् । कर्म-युक् स्याद् अकथितं तथा स्यान्-नी-हृ-कृष्-वहाम् ॥
‘दुहादीनां द्वादशानां तथा नी-प्रभृतीनां चतुर्णां कर्मणा यद् युज्यते तद् एवाकथितं कर्म’
[[P71]]
इति परिगणनं कर्तव्यम् इत्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलान् ओदनं पचति । गर्गाञ् छतं दण्डयति । व्रजम् अवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षम् अवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीर-निधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्रामम् अजां नयति, हरति, कर्षति, वहति वा । अर्थ-निबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते, अभिधत्ते, वक्तीत्यादि । ‘कारकम्’ किम् ? माणवकस्य पितरं पन्थानं पृच्छति । ‘अकर्मक-धातुभिर् योगे देशः कालो भावो गन्तव्यो ऽध्वा च कर्म-संज्ञक इति वाच्यम्’ (वा ११०३-११०४) । कुरून् स्वपिति । मासम् आस्ते । गोदोहम् आस्ते । क्रोशम् आस्ते ।
गति-बुद्धि-प्रत्यवसानार्थ-शब्द-कर्माकर्मकाणाम् अणि कर्ता स णौ – १.४.५२ ।
गत्याद्यर्थानां शब्द-कर्मणाम् अकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।
शत्रून् अगमयत् स्वर्गं वेदार्थं स्वान् अवेदयत् ।
आशयच् चामृतं देवान् वेदम् अध्यापयद् विधिम् ।
आसयत् सलिले पृथ्वीं यः स मे श्री-हरिर् गतिः ।
‘गति-’ इत्यादि किम् ? पाचयत्योदनं देवदत्तेन । ‘अण्यन्तानाम्’ किम् ? गमयति देवदत्तो यज्ञदत्तं, तम् अपरः प्रयुङ्क्ते । गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः । ‘नी-वोह्योर् न’ (वा ११०९) । नाययति वाहयति वा भारं भृत्येन । ‘नियन्तृ-कर्तृकस्य वहेर् अनिषेधः’ (वा १११०) । वाहयति रथं वाहान् सूतः । ‘आदि-खाद्योर् न’ (वा ११०९) । आदयति खादयति वात्रं वटुना । ‘भक्षेर् अहिंसार्थस्य न’ (वा ११११) । भक्षयत्यन्नं वटुना । ‘अहिंसार्थस्य’ किम् ? भक्षयति बली-वर्दान् सस्यम् । ‘जल्पति-प्रभृतीनाम् उपसंख्यानम्’ (वा ११०८) । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः । दृशेश् च (वा ११०८) । दर्शयति हरिं भक्तान् । सूत्रे ज्ञान-सामान्यार्थानाम् एव ग्रहणं, न तु तद्-विशेषार्थानाम् इत्यनेन ज्ञाप्यते । तेन स्मरति, जिघ्रति इत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन । ‘शब्दायतेर् न’ (वा ११०५) । शब्दाययति देवदत्तेन । धात्वर्थ-संगृहीत-कर्मत्वेनाकर्मकत्वात् प्राप्तिः । येषां देश-काल-आदि-भिन्नं कर्म न संभवति ते ऽत्राकर्मकाः । न त्वविवक्षित-कर्माणो ऽपि । तेन ‘मासम् आसयति देवदत्तम्’ इत्यादौ कर्मत्वं भवति । ‘देवदत्तेन पाचयति’ इत्यादौ तु न ।
हृ-क्रोर् अन्यतरस्याम् – १.४.५३ । हृ-क्रोर् णौ यः कर्ता स णौ वा कर्म-संज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् । ‘अभि-वादि-दृशोर् आत्मने-पदे वेति वाच्यम्’ (वा १११४) । अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ।
अधि-शीङ्-स्थासां कर्म – १.४.४६ । अधि-पूर्वाणाम् एषाम् आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ।
अभिनिविशश् च – १.४.४७ । अभि-नीत्येतत्-संघात-पूर्वस्य विशतेर् आधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । ‘परिक्रयणे संप्रदानम्-’ (सू ५८०) इति सूत्राद् इह
[[P72]]
मण्डूक-प्लुत्यान्यतरस्यां ग्रहणम् अनुवर्त्य व्यवस्थित-विभाषाश्रयणात् क्वचिन् न । पापे ऽभिनिवेशः ।
उपान्वध्याङ्वसः – १.४.४८ । उपादि-पूर्वस्य वसतेर् आधारः कर्म स्यात् । उपवसति, अनुवसति, अधिवसति, आवसति वा वैकुण्ठं हरिः । ‘अभुक्त्यर्थस्य न’ (वा १०८७) । वने उपवसति ।
‘उभ-सर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम््रेडितान्तेषु ततो ऽन्यत्रापि दृश्यते ॥’ (वा १४४४)
उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्ण-अ-भक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् । ‘अभितः-परितः-समया-निकषा-हा-प्रति-योगे ऽपि’ (वा १४४२-१४४३) । अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्ण-अ-भक्तम् । तस्य शोच्यत इत्यर्थः । ‘बुभुक्षितं न प्रतिभाति किञ्चित्’ ।
अन्तरान्तरेण युक्ते – २.३.४ । आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।
कर्म-प्रवचनीयाः – १.४.८३ । इत्यधिकृत्य ।
अनुर् लक्षणे – १.४.८४ । लक्षणे द्योत्ये ऽनुर् उक्त-संज्ञः स्यात् । गति-उपसर्ग-संज्ञापवादः ।
कर्म-प्रवचनीय-युक्ते द्वितीया – २.३.८ । एतेन योगे द्वितीया स्यात् । पर्जन्यो जपम् अनु प्रावर्षत् । हेतु-भूत-जपोपलक्षितं वर्षणम् इत्यर्थः । परापि हेतौ तृतीयानेन बाध्यते । ‘लक्षणेत्थं-भूत-’ (सू ५५२) इत्यादिना सिद्धे पुनः संज्ञा-विधान-सामर्थ्यात् ।
तृतीयार्थे – १.४.८५ । अस्मिन् द्योत्ये ऽनुर् उक्त-संज्ञः स्यात् । नदीम् अन्ववसिता सेना । नद्या सह सम्बद्धेत्यर्थः । ‘षिञ् बन्धने’ क्तः ।
हीने – १.४.८६ । हीने द्योत्ये ऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर् हीना इत्यर्थः ।
उपो ऽधिके च – १.४.८७ । अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्-संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने – उप हरिं सुराः ।
लक्षणेत्थं-भूताख्यान-भाग-वीप्सासु प्रति-पर्यनवः – १.४.९० । एष्वर्थेषु विषय-भूतेषु प्रत्यादयः उक्त-संज्ञाः स्युः । लक्षणे – वृक्षं प्रति, परि, अनु वा विद्योतते विद्युत् । इत्थं-भूताख्याने – भक्तो विष्णुं प्रति, परि, अनु वा । भागे – लक्ष्मीर् हरिं प्रति, परि, अनु वा । हरेर् भाग इत्यर्थः । वीप्सायाम् – वृक्षं वृक्षं प्रति, परि, अनु वा सिञ्चति । अत्रोपसर्गत्वाभावान् न षत्वम् । ‘एषु’ किम् ? परिषिञ्चति ।
अभिर् अभागे – १.४.९१ । भाग-वर्जे लक्षण-आदौ अभिर् उक्त-संज्ञः स्यात् । हरिम् अभिवर्तते । भक्तो हरिम् अभि । देवं देवम् अभि सिञ्चति । ‘अभागे’ किम् ? यद् अत्र ममाभिष्यात् तद् दीयताम् ।
अधि-परी अनर्थकौ – १.४.९३ । उक्त-संज्ञौ स्तः । कुतो ऽध्यागच्छति । कुतः पर्यागच्छति । गति-संज्ञा-बाधात् ‘गति-र्गतौ’ (सू ३९७७) इति निघातो न ।
सुः पूजायाम् – १.४.९४ । सु सिक्तम्, सुस्तुतम् । अनुपसर्गत्वान् न षः । ‘पूजायाम्’ किम् ? सुषिक्तं किं तवात्र । आक्षेपो ऽयम् ।
[[P73]]
अतिर् अतिक्रमणे च – १.४.९५ । अतिक्रमणे पूजायां चातिः कर्म-प्रवचनीय-संज्ञः स्यात् । अति देवान् कृष्णः ।
अपिः पदार्थ-सम्भावनान्ववसर्ग-गर्हा-समुच्चयेषु – १.४.९६ । एषु द्योत्येष्वपिर् उक्त-संज्ञः स्यात् । सर्पिषो ऽपि स्यात् । अनुपसर्गत्वान् न षः । संभावनायां लिङ् । तस्याः एव विषय-भूते भवने कर्तुर् दौर्लभ्य-प्रयुक्तं दौर्लभ्यं द्योतयन्न् अपि-शब्दः स्याद् इत्यनेन संबध्यते । ‘सर्पिषः’ इति षष्ठी त्वपि-शब्द-बलेन गम्यमानस्य बिन्दोर् अवयवावयवि-भाव-संबन्धे । इयम् एव ह्यपि-शब्दस्य पदार्थ-द्योतकता नाम । द्वितीया तु न इह प्रवर्तते सर्पिषो बिन्दुना योगो न त्वपिनेत्य् उक्तत्वात् । अपि स्तुयाद् विष्णुम् । संभावनं शक्त्युत्कर्षम् आविष्कर्तुम् अत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिग् देवदत्तम् अपि स्तुयाद् वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ।
कालाध्वनोर् अत्यन्त-संयोगे – २.३.५ । इह द्वितीया स्यात् । मासं कल्याणी । मासम् अधीते । मासं गुड-धानाः । क्रोशं कुटिला नदी । क्रोशम् अधीते । क्रोशं गिरिः । ‘अत्यन्त-संयोगे’ किम् ? मासस्य द्विर् अधीते । क्रोशस्यैक-देशे पर्वतः ।
तृतीया
स्वतन्त्रः कर्ता – १.४.५४ । क्रियायां स्वातन्त्र्येण विवक्षितो ऽर्थः कर्ता स्यात् ।
साधकतमं करणम् – १.४.४२ । क्रिया-सिद्धौ प्रकृष्टोपकारकं कारकं करण-संज्ञं स्यात् ।
तमब्-ग्रहणं किम् ?
