१२ कारकाणाम् अन्तर्भेदाः

षट् कारकाणि इत्य् उक्तम् ।
तेषां कारकाणाम् अन्तर्भेदाः ।
यथा –

१. कर्ता –

i. शुद्धः ii. प्रयोजको हेतुः iii. कर्म-कर्ता – चेति कर्ता त्रिविधः ।
यथा –
i. शुद्ध-कर्ता¹ – मया हरिः सेव्यते ।
ii. हेतु-कर्ता² – हरिणा भक्तेन कार्यं कार्यते ।
iii. कर्म-कर्ता³ – वसुदेवः कृष्णं गोकुलं गमयति ।
(तृतीय-वाक्ये कृष्णः कर्म-कर्ता) ।

२. कर्म –

i. निर्वर्त्यम् ii. विकार्यम् iii. प्राप्यम् iv. उदासीनम् v. द्वेष्यम् vi. संज्ञान्तरैः अनाख्यातम् vii. अन्य-पूर्वकं चेति सप्त-विधम् ।
यथा –
i. निर्वर्त्यम्⁴ – कुम्भ-कारः घटं करोति ।
ii. विकार्यम्⁵ – स्वर्ण-कारः सुवर्णं कुण्डलं करोति ।
iii. प्राप्यम्⁶ – बालः घटं पश्यति ।
iv. उदासीनम्⁷ – स ग्रामं गच्छन् तृणं स्पृशति ।
v. द्वेष्यम्⁸ – वैरिणा निगृह्यमाणः सैनिकः विषं भुङ्क्ते ।
vi. संज्ञान्तरैः अनाख्यातम्⁹ – गोपालः गां पयो दोग्धि ।
vii. अन्य-पूर्वकम्¹⁰ – हरिः वैकुण्ठम् अधिशेते ।


  1. ‘स्वतन्त्रः कर्ता’ इति सूत्रेण विहितः कर्ता ।
  2. ‘तत्-प्रयोजको हेतुश् च’ इति सूत्रेण विहितः कर्ता ।
  3. ‘गति-बुद्धि…’ इति सूत्रेण कर्म-संज्ञा-सहितः प्रयोज्य-कर्ता ।
  4. निर्वर्त्यम् = उत्पाद्यम् ।
  5. यदा प्रकृतिः परिणामित्वेन विवक्ष्यते तदा विकार्यं कर्म ।
    सुवर्णं प्रकृतिः ।
    कुण्डलं विकृतिः ।
  6. क्रिया-कृत-विशेषाणां सिद्धिः यत्र न गम्यते, तत् प्राप्यं कर्म ।
  7. औदासीन्येन प्राप्यम् उदासीनम् ।
  8. अनीप्सितं द्वेष्यम् ।
  9. अपादानादिभिः अविवक्षितम् ‘अकथितं च’ इति सूत्रेण विहितम् ।
  10. ‘अधि-शीङ्…’ इत्यादि-सूत्र-विहितम् ।

[[P64]]


३. करणम् –

एक-विधम् एव करणम् ।
यथा – रामः रावणं बाणेन हन्ति ।

४. सम्प्रदानम् –

i. अनिराकर्तृ ii. प्रेरयितृ iii. अनुमन्तृ च इति सम्प्रदानं त्रि-विधम् ।
यथा –
i. अनिराकर्तृ¹¹ – वटुः सूर्याय अर्घ्यं ददाति ।
ii. प्रेरयितृ¹² – राजा विप्राय गां ददाति ।
iii. अनुमन्तृ¹³ – शिष्यः उपध्यायाय गां ददाति ।

५. अपादानम् –

i. निर्दिष्ट-विषयम् ii. उपात्त-विषयम् iii. अपेक्षित-क्रियं चेति त्रि-विधम् ।
यथा –
i. निर्दिष्ट-विषयम्¹⁴ – चैत्रः अश्वात् पतति ।
ii. उपात्त-विषयम्¹⁵ – बलाहकाद् विद्योतते विद्युत् ।
iii. अपेक्षित-क्रियम्¹⁶ – कुतो भवान् ?
पाटली-पुत्रात् ।

६. अधिकरणम् –

i. औपश्लेषिकम् ii. वैषयिकम् iii. अभिव्यापकं चेति त्रि-विधम् ।
यथा –
i. औपश्लेषिकम्¹⁷ – शिशुः कटे शेते ।
ii. वैषयिकम्¹⁸ – मोक्षे इच्छा अस्ति ।
iii. अभिव्यापकम्¹⁹ – तिलेषु तैलम् अस्ति ।


  1. यः सम्प्रदानं सः न याचते, न अनुमन्यते, न वा निराकरोति ।
  2. यः सम्प्रदानं सः आदौ याचते ।
  3. यः सम्प्रदानं सः न याचते, किन्तु अनुमन्यते ।
  4. यत्र साक्षात् धातुना गतिः निर्दिश्यते ।
  5. यत्र धात्वन्तरार्थाङ्गं स्वार्थं धातुर् आह (यथा – निःसरणाङ्गे विद्योतने द्युतिर् अस्ति सम्प्रत्युदाहरणे) ।
  6. अनुपात्त-धात्वर्थ-क्रिया-साकाङ्क्षम् । (प्रकृतोदाहरणे धातुः अनुपात्तः) ।
  7. संयोगादि-सम्बन्ध-निबन्धनम् ।
  8. विषयत्व-सम्बन्धात् आगतम् । (औपश्लेषिकाभिव्यापकातिरिक्तम्) ।
  9. सकलावयव-व्याप्ति-कृतम् ।

[[P65]]