१३ द्विकर्मक-स्थलम्, णीजन्तश् च

(अ) द्विकर्मकस्थले अपादानादीनाम् अविवक्षायां व्यवस्था

दुहादयो धातवः द्विकर्मकाः भवन्ति । द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति । अपादानादि-विशेषैः अविवक्षितं कारकं गौणं कर्म भवति । ततो द्वितीयापि भवति । यदि अपादानादित्व-रूपेणैव विवक्षा भवति, तदा तत्-तत्-कारकादि-सम्बन्धिनी विभक्तिर् एव प्रवर्तते । यथा –

अपादानादिविशेषैः अविवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति । अपादानादिविशेषैः विवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति ।
१. गोपालः गां पयो दोग्धि । १. गोपालः गोः पयः दोग्धि ।
२. वामनः बलिं वसुधां याचते । २. वामनः बलेः वसुधां याचते ।
३. पाचकः तण्डुलान् ओदनं पचति । ३. पाचकः तण्डुलानाम् ओदनं पचति ।
४. राजा गर्गान् शतं दण्डयति । ४. राजा गर्गेभ्यः शतं दण्डयति ।
५. गोपः गां व्रजम् अवरुणद्धि । ५. गोपः गां व्रजे अवरुणद्धि ।
६. पान्थः माणवकं पन्थानं पृच्छति । ६. पान्थः माणवकात् पन्थानं पृच्छति ।
७. वटुः वृक्षं फलानि अवचिनोति । ७. वटुः वृक्षात् फलानि अवचिनोति ।
८. पिता माणवकं धर्मं ब्रूते । ८. पिता माणवकाय धर्मं ब्रूते ।
९. गुरुः माणवकं धर्मं शास्ति । ९. गुरुः माणवकाय धर्मं शास्ति ।
१०. चैत्रः देवदत्तं शतं जयति । १०. चैत्रः देवदत्तात् शतं जयति ।
११. सुरासुरगणः सुधां क्षीरनिधिं मथ्नाति । ११. सुरासुरगणः सुधां क्षीरनिधौ मथ्नाति ।
१२. चैत्रः देवदत्तं शतं मुष्णाति । १२. चैत्रः देवदत्तात् शतं मुष्णाति ।
१३. कृषिकः ग्रामम् अजां नयति । १३. कृषिकः ग्रामे अजां नयति ।
१४. गोपः वृषभं गोष्ठं हरति । १४. गोपः वृषभं गोष्ठे हरति ।
१५. गोपः गोवत्सं गोष्ठं कर्षति । १५. गोपः गोवत्सं गोष्ठे कर्षति ।
१६. कृषिकः अजापुत्रं नगरं वहति । १६. कृषिकः अजापुत्रं नगरे वहति ।

अपादानादि-विशेषैः विवक्षिते वाक्यानि कथं भवेयुः इत्यत्र नागेशस्य अन्येषां च मत-भेदः अस्ति । अत्र तु तत्त्व-बोधिनीम् अनुसृत्य वाक्यानि लिखितानि ।

[[P66]]


(आ) द्विकर्मकस्थले कर्मणिप्रयोगः

इमानि द्विकर्मकवाक्यानि कर्मणिप्रयोगे (कर्मवाच्ये) एवं प्रयोक्तव्यानि –

कर्तरिप्रयोगः (कर्तृवाच्यः) कर्मणिप्रयोगः (कर्मवाच्यः)
१. गोपालः गां पयो दोग्धि । १. गोपालेन गौः पयो दुह्यते ।
२. वामनः बलिं वसुधां याचते । २. वामनेन बलिः वसुधां याच्यते ।
३. पाचकः तण्डुलान् ओदनं पचति । ३. पाचकेन तण्डुलाः ओदनं पच्यन्ते ।
४. राजा गर्गान् शतं दण्डयति । ४. राज्ञा गर्गाः शतं दण्ड्यन्ते ।
५. गोपः गां व्रजम् अवरुणद्धि । ५. गोपेन गां व्रजः अवरुध्यते ।
६. पान्थः माणवकं पन्थानं पृच्छति । ६. पान्थेन माणवकः पन्थानं पृच्छ्यते ।
७. वटुः वृक्षं फलानि अवचिनोति । ७. वटुना वृक्षः फलानि अवचीयते ।
८. पिता माणवकं धर्मं ब्रूते । ८. पित्रा माणवकः धर्मम् उच्यते ।
९. गुरुः माणवकं धर्मं शास्ति । ९. गुरुणा माणवकः धर्मं शास्यते ।
१०. चैत्रः शतं देवदत्तं जयति । १०. चैत्रेण देवदत्तः शतं जीयते ।
११. सुरासुरगणः सुधां क्षीरनिधिं मथ्नाति । ११. सुरासुरगणेन सुधां क्षीरनिधिः मध्यते ।
१२. चैत्रः देवदत्तं शतं मुष्णाति । १२. चैत्रेण देवदत्तः शतं मुष्यते ।
१३. कृषिकः ग्रामम् अजां नयति । १३. कृषिकः ग्रामम् अजा नीयते ।
१४. गोपः वृषभं गोष्ठं हरति । १४. गोपेन वृषभः गोष्ठं ह्रियते ।
१५. गोपः गोवत्सं गोष्ठं कर्षति । १५. गोपेन गोवत्सः गोष्ठं कृष्यते ।
१६. कृषिकः अजापुत्रं नगरं वहति । १६. कृषिकेण अजापुत्रः नगरम् उह्यते ।