गङ्गायां घोषः ।
कर्तृ-करणयोस् तृतीया – २.३.१८ । अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली । ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा १४६६) । प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्वि-द्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ।
दिवः कर्म च – १.४.४३ । दिवः साधकतमं कारकं कर्म-संज्ञं स्याच् चात् करण-संज्ञम् । अक्षैर् अक्षान् वा दीव्यति ।
अपवर्गे तृतीया – २.३.६ । अपवर्गः फल-प्राप्तिः । तस्यां द्योत्यायां काल-अध्वनोर् अत्यन्त-संयोगे तृतीया स्यात् । अह्ना क्रोशेन वानुवाको ऽधीतः । ‘अपवर्गे’ किम् ? मासम् अधीतो नायातः ।
सह-युक्ते ऽप्रधाने – २.३.१९ । सहार्थेन युक्ते ऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकं-सार्धं-संयोगे ऽपि । विनापि तद्-योगं तृतीया । ‘वृद्धो यूना…’ (सू ९३१) इत्यादि-निर्देशात् ।
येनाङ्ग-विकारः – २.३.२० । येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस् तृतीया स्यात् । अक्ष्णा काणः । अक्षि-संबन्धि-काणत्व-विशिष्टः इत्यर्थः । अङ्ग-विकारः किम् ? अक्षि काणम् अस्य ।
[[P74]]
इत्थं-भूत-लक्षणे – २.३.२१ । कञ्चित्-प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस् तापसः । जटा-ज्ञाप्य-तापसत्व-विशिष्ट इत्यर्थः ।
संज्ञो ऽन्यतरस्यां कर्मणि – २.३.२२ । सं-पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सञ्जानीते ।
हेतौ – २.३.२३ । हेत्वर्थे तृतीया स्यात् । द्रव्यादि-साधारणं निर्व्यापार-साधारणं च हेतुत्वम् । करणत्वं तु क्रिया-मात्र-विषयं व्यापार-नियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलम् अपीह हेतुः । अध्ययनेन वसति । ‘गम्यमानापि क्रिया कारक-विभक्तौ प्रयोजिका’ । अलं श्रमेण । श्रमेण साध्यं नास्ति इत्यर्थः । इह साधन-क्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति पयः । शतेन परिच्छिद्येत्यर्थः । ‘अशिष्ट-व्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया’ (वा ५०४०) । दास्या संयच्छते कामुकः । धर्मे तु भार्यायै संयच्छति ।
चतुर्थी
कर्मणा यम् अभिप्रैति स सम्प्रदानम् – १.४.३२ । दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदान-संज्ञः स्यात् ।
चतुर्थी सम्प्रदाने – २.३.१३ । विप्राय गां ददाति । अनभिहिते इत्येव । दीयते ऽस्मै दानीयो विप्रः । ‘क्रियया यम् अभिप्रैति सो ऽपि सम्प्रदानम्’ (वा १०८५) । पत्ये शेते । ‘कर्मणः करण-संज्ञा सम्प्रदानस्य च कर्म-संज्ञा’ (वा १०८६) । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ।
रुच्यर्थानां प्रीयमाणः – १.४.३३ । रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो ऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्य-कर्तृको ऽभिलाषो रुचिः । हरि-निष्ठ-प्रीतेर् भक्तिः कर्त्री । ‘प्रीयमाणः’ किम् ? देवदत्ताय रोचते मोदकः पथि ।
श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः – १.४.३४ । एषां प्रयोगे बोधयितुम् इष्टः सम्प्रदानं स्यात् । गोपी स्मरात् कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ‘ज्ञीप्स्यमानः’ किम् ? देवदत्ताय श्लाघते पथि ।
धारेर् उत्तमर्णः – १.४.३५ । धारयतेः प्रयोगे उत्तमर्ण उक्त-संज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । ‘उत्तमर्णः’ किम् ? देवदत्ताय शतं धारयति ग्रामे ।
स्पृहेर् ईप्सितः – १.४.३६ । स्पृहयतेः प्रयोगः इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ‘ईप्सितः’ किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सित-मात्र इयं संज्ञा । प्रकर्ष-विवक्षायां तु परत्वात् कर्म-संज्ञा । पुष्पाणि स्पृहयति ।
क्रुध-द्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – १.४.३७ । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्त-संज्ञः स्यात् । हरये क्रुध्यति द्रुह्यति ईर्ष्यति असूयति वा । ‘यं प्रति कोपः’ किम् ? भार्याम् ईर्ष्यति । मैनाम् अन्यो द्राक्षीद् इति । क्रोधो ऽमर्षः । द्रोहो ऽपकारः । ईर्ष्याक्षमा ।
[[P75]]
असूया दोष-आविष्करणम् । द्रोहादयो ऽपि कोप-भावना एव गृह्यन्ते । अतो विशेषणं सामान्येन ‘यं प्रति कोपः’ इति ।
