(अ) कारकसंज्ञाविधायकानि सूत्राणि
प्रथमाध्याये तृतीयः पादः
२३. कारके ।
२४. ध्रुवमपायेऽपादानम् ।
२५. भीत्रार्थानां भय-हेतुः ।
२६. पराजेरसोढः ।
२७. वारणार्थानामीप्सितः ।
२८. अन्तर्धौ येनादर्शनमिच्छति ।
२९. आख्यातोपयोगे ।
३०. जनिकर्तुः प्रकृतिः ।
३१. भुवः प्रभवः ।
३२. कर्मणा यमभिप्रैति स सम्प्रदानम् ।
३३. रुच्यर्थानां प्रीयमाणः ।
३४. श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः ।
३५. धारेरुत्तमर्णः ।
३६. स्पृहेरीप्सितः ।
३७. क्रुध-द्रुहेर्ष्यासूयार्थानां यं प्रति कोपः।
३८. क्रुध-द्रुहोर् उपसृष्टयोः कर्म ।
३९. राधीक्ष्योर्यस्य विप्रश्नः ।
४०. प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ।
४१. अनु-प्रति-गृणश् च ।
४२. साधकतमं करणम् ।
४३. दिवः कर्म च ।
४४. परिक्रयणे सम्प्रदानमन्यतरस्याम् ।
४५. आधारोऽधिकरणम् ।
४६. अधि-शीङ्-स्थासां कर्म ।
४७. अभिनिविशश् च ।
४८. उपान्वध्याङ्वसः ।
४९. कर्तुरीप्सिततमं कर्म ।
५०. तथा-युक्तं चानीप्सितम् ।
५१. अकथितं च ।
५२. गति-बुद्धि-प्रत्यवसानार्थ-शब्द-कर्माकर्मकाणाम् अणि कर्ता स णौ ।
५३. हृ-क्रोर् अन्यतरस्याम् ।
५४. स्वतन्त्रः कर्ता ।
५५. तत्-प्रयोजको हेतुश् च
(आ) विभक्तिविधायकानि सूत्राणि
द्वितीयाध्याये तृतीयः पादः
१. अनभिहिते ।
२. कर्मणि द्वितीया ।
३. तृतीया च होश् छन्दसि ।
४. अन्तरान्तरेण युक्ते ।
५. कालाध्वनोर् अत्यन्त-संयोगे ।
६. अपवर्गे तृतीया ।
७. सप्तमी-पञ्चम्यौ कारक-मध्ये ।
८. कर्म-प्रवचनीय-युक्ते द्वितीया ।
९. यस्माद् अधिकं यस्य चेश्वर-वचनं तत्र सप्तमी ।
१०. पञ्चम्यपाङ्परिभिः ।
११. प्रतिनिधि-प्रतिदाने च यस्मात् ।
१2. गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि ।
१३. चतुर्थी सम्प्रदाने ।
१४. क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।
१५. तुमर्थाच् च भाव-वचनात् ।
१६. नमः-स्वस्ति-स्वाहा-स्वधालं-वषड्-योगाच् च ।
[[P69]]
१७. मन्य-कर्मण्यनादरे विभाषाप्राणिषु ।
१८. कर्तृ-करणयोस् तृतीया ।
१९. सह-युक्ते ऽप्रधाने ।
२०. येनाङ्ग-विकारः ।
२१. इत्थं-भूत-लक्षणे ।
२२. संज्ञो ऽन्यतरस्यां कर्मणि ।
२३. हेतौ ।
२४. अकर्तर्युणे पञ्चमी ।
२५. विभाषा गुणे ऽस्त्रियाम् ।
२६. षष्ठी हेतु-प्रयोगे ।
२७. सर्वनाम्नस् तृतीया च ।
२८. अपादाने पञ्चमी ।
२९. अन्याराद्-इतरर्ते-दिक्-छब्दाञ्चूत्तर-पदाजाहि-युक्ते ।
३०. षष्ठ्यतसर्थ-प्रत्ययेन ।
३१. एनपा द्वितीया ।
३२. पृथग्-विना-नानाभिस् तृतीयान्यतरस्याम् ।
३३. करणे च स्तोकाल्प-कृच्छ्र-कतिपयस्यासत्त्व-वचनस्य ।
३४. दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ।
३५. दूरान्तिकार्थेभ्यो द्वितीया च ।
३६. सप्तम्यधिकरणे च ।
३७. यस्य च भावेन भाव-लक्षणम् ।
३८. षष्ठी चानादरे ।
३९. स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैश् च ।
४०. आयुक्त-कुशलाभ्यां चासेवायाम् ।
४१. यतश् च निर्धारणम् ।
४२. पञ्चमी विभक्ते ।
४३. साधु-निपुणाभ्याम् अर्चायां सप्तम्यप्रतेः ।
४४. प्रसितोत्सुकाभ्यां तृतीया च ।
४५. नक्षत्रे च लुपि ।
४६. प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा ।
४७. सम्बोधने च ।
४८. सामन्त्रितम् ।
४९. एक-वचनं सम्बुद्धिः ।
५०. षष्ठी शेषे ।
५१. ज्ञो ऽविदर्थस्य करणे ।
५२. अधीगर्थ-दयेशां कर्मणि ।
५३. कृञः प्रति-यत्ने ।
५४. रुजार्थानां भाव-वचनानाम् अज्वरेः ।
५५. आशिषि नाथः ।
५६. जासि-निप्रहण-नाट-क्राथ-पिषां हिंसायाम् ।
५७. व्यव-हृ-पणोः समर्थयोः ।
५८. दिवस् तदर्थस्य ।
५९. विभाषोपसर्गे ।
६०. द्वितीया ब्राह्मणे ।
६१. प्रेष्य-ब्रुवोर् हविषो देवता-सम्प्रदाने ।
६२. चतुर्थ्यर्थे बहुलं छन्दसि ।
६३. यजेश् च करणे ।
६४. कृत्वो ऽर्थ-प्रयोगे काले ऽधिकरणे ।
६५. कर्तृ-कर्मणोः कृति ।
६६. उभय-प्राप्तौ कर्मणि ।
६७. क्तस्य च वर्तमाने ।
६८. अधिकरण-वाचिनश् च ।
६९. न लोक-अव्यय-निष्ठा-खलर्थ-तृनाम् ।
७०. अकेनोर् भविष्यद्-आधमर्ण्ययोः ।
७१. कृत्यानां कर्तरि वा ।
७२. तुल्यार्थैर् अतुलोपमाभ्यां तृतीयान्यतरस्याम् ।
७३. चतुर्थी चाशिष्य-आयुष्य-मद्र-भद्र-कुशल-सुखार्थ-हितैः ।
[[P70]]