‘दुह्यते’ इत्यारभ्य ‘मुष्यते’ इत्यन्तं यावत् गौणे कर्मणि लकारः कृतः । अतो गौण-कर्मणः अभिधानात् गौण-कर्मणो न द्वितीया, अपि तु प्रथमा । ‘नीयते’ इत्यारभ्य ‘उह्यते’ इत्यन्तं यावत् प्रधाने कर्मणि लकारः कृतः । अतः प्रधान-कर्मणः अभिधानात् प्रधान-कर्मणः परा द्वितीया न, अपि तु प्रथमा ।

अत्र दुहादयो द्वादश धातवः । तेषाम् एकः गणः । नी-हृ-कृष्-वहाश् चत्वारो धातवः । तेषाम् अपरः गणः । दुहादीनां गौणे कर्मणि लकारः । नी-हृ-कृष्-वहां प्रधाने कर्मणि लकारः इति विवेकः । “गौणे कर्मणि दुह्-आदेः प्रधाने नी-हृ-कृष्-वहाम्” इति वचनम् अत्र प्रमाणम् ।

[[P67]]


(इ) णिजन्तस्य कर्मणिप्रयोगः

गति-बुद्ध्यादेः (एक-विंशतितमं (२१) पृष्ठं पश्यन्तु) उदाहरणानां कर्तरि कर्मणि च व्यवस्था इत्थं वर्तते –

१. गुरुः छात्रं श्लोकार्थं बोधयति । १. गुरुणा छात्रः श्लोकार्थं बोध्यते / गुरुणा छात्रं श्लोकार्थः बोध्यते ।
२. माता शिशुम् ओदनं भोजयति । २. मात्रा शिशुः ओदनं भोज्यते / मात्रा शिशुम् ओदनः भोज्यते ।
३. अध्यापकः बालं वेदम् अध्यापयति । ३. अध्यापकेन बालः वेदम् अध्याप्यते / अध्यापकेन बालं वेदः अध्याप्यते ।
४. पिता बालं विद्यालयं गमयति । ४. पित्रा बालः विद्यालयं गम्यते ।
५. तरुणः वृद्धम् उपवेशयति । ५. तरुणेन वृद्धः उपवेश्यते ।
६. गुरुः विद्यार्थिनं पद्यार्थं जल्पयति । ६. गुरुणा विद्यार्थी पद्यार्थं जल्प्यते ।
७. पिता शिशुं शुकं दर्शयति । ७. पित्रा शिशुः शुकं दर्श्यते ।
८. स्वामी देवदत्तं कटं कारयति । ८. स्वामिना देवदत्तः कटं कार्यते ।
९. स्वामी भृत्यं घटं हारयति । ९. स्वामिना भृत्यः घटं हार्यते ।

बुद्ध्यर्थकस्य भक्षार्थकस्य शब्द-कर्मकाणां च प्रयोज्ये कर्मणि प्रधान-कर्मणि वा लकारः । त्रीन् एतान् विहाय अन्येषां प्रयोज्ये कर्मणि लकारः । (अण्यन्त-अवस्थायां यः कर्ता स एव ण्यन्त-अवस्थायां प्रयोज्य-कर्म भवति । यथा – छात्रः श्लोकार्थं बोधति । गुरुः छात्रं श्लोकार्थं बोधयति । अत्र द्वितीय-वाक्ये छात्रः प्रयोज्य-कर्म । एवम् अन्यत्र ऊह्यम् । विस्तरस् तु गति-बुद्धि-सूत्र-व्याख्याने दृष्टव्यः ।) अत्र इदं वचनं प्रमाणम् –

बुद्धि-भक्षार्थयोः शब्द-कर्मणां च निजेच्छया ।
प्रयोज्य-कर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥


[[P68]]