क्रुध-द्रुहोर् उपसृष्टयोः कर्म – १.४.३८ । सोपसर्गयोर् अनयोर् योगे यं प्रति कोपस् तत्-कारकं कर्म-संज्ञं स्यात् । क्रूरम् अभिक्रुध्यति, अभिद्रुह्यति ।
राधीक्ष्योर् यस्य विप्रश्नः – १.४.३९ । एतयोः कारकं सम्प्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति, ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयति इत्यर्थः ।
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता – १.४.४० । आभ्यां परस्य शृणोतेर् योगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितस् तं प्रतिजानीत इत्यर्थः ।
अनु-प्रति-गृणश् च – १.४.४१ । आभ्यां गृणातेः कारकं पूर्व-व्यापारस्य कर्तृ-भूतम् उक्त-संज्ञं स्यात् । होत्रे ऽनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति, तम् अध्वर्युः प्रोत्साहयति इत्यर्थः ।
परिक्रयणे सम्प्रदानम् अन्यतरस्याम् – १.४.४४ । नियत-कालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं सम्प्रदान-संज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः । ‘तादर्थ्ये चतुर्थी वाच्या’ (वा १४५८) मुक्तये हरिं भजति । ‘क्लृपि सम्पद्यमाने च’ (वा १४५९) । भक्तिर् ज्ञानाय कल्पते सम्पद्यते जायते इत्यादि । ‘उत्पातेन ज्ञापिते च’ (वा १४६०) । वाताय कपिला विद्युत् । ‘हित-योगे च’ (वा १४६१) । ब्राह्मणाय हितम् ।
क्रियार्थोपपदस्य च कर्मणि स्थानिनः – २.३.१४ । क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनो ऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान् आहर्तुं यातीत्यर्थः । नमस्-कुर्मो नृसिंहाय । नृसिंहम् अनुकूलयितुम् इत्यर्थः । एवं, ‘स्वयंभुवे नमस्-कृत्य’ इत्यादावपि ।
तुमर्थाच् च भाव-वचनात् – २.३.१५ । ‘भाव-वचनाश् च’ (सू ३१८०) इति सूत्रेण यो विहितस् तदन्ताच् चतुर्थी स्यात् । यागाय याति यष्टुं यातीत्यर्थः ।
नमः-स्वस्ति-स्वाहा-स्वधालं-वषड्-योगाच् च – २.३.१६ । एभिर् योगे चतुर्थी स्यात् । हरये नमः । ‘उपपद-विभक्तेः कारक-विभक्तिर् बलीयसी’ (प १०३) । नमस्-करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । ‘अलम् इति पर्याप्त्यर्थ-ग्रहणम्’ (वा १४६२) । तेन दैत्येभ्यो हरिर् अलं, प्रभुः, समर्थः, शक्त इत्यादि । प्रभ्वादि-योगे षष्ठ्यपि साधुः । ‘तस्मै प्रभवति-’ (सू १७६५) ‘स एषां ग्रामणीः’ (सू १८७८) इति निर्देशात् । तेन ‘प्रभुर् बुभूषुस् भुवन-त्रयस्य’ इति सिद्धम् । वषड् इन्द्राय । चकारः पुनर्-विधानार्थः, तेनाशीर्-विवक्षायां पराम् अपि ‘चतुर्थी चाशिषि-’ (सू ६३१) इति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ।
मन्य-कर्मण्यनादरे विभाषाप्राणिषु – २.३.१७ । प्राणि-वर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात् तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात् तानादिक-योगे न ।
[[P76]]
न त्वां तृणं मन्वे । ‘अप्राणिष्वित्यपनीय नौ-काक-अन्न-शुक-सृगाल-वर्जेष्विति वाच्यम्’ (वा १४६४) । तेन ‘न त्वां नावं मन्ये’ इत्यत्राप्राणित्वे ऽपि चतुर्थी न।। ‘न त्वां शुने मन्ये’ इत्यत्र प्राणित्वे ऽपि भवत्येव ।
गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि – २.३.१२ । अध्व-भिन्ने गत्यर्थानां कर्मण्येते स्तश् चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायाम् किम् ? मनसा हरिं व्रजति । अनध्वनि इति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठिते ऽध्वन्येवायं निषेधः । यदा तूत्पथात् पन्था एवाक्रमितुम् इष्यते तदा चतुर्थी भवत्य् एव, उत्पथेन पथे गच्छति ।
पञ्चमी
ध्रुवम् अपाये ऽपादानम् – १.४.२४ । अपायो विश्लेषः, तस्मिन् साध्ये ध्रुवम् अवधि-भूतं कारकम् अपादानं स्यात् ।
अपादाने पञ्चमी – २.३.२८ । ग्रामाद् आयाति । धावतो ऽश्वात् पतति । कारणं किम् ? वृक्षस्य पर्णं पतति । ‘जुगुप्सा-विराम-प्रमादार्थानाम् उपसंख्यानम्’ (वा १०७६) । पापाज् जुगुप्सते, विरमति । धर्मात् प्रमाद्यति ।
भीत्रार्थानां भय-हेतुः – १.४.२५ । भयार्थानां त्राणार्थानां च प्रयोगे भय-हेतुर् अपादानं, स्यात् । चोराद् विभेति । चोरात् त्रायते । भय-हेतुः किम् ? अरण्ये बिभेति, त्रायते वा ।
पराजेर् असोढः – १.४.२६ । पराजेः प्रयोगे ऽसह्यो ऽर्थो ऽपादानं स्यात् । अध्ययनात् पराजयते । ग्लायति इत्यर्थः । असोढः किम् ? शत्रून् पराजयते । अभिभवति इत्यर्थः ।
