१. पुष्पेभ्यः स्पृहयति ।
पुष्पाणि स्पृहयति ।
२. ग्रामं गच्छति ।
ग्रामाय गच्छति ।
३. अलं विस्तरेण ।
भीमः बकाय अलम् ।
४. आलस्येन न पठति ।
आलस्यात् न पठति ।
५. तक्रं विना कथं भोजनम् ?
तेन विना तृणम् अपि न चलति ।
रामात् विना सीता न तिष्ठति ।
६. ग्रामस्य दूरं वृक्षः ।
नगरस्य दूरेण ग्रामः ।
गृहस्य दूरात् गोष्ठम् अस्ति ।
ग्रामस्य दूरे जलपातः ।
७. गृहात् दूरं विद्यालयः ।
गृहस्य दूरं विद्यालयः ।
८. किं निमित्तं वसति ?
केन निमित्तेन वसति ?
कस्मै निमित्ताय गच्छति ?
कस्मात् निमित्तात् आगतः ?
कस्य निमित्तस्य कार्यक्रमः ?
कस्मिन् निमित्ते इदं प्रवृत्तम् ?
को हेतुः ?
केन हेतुना ?
इत्यादिः ।
९. चन्द्रेण सदृशं मुखम् ।
चन्द्रस्य सदृशं मुखम् ।
१०. प्राणिनां मानवः श्रेष्ठः ।
प्राणिषु मानवः श्रेष्ठः ।
१. स्पृहयतेः प्रयोगे ईप्सितात् द्वितीया, चतुर्थी च भवतः ।
(स्पृहेरीप्सितः – १.४.३६)
२. गत्यर्थक-धातूनां प्रयोगे कर्मणो द्वितीया चतुर्थी च भवतः ।
(गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि – २.३.१२)
३. निषेधार्थकस्य ‘अलम्’ इति शब्दस्य प्रयोगे तृतीया, पर्याप्त्यर्थे तु चतुर्थी भवति ।
[गम्यमानापि क्रिया कारक-विभक्ति-प्रयोजिका (वा)] (नमः-स्वस्ति-स्वाहा-स्वधालं-वषड्-योगाच् च – २.३.१६)
४. गुण-वाचकस्य हेत्वर्थे विद्यमानस्य प्रयोगे तृतीया, पञ्चमी च भवतः स्त्री-लिङ्गे तु तृतीयैव ।
(विभाषा गुणे ऽस्त्रियाम् – २.३.२५)
५. विना प्रयोगे द्वितीया, तृतीया, पञ्चमी च भवन्ति ।
(पृथग्-विना-नानाभिः तृतीयान्यतरस्याम् – २.३.३२)
६. अद्रव्य-वचनेभ्यो दूरान्तिकार्थेभ्यो द्वितीया, तृतीया, पञ्चमी, सप्तमी च भवन्ति ।
(दूरान्तिकार्थेभ्यो द्वितीया च – २.३.३५, सप्तम्यधिकरणे च – २.३.३६)
७. दूरार्थकैः अन्तिकार्थैश् च शब्दैः योगे पञ्चमी षष्ठी च स्यात् ।
(दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् – २.३.३४)
८. निमित्त-पर्यायाणां प्रयोगे, तेषां तद्-विशेषणानां च प्रायः सर्वाः विभक्तयः भवन्ति ।
[निमित्त-पर्याय-प्रयोगे सर्वासाम् प्राय-दर्शनम् (वा)]
९. सदृशार्थक-शब्दस्य प्रयोगे उपमान-वाचकात् तृतीया, षष्ठी च भवतः ।
(तुल्यार्थैर् अतुलोपमाभ्यां तृतीयान्यतरस्याम् – २.३.७२)
१०. यस्मात् समुदायात् जाति-गुण-क्रिया-संज्ञाभिः एक-देशस्य पृथक्-करणं क्रियते तस्मात् समुदायात् षष्ठी, सप्तमी च भवतः ।
(यतश् च निर्धारणम् – २.३.३८)
[[P63]]