| कारकसूत्राणि अर्थाः च | कारकाणि | विभक्तयः | उदाहरणानि |
|---|---|---|---|
| १. स्वतन्त्रः कर्ता – (१.४.५४) व्यापाराश्रयः कर्ता । | कर्ता | तृतीया प्रथमा* षष्ठी |
– कर्मप्र – गुरुणा पाठः क्रियते । – कर्तृप्र – छात्राः शालां प्रविशन्ति । – कृष्णस्य गमनम् । |
| २. कर्तुरीप्सिततमं कर्म – (१.४.४९) फलेन सम्बन्धुम् इष्यमाणं कर्म । | कर्म | द्वितीया प्रथमा* षष्ठी |
– कर्तृप्र – धीराः पर्वतान् आरोहन्ति । – कर्मप्र – रोगिणा वैद्यः अवलोक्यते । – रामायणस्य रचयिता । |
| ३. साधकतमं करणम् – (१.४.४२) यत् स्वव्यापारसमनन्तरम् एव फलोत्पादकं तत् करणम् । | करणम् | तृतीया | – रामः बाणेन रावणं हन्ति । |
| ४. कर्मणा यमभिप्रैति स सम्प्रदानम् – (१.४.३२) कर्मणा सम्बन्धुं यम् अभिप्रैति (इच्छति) सः सम्प्रदानम् । | सम्प्रदानम् | चतुर्थी | – विश्वासः मित्राय पुस्तकं ददाति । |
* प्रातिपदिकार्थम् अवलम्ब्य एषा प्रथमा ।
[[P61]]
| ५. ध्रुवमपायेऽपादानम् – (१.४.२४) विभागाश्रयः अपादानम् । | अपादानम् | पञ्चमी | – बालः वाहनात् पतति । |
| ६. आधारोऽधिकरणम् – (१.४.४५) कर्तरि विद्यमानक्रियायाः कर्मणि विद्यमानफलस्य वा आधारः अधिकरणम् । | अधिकरणम् | सप्तमी | – षष्ठी राज्ञः पुरुषः । – सर्वे कटे उपविशन्ति । – मोक्षे इच्छा अस्ति । – तिले तैलम् अस्ति । |
| विशेषः – | \multicolumn{3}{l}{१. यः क्रियया अन्वेति = सम्बन्धं प्राप्नोति सः कारकम् । २. कर्तृकारकात् परा प्रथमा, तृतीया, षष्ठी च श्रूयते । ३. कर्मकारकात् परा द्वितीया, प्रथमा, षष्ठी च श्रूयते । ४. करणात् तृतीया, सम्प्रदानात् चतुर्थी, अपादानात् पञ्चमी, अधिकरणात् सप्तमी च नियता ।} |
[[P62]]