वारणार्थानाम् ईप्सितः – १.४.२७ । प्रवृत्ति-विघातो वारणम्, वारणार्थानां धातूनां प्रयोगे ईप्सितो ऽर्थो ऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ।
अन्तर्धौ येनादर्शनम् इच्छति – १.४.२८ । व्यवधाने सति यत्-कर्तृकस्य आत्मनो दर्शनस्याभावम् इच्छति तद् अपादानं स्यात् । मातुर् निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान् न दिदृक्षते । इच्छति-ग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । (देवदत्ताद् यज्ञदत्तो निलीयते) ।
आख्यातोपयोगे – १.४.२९ । नियम-पूर्वक-विद्या-स्वीकारे वक्ता प्राक्-संज्ञः स्यात् । उपाध्यायाद् अधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ।
जनिकर्तुः प्रकृतिः – १.४.३० । जायमानस्य हेतुर् अपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ।
भुवः प्रभवः – १.४.३१ । भवनं भूः । भू-कर्तुः प्रभवस् तथा, हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ।
‘ल्यब्-लोपे कर्मण्यधिकरणे च’ (वा १४७४-१४७५) । प्रासादात् प्रेक्षते,
[[P77]]
आसनात् प्रेक्षते । प्रासादम् आरुह्य, आसन उपविश्य, प्रेक्षत इत्यर्थः । श्वशुरात् जिह्रेति । श्वशुरं वीक्ष्य इत्यर्थः । ‘गम्यमानापि क्रिया कारक-विभक्तीनां निमित्तम्’ (वा ५०४१) कस्मात् त्वम्, नद्याः । ‘यतश् चाध्व-काल-निमानं ततः पञ्चमी’ (वा १४७७) । ‘तद्-युक्ताद् अध्वनः प्रथमा-सप्तम्यौ’ (वा १४७९) । ‘कालात् सप्तमी च वक्तव्या’ (वा १४७८) । वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ।
अन्याराद्-इतरर्ते-दिक्-शब्दाञ्चूत्तर-पदाजाहि-युक्ते – २.३.२९ । एतैर् योगे पञ्चमी स्यात् । अन्य्-इत्यर्थ-ग्रहणम् । इतर-ग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद् वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्-शब्दः । तेन सम्प्रति देश-काल-वृत्तिना योगे ऽपि भवति । चैत्रात् पूर्वः फाल्गुनः । अवयव-वाचि-योगे तु न । ‘तस्य परमाभ्रेडितम्’ (सू ८३) इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तर-पदस्य तु दिक्-शब्दत्वे ऽपि ‘षष्ठ्यतसर्थ-’ (सू ६०९) इति षष्ठीं बाधितुं पृथग्-ग्रहणम् । प्राक् प्रत्यग् वा ग्रामात् । आच् – दक्षिणा ग्रामात् । आहि – दक्षिणाहि ग्रामात् । ‘अपादाने पञ्चमी’ (सू ५८७) इति सूत्रे ‘कार्तिक्याः प्रभृति’ इति भाष्य-प्रयोगात् प्रभृत्य्-अर्थ-योगे पञ्चमी । भवात् प्रभृति आरभ्य वा सेव्यो हरिः । ‘अप-परि-बहिः-’ (सू ६६६) इति समास-विधानाद् ज्ञापकाद् बहिर्-योगे पञ्चमी । ग्रामाद् बहिः ।
अप-परी वर्जने – १.४.८८ । एतौ वर्जने कर्म-प्रवचनीयौ स्तः ।
आङ् मर्यादा-वचने – १.४.८९ । आङ् मर्यादायाम् उक्त-संज्ञः स्यात् । वचन-ग्रहणाद् अभिविधाव् अपि ।
पञ्चम्य् अपाङ्परिभिः – २.३.१० । एतैः कर्म-प्रवचनीयैर् योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिर् अत्र वर्जने । लक्षणादौ तु हरिं परि । आ मुक्तेः संसारः । आ सकलाद् ब्रह्म ।
प्रतिः प्रतिनिधि-प्रतिदानयोः – १.४.९२ । एतयोर् अर्थयोः प्रतिर् उक्त-संज्ञः स्यात् ।
प्रतिनिधि-प्रतिदाने च यस्मात् – २.३.११ । अत्र कर्म-प्रवचनीयैर् योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात् प्रति । तिलेभ्यः प्रतियच्छति माषान् ।
अकर्तर्युणे पञ्चमी – २.३.२४ । कर्तृ-वर्जितं यद् ऋणं हेतु-भूतं ततः पञ्चमी स्यात् । शताद् बद्धः । अकर्तरि किम् ? शतेन बन्धितः ।
विभाषा गुणे ऽस्त्रियाम् – २.३.२५ । गुणे हेताव् अस्त्री-लिङ्गे पञ्चमी वा स्यात् । जाड्याद् जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । ‘विभाषा’ इति योग-विभागाद् अगुणे स्त्रियां च क्वचित् । धूमाद् अग्निमान् । नास्ति घटो ऽनुपलब्धेः ।
पृथग्-विना-नानाभिस् तृतीयान्यतरस्याम् – २.३.३२ । एभिर् योगे तृतीया स्यात् पञ्चमी-द्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम्, पञ्चमी-द्वितीये चानुवर्तते । पृथग् रामेण रामाद् रामं वा । एवं विना, नाना ।
[[P78]]
करणे च स्तोकाल्प-कृच्छ्र-कतिपयस्यासत्त्व-वचनस्य – २.३.३३ ।
एभ्यो ऽद्रव्य-वचनेभ्यः करणे तृतीया-पञ्चम्यौ स्तः ।
स्तोकेन स्तोकाद् वा मुक्तः ।
द्रव्ये तु स्तोकेन विषेण हतः ।
दूरान्तिकार्थेभ्यो द्वितीया च – २.३.३५ । एभ्यो द्वितीया स्यात्, चात् पञ्चमी-तृतीये च । प्रातिपदिकार्थ-मात्रे विधिर् अयम् । ग्रामस्य दूरं दूराद् दूरेण वा, अन्तिकम् अन्तिकाद् अन्तिकेन वा । असत्त्व-वचनस्य इत्यनुवृत्तेर् नेह – दूरः पन्थाः ।
षष्ठी
षष्ठी शेषे – २.३.५० । कारक-प्रातिपदिकार्थ-व्यतिरिक्तः स्व-स्वामि-भावादि-संबन्धः शेषः, तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनाम् अपि संबन्ध-मात्र-विवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शंभोश् चरणयोः । फलानां तृप्तः ।
षष्ठी हेतु-प्रयोगे – २.३.२६ । हेतु-शब्द-प्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर् वसति ।
सर्वनाम्नस् तृतीया च – २.३.२७ । सर्वनाम्नो हेतु-शब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः । ‘निमित्त-पर्याय-प्रयोगे सर्वासाम् प्राय-दर्शनम्’ (वा १४७३) । किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारणम्, को हेतुः, किं प्रयोजनम् इत्यादि । प्राय-ग्रहणाद् असर्वनाम्नः प्रथमा-द्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः, ज्ञानाय निमित्ताय इत्यादि ।
षष्ठ्यतसर्थ-प्रत्ययेन – २.३.३० । एतद्-योगे षष्ठी स्यात् । ‘-दिक्-शब्द-’ (सू ५९५) इति पञ्चम्याः अपवादः । ग्रामस्य दक्षिणतः पुरः पुरस्ताद् उपरि उपरिष्टात् ।
एनपा द्वितीया – २.३.३१ । एनबन्तेन योगे द्वितीया स्यात् । ‘एनपा’ इति योग-विभागात् षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा ।
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् – २.३.३४ । एतैर् योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद् वा ।
ज्ञो ऽविदर्थस्य करणे – २.३.५१ । जानातेर् अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ।
अधीगर्थ-दयेशां कर्मणि – २.३.५२ । एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम् ईशनं वा ।
कृञः प्रति-यत्ने – २.३.५३ । प्रति-यत्नो गुणाधानम् । कृञः कर्मणि शेषे षष्ठी स्याद् गुणाधाने । एधोदकस्य उपस्करणम् ।
रुजार्थानां भाव-वचनानाम् अज्वरेः – २.३.५४ । भाव-कर्तृकाणां ज्वरि-वर्जितानां
[[P79]]
रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । ‘अज्वरि-सन्ताप्योर् इति वाच्यम्’ (वा १५०७) । रोगस्य चौर-ज्वरः चौर-सन्तापो वा । रोग-कर्तृकं चौर-संबन्धि-ज्वरादिकम् इत्यर्थः ।
आशिषि नाथः – २.३.५५ । आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषि इति किम् ? माणवक-नाथनम् । तत्-सम्बन्धिनी याच्ञेत्यर्थः ।
जासि-निप्रहण-नाट-क्राथ-पिषां हिंसायाम् – २.३.५६ । हिंसार्थानाम् एषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । नि-प्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य नि-प्रहणनं प्रणिहननं निहननं प्रहणनं वा । ‘नट अवस्कन्दने’ चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायाम् किम् ? धाना-पेषणम् ।
व्यव-हृ-पणोः समर्थयोः – २.३.५७ । शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रय-विक्रय-व्यवहारे चानयोस् तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाका-व्यवहारः । गणनेत्यर्थः । ब्राह्मण-पणनं स्तुतिर् इत्यर्थः ।
दिवस् तदर्थस्य – २.३.५८ । द्यूतार्थस्य क्रय-विक्रय-रूप-व्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ।
विभाषोपसर्गे – २.३.५९ । पूर्व-योगापवादः । शतस्य शतं वा प्रतिदीव्यति ।
प्रेष्य-ब्रुवोर् हविषो देवता-सम्प्रदाने – २.३.६१ । देवता-सम्प्रदानके ऽर्थे वर्तमानयोः प्रेष्य-ब्रुवोः कर्मणो हविषो वाचकाच् शब्दात् षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ।
कृत्वो ऽर्थ-प्रयोगे काले ऽधिकरणे – २.३.६४ । कृत्वो ऽर्थानां प्रयोगे काल-वाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्च-कृत्वो ऽह्नो भोजनम् । द्विर् अह्नो भोजनम् । शेषे किम् ? द्विर् अहनि अध्ययनम् ।
कर्तृ-कर्मणोः कृति – २.३.६५ । कृद्-योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः । ‘गुण-कर्मणि वेष्यते’ (वा ५०४२) । नेता अश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते मा भूत्, कृत-पूर्वी कटम् ।
उभय-प्राप्तौ कर्मणि – २.३.६६ । उभयोः प्राप्तिर् यस्मिन् कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहो ऽगोपेन । ‘स्त्री-प्रत्यययोर् अक-अकारयोर् नायं नियमः’ (वा १५१३) । भेदिका विभित्सा वा रुद्रस्य जगतः । ‘शेषे विभाषा’ (वा १५१३) । स्त्री-प्रत्यय इत्येके । विचित्रा जगतः कृतिर् हर्-अर्हरिणा वा । केचिद् अविशेषेण विभाषाम् इच्छन्ति । शब्दानाम् अनुशासनम् आचार्येण आचार्यस्य वा ।
क्तस्य च वर्तमाने – २.३.६७ । वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । ‘न लोक-’ (सू ६२७) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ।
अधिकरण-वाचिनश् च – २.३.६८ । क्तस्य योगे षष्ठी स्यात् । इदम् एषाम् आसितं शयितं गतं भुक्तं वा ।
[[P80]]
न लोक-अव्यय-निष्ठा-खलर्थ-तृनाम् – २.३.६९ । एषां प्रयोगे षष्ठी न स्यात् । लादेश – कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उ – हरिं दिदृक्षुः, अलङ्करिष्णुर् वा । उक – दैत्यान् घातुको हरिः । ‘कमेर् अनिषेधः’ (वा १५१९) । लक्ष्म्याः कामुको हरिः । अव्ययम् – जगत् सृष्ट्वा, सुखं कर्तुम् । निष्ठा – विष्णुना हता दैत्याः, दैत्यान् हतवान् विष्णुः । खलर्थाः – ईषत्-करः प्रपञ्चो हरिणा । तृन् इति प्रत्याहारः ‘शतृ-शानचौ’ इति तृ-शब्दाद् आरभ्य आ तृनो नकारात् । शानन् – सोमं पवमानः । चानश् – आत्मानं मण्डयमानः । शतृ – वेदम् अधीयन् । तृन् – कर्ता लोकान् । ‘द्विषः शतुर् वा’ (वा १५२२) । मुरस्य मुरं वा द्विषन् । सर्वो ऽयं कारक-षष्ठ्याः प्रतिषेधः । शेषे षष्ठी तु स्याद् एव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ।
अकेनोर् भविष्यद्-आधमर्ण्ययोः – २.३.७० । भविष्यत्य् अकस्य भविष्यद्-आधमर्ण्यार्थेनश् च योगे षष्ठी न स्यात् । सतः पालको ऽवतरति । व्रजं गामी । शतं दायी ।
कृत्यानां कर्तरि वा – २.३.७१ । षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरि इति किम् ? गेयो माणवकः साम्नाम् । ‘भव्य-गेय-’ (सू २८९४) इति कर्तरि यद्-विधानाद् अनभिहितं कर्म । अत्र योगो विभज्यते – कृत्यानाम् । ‘उभय-प्राप्तौ’ इति ‘न’ इति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः कर्तरि वा । उक्तो ऽर्थः ।
तुल्यार्थैर् अतुलोपमाभ्यां तृतीयान्यतरस्याम् – २.३.७२ । तुल्यार्थैर् योगे तृतीया वा स्यात् पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ।
चतुर्थी चाशिष्य् आयुष्य-मद्र-भद्र-कुशल-सुखार्थ-हितैः – २.३.७३ । एतद्-अर्थैर् योगे चतुर्थी वा स्यात् पक्षे षष्ठी । आशिषि – आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यम् अस्ति । व्याख्यानात् सर्वत्रार्थ-ग्रहणम् । मद्र-भद्रयोः पर्यायत्वाद् अन्यतरो न पठनीयः ।
सप्तमी
आधारो ऽधिकरणम् – १.४.४५ । कर्तृ-कर्म-द्वारा तन्-निष्ठ-क्रियाया आधारः कारकम् अधिकरण-संज्ञः स्यात् ।
सप्तम्यधिकरणे च – २.३.३६ । अधिकरणे सप्तमी स्यात् । चकाराद् दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिको ऽभिव्यापकश् चेत्याधारस् त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्न् आत्मास्ति । वनस्य दूरे अन्तिके वा । ‘दूरान्तिकार्थेभ्यः-’ (सू ६०५) इति विभक्ति-त्रयेण सह चतस्रो ऽत्र विभक्तयः फलिताः । ‘क्तस्येन्-विषयस्य कर्मण्य् उपसंख्यानम्’ (वा १४८५) । अधीती व्याकरणे । अधीतम् अनेनेति विग्रहे ‘इष्टादिभ्यश् च’ (सू १८८८) इति कर्तरीनिः । ‘साध्व्-असाधु-प्रयोगे च’ (वा १४८६) । साधुः कृष्णो मातरि, असाधुर् मातुले । ‘निमित्तात् कर्म-योगे’ (वा १४९०) । निमित्तम् इह फलम् । योगः संयोग-समवाय-आत्मकः ।
[[P81]]
चर्मणि द्वीपिनं हन्ति दन्तयोर् हन्ति कुञ्जरम् ।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥’ (इति भाष्यम्)
हेतु-तृतीयात्र प्राप्ता तन्-निवारणार्थम् इदम् । सीमा अण्ड-कोशः । पुष्कलको गन्ध-मृगः । योग-विशेषे किम् ? वेतनेन धान्यं लुनाति ।
यस्य च भावेन भाव-लक्षणम् – २.३.३७ । यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः । अर्हाणां कर्तृत्वे ऽनर्हाणाम् अकर्तृत्वे तद्-वैपरीत्ये च । सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस् तरन्ति । सत्सु तिष्ठत्सु असन्तस् तरन्ति । असत्सु तरत्सु सन्तस् तिष्ठन्ति ।
षष्ठी चानादरे – २.३.३८ । अनादर-आधिक्ये भाव-लक्षणे षष्ठी-सप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकम् अनादृत्य संन्यस्तवान् इत्यर्थः ।
स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैश् च – २.३.३९ । एतैः सप्तभिर् योगे षष्ठी-सप्तम्यौ स्तः । षष्ठ्याम् एव प्राप्तायां पाक्षिक-सप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।
आयुक्त-कुशलाभ्यां चासेवायाम् – २.३.४० । आभ्यां योगे षष्ठी-सप्तम्यौ स्तस् तात्पर्ये ऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरि-पूजने हरि-पूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्-युक्त इत्यर्थः ।
यतश् च निर्धारणम् – २.३.४१ । जाति-गुण-क्रिया-संज्ञाभिः समुदायाद् एक-देशस्य पृथक्-करणं निर्धारणं यतस् ततः षष्ठी-सप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहु-क्षीरा । गच्छतां गच्छत्सु वा धावञ् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ।
पञ्चमी विभक्ते – २.३.४२ । विभागो विभक्तम् । निर्धार्य-माणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलि-पुत्रकेभ्य आढ्यतराः ।
साधु-निपुणाभ्याम् अर्चायां सप्तम्यप्रतेः – २.३.४३ । आभ्यां योगे सप्तमी स्याद् अर्चायाम्, न तु प्रतेः प्रयोगे । मातरि साधुर् निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्व-कथने तात्पर्यम् । ‘अप्रत्यादिभिर् इति वक्तव्यम्’ (वा १४९३) । माधुर् निपुणो वा मातरं प्रति परि अनु वा ।
प्रसितोत्सुकाभ्यां तृतीया च – २.३.४४ । आभ्यां योगे तृतीया स्यात् चात् सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ।
नक्षत्रे च लुपि – २.३.४५ । नक्षत्रे प्रकृत्यर्थे यो लुप्-संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस् तत्र वर्तमानात् तृतीया-सप्तम्यौ स्तो ऽधिकरणे । ‘मूलेनावाहयेद् देवीं श्रवणेन विसर्जयेत् ।’ मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ।
सप्तमी-पञ्चम्यौ कारक-मध्ये – २.३.७ । शक्ति-द्वय-मध्ये यौ काल-अध्वानौ ताभ्याम् एते स्तः । अद्य भुक्त्वायं द्व्यहे त्र्यहाद् वा भोक्ता । कर्तृ-शक्त्योर् मध्ये ऽयं कालः । इहस्थो ऽयं क्रोशे क्रोशाद् वा लक्ष्यं विध्येत् । कर्तृ-कर्म-शक्त्योर् मध्ये ऽयं देशः । अधिक-शब्देन योगे
[[P82]]
सप्तमी-पञ्चम्याव् इष्येते । ‘तदस्मिन्न् अधिकम् –’ (सू १८४६) इति ‘यस्माद् अधिकम् –’ (सू ६४५) इति च सूत्र-निर्देशात् । लोके लोकाद् वा अधिको हरिः ।
अधिर् ईश्वरे – १.४.९७ । स्व-स्वामि-सम्बन्धे अधिः कर्म-प्रवचनीय-संज्ञः स्यात् ।
यस्माद् अधिकं यस्य चेश्वर-वचनं तत्र सप्तमी – २.३.९ । अत्र कर्म-प्रवचनीय-युक्ते सप्तमी स्यात् । उप परार्धे हरेर् गुणाः । परार्धाद् अधिका इत्यर्थः । ऐश्वर्ये तु स्व-स्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । ‘सप्तमी शौण्डैः’ (सू ७१७) इति समास-पक्षे तु रामाधीना । ‘अषडक्ष-’ (सू २०७९) इत्यादिना खः ।
विभाषा कृञि – १.४.९८ । अधिः करोतौ प्राक्-संज्ञो वा स्याद् ईश्वरे ऽर्थे । यद् अत्र माम् अधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुर् ईश्वरत्वं गम्यते । अगतित्वात् ‘तिङि चोदात्तवति’ (सू ३९७८) इति निघातो न ।
31885
[[P83]]
जि. महाबलेश्वरभट्टः
+
बेङ्गलूरु-नगरस्थे श्री-चामराजेन्द्र-
संस्कृत-महा-पाठशालायां व्याकरण-
शास्त्रस्य उप-प्राध्यापकः सन्
संस्कृत-सेवां करोति श्रीमान्
जि. महाबलेश्वर-भट्ट-वर्यः ।
व्याकरण-शास्त्रे अलङ्कार-शास्त्रे च अनितर-साधारणी गतिः भट्ट-महोदयस्य । वेदान्त-आदि-शास्त्रेषु अपि विशेष-गतिः न न अस्ति तस्य ।
‘शिष्टा क्रिया कस्यचिद् आत्म-संस्था सङ्क्रान्तिर् अन्यस्य विशेष-युक्ता’ इति वदति कालिदासः । ‘यस्य ज्ञानं बोधन-कौशलं च भवति सः एव अध्यापकानां धुरि प्रतिष्ठापयितव्यः’ इति वदति सः एव । भट्ट-महोदयः ज्ञानेन बोधन-कौशलेन च संस्कृत-क्षेत्रे सुप्रथितः अस्ति । विविधेषु बोधन-वर्गेषु भाग-ग्रहणं, विद्वद्-गोष्ठीषु भाषा-विषयक-प्रबन्धानाम् उपस्थापनम् इत्यादयः तेन सर्वदा क्रियमाणाः एव भवन्ति ।
कारक-प्रकरणं व्याकरण-शास्त्रे हृदय-भूतम् । हृदय-परिशीलनं हृदय-चिकित्सां च वैद्याः सावधानेन मनसा कुर्वन्ति । तथैव कारकम् अपि अवहितेन चित्तेन अवधारणीयं बोधनीयं च । अध्यापयितृभिः अध्येतृभिश् च विनायासं कारकं सुविदितं भवत्विति मनीषया इदं पुस्तकम् आरचितम् ।
[[P